कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

लान्तवर्गः · लत्रिकम्

लत्रिकम्

अनलो वसुभेदेऽग्नावनिलो वसुवातयोः ॥ ५७ ॥
28.3.57 · p. 149
अर्गला त्रिषु कल्लोलेऽन्तर्दण्डवारयोर्न ना ।अरालः कुटिले सर्जरसे समददन्तिनि ॥ ५८ ॥
28.3.58 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ड (wrong syllable)
अङ्गुली करशाखायां कर्णिकायां गजस्य च ।अचला वसुधायां स्यादचलः शैलकीलयोः ॥ ५९ ॥
28.3.59 · p. 149
अनुष्टुप्
अमलन्त्वभ्रके क्लीबं लक्ष्म्यां स्त्री निर्मले त्रिषु ।अञ्जलिस्तु पुमान् हस्तसम्पुटे कुडवेऽपि च ॥ ६० ॥
28.3.60 · p. 149
अनुष्टुप्
अवेलस्त्वपलापे स्यादवेला पूगचर्विते ।आभीलं न द्वयोः कृच्छ्रे वाच्यलिङ्गं भयानके ॥ ६१ ॥
28.3.61 · p. 149
अनुष्टुप्
इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः ।उत्पली तुषचर्पट्यां क्लीबं कुष्ठप्रसूनयोः ॥ ६२ ॥
28.3.62 · p. 149
अनुष्टुप्
उपलः प्रस्तरे रत्ने शर्करायान्तु योषिति ।उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ॥ ६३ ॥
28.3.63 · p. 149
अनुष्टुप्
उत्फुल्लं करणे स्त्रीणामुत्तानेऽपि विकस्वरे ।उत्ताल उत्कटे श्रेष्ठे विकराले प्लवङ्गमे ॥ ६४ ॥
28.3.64 · p. 149
अनुष्टुप्
कमलं सलिले ताम्रे जलजे क्लोम्नि भेषजे ।मृगभेदे तु कमलः कमला श्रीवरस्त्रियोः ॥ ६५ ॥
28.3.65 · p. 149
अनुष्टुप्
कपिला रेणुकायाञ्च शिंशपागोविशेषयोः ।पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् ॥ ६६ ॥
28.3.66 · p. 149
अनुष्टुप्
नाऽनले वासुदेवे च मुनिभेदे च कुक्कुरे ।कम्बलो नागराजे स्यात् सास्नाप्रावारयोरपि ॥ ६७ ॥
28.3.67 · p. 149
अनुष्टुप्
कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् ।करालो दन्तुरे तुङ्गे भीषणे चाभिधेयवत् ॥ ६८ ॥
28.3.68 · p. 150
अनुष्टुप्
ससर्जरसतैले ना क्लीबं कृष्णकुठेरके ।कन्दलं त्रिषु कपालेऽप्युपरागे नवाङ्कुरे ॥ ६९ ॥
28.3.69 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
कलध्वनौ कन्दली तु मृगगुल्मप्रभेदयोः ।कदला कदलौ पृश्न्यां कदली कदलौ पुनः ॥ ७० ॥
28.3.70 · p. 150
अनुष्टुप्
रम्भावृक्षेऽथ कदली पताकामृगभेदयोः ।कला डिम्बिकायाञ्च शाल्मलीभूरुहेऽपि च ॥ ७१ ॥
28.3.71 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कपालोऽस्त्री शिरोऽस्थ्नि स्याद् घटादेः शकले व्रजे ।कण्ठाला तु द्वयोर्द्रोणीप्रभेदे ना क्रमेलके ॥ ७२ ॥
28.3.72 · p. 150
अनुष्टुप्
कल्लोलः पुंसि हर्षे स्यादुल्लोलवैरिणोरपि ।कामला रोगभेदे वा ना ना मरुवसन्तयोः ॥ ७३ ॥
28.3.73 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
कामुके वाच्यलिङ्गोऽथ काकोलं नरकान्तरे ।ना कुलाले द्रोणकाके विषभेदे तु न स्त्रियाम् ॥ ७४ ॥
28.3.74 · p. 150
अनुष्टुप्
काहला वाद्यभाण्डस्य भेदे चाप्सरसां भिदि ।काहली तु तरुण्यां स्यात् कालश्चरणायुधे ॥ ७५ ॥
28.3.75 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दमात्रेऽपि पुंलिङ्गस्त्रिषु शुष्के भृशे खले ।किट्टालः पुंसि ताम्रस्य कलसे लोहगूथके ॥ ७६ ॥
28.3.76 · p. 150
अनुष्टुप्
कीलालं रुधिरे तोये कुशलः शिक्षिते त्रिषु ।क्षेमे च सुकुते चापि पर्य्याप्तौ च नपुंसकम् ॥ ७७ ॥
28.3.77 · p. 150
अनुष्टुप्
कुवलञ्चोत्पले मुक्ताफले च बदरीफले ।कुड्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे ॥ ७८ ॥
28.3.78 · p. 150
अनुष्टुप्
कुटिला तगरपाद्यां स्त्री भुग्ने च वाच्यलिङ्गकः ।कुन्तलश्चषके बाले यवे पुंभूम्नि नीवृति ॥ ७९ ॥
28.3.79 · p. 150
अनुष्टुप्metre not read in every line
कुलालः कुक्कुभे कुम्भकारे स्त्री त्वञ्जनान्तरे ।कुम्भीलः शालमीने च चौरश्लोकार्थचौरयोः ॥ ८० ॥
28.3.80 · p. 150
अनुष्टुप्
कुद्दालः स्यात् पुमान् भूमिदारणे युगपत्रके ।कुचेला विद्धकर्ण्यां स्त्री वाच्यवत्तु कुवाससि ॥ ८१ ॥
28.3.81 · p. 150
अनुष्टुप्
कुकूलं शङ्कुसङ्गीर्णश्वभ्रे ना तु तुषानले ।कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च ॥ ८२ ॥
28.3.82 · p. 151
अनुष्टुप्
काञ्चनद्रुगुडूच्योः स्त्री केवलः कुहने पुमान् ।नपुंसकन्तु निर्णीते वाच्यवच्चैककृत्स्नयोः ॥ ८३ ॥
28.3.83 · p. 151
अनुष्टुप्
केवली ज्ञानभेदेऽथ कोमलं मृदुले जले ।कोहलो वाद्यभेदे स्यान् नाट्यशास्त्रप्रवक्तरि ॥ ८४ ॥
28.3.84 · p. 151
अनुष्टुप्
ग्रन्थिलस्तु करीरद्रौ विकङ्कततरौ पुमान् ।संग्रन्थौ त्रिषु गन्धोलिर्भद्राशट्योश्च योषिति ॥ ८५ ॥
28.3.85 · p. 151
अनुष्टुप्
गरलं तृणपूले च विषे माने नपुंसकम् ।गोपालो नृपगोपेशे गोकीलो मुसले हले ॥ ८६ ॥
28.3.86 · p. 151
अनुष्टुप्
गौरिलस्तु पुमान् लौहचूर्णे स्याद्गौरसर्षपे ।चपलः पारदे मीने चौरके प्रस्तरान्तरे ॥ ८७ ॥
28.3.87 · p. 151
अनुष्टुप्
चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च ।नपुंसकन्तु शीघ्रे स्याद् वाच्यवत् तरले चले ॥ ८८ ॥
28.3.88 · p. 151
अनुष्टुप्
चत्वालो होमकुण्डे स्यात् पुंसि दर्भेऽपि दृश्यते ।चन्दिलः पुंसि वास्तूकशाके भगे च नापिते ॥ ८९ ॥
28.3.89 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
चञ्चला तु तडिल्लक्ष्म्योश्चञ्चलः कामुकेऽनिले ।चूडाली तूच्चटायां स्त्री चूडावति च वाच्यवत् ॥ ९० ॥
28.3.90 · p. 151
अनुष्टुप्
छगलं नीलवस्त्रे ना छागे स्त्री वृद्धदारके ।जम्बालः शैवले पङ्के जगलो मदनद्रुमे ॥ ९१ ॥
28.3.91 · p. 151
अनुष्टुप्
मेदके पिष्टमद्ये च पुंसि धूर्त्तेऽभिधेयवत् ।जटिला पिप्पलीमांस्योर्जटायुक्ते च वाच्यवत् ॥ ९२ ॥
28.3.92 · p. 151
अनुष्टुप्
जङ्गलं निर्जनस्थाने त्रिलिङ्ग्यां पिशितेऽस्त्रियाम् ।जम्भलः पुंसि जम्बीरे बुद्धदेवान्तरेऽपि च ॥ ९३ ॥
28.3.93 · p. 151
अनुष्टुप्
जम्बूलस्तु पुमान् जम्बूविटपे क्रकचच्छदे ।जाङ्गुली विषविद्यायां जाङ्गुलं जालिनीफले ॥ ९४ ॥
28.3.94 · p. 151
अनुष्टुप्
जाङ्गली शूकशिम्ब्यां स्त्री जाङ्गलो ना कपिञ्जले ।तरलं चञ्चले षिड्गे भास्वरेऽपि त्रिलिङ्गकम् ॥ ९५ ॥
28.3.95 · p. 151
अनुष्टुप्
हारमध्यमणौ पुंसि यवागूसुरयोः स्त्रियाम् ।तण्डुलः स्याद्विडङ्गे च धान्यादिनिकरे पुमान् ॥ ९६ ॥
28.3.96 · p. 152
अनुष्टुप्
तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे ।ताम्बूली नागवल्ल्यां स्त्री क्रमुके तु नपुंसकम् ॥ ९७ ॥
28.3.97 · p. 152
अनुष्टुप्
तातलो रुजि पाके च लोहकूटे मनोजवे ।तुमुलः कलिवृक्षे ना क्लीबन्तु रणसङ्कुले ॥ ९८ ॥
28.3.98 · p. 152
अनुष्टुप्
तैतिलो गण्डके पुंसि क्लीवन्तु करणान्तरे ।दुकूलं श्लक्ष्णवस्त्रे स्यात् क्षौमे च धवला गवि ॥ ९९ ॥
28.3.99 · p. 152
अनुष्टुप्
वृषश्रेष्ठे पुमान् वाच्यलिङ्गः शुक्ले च सुन्दरे ।नकुली कुक्कुटीमांस्योः पशुपाण्डवयोः पुमान् ॥ १०० ॥
28.3.100 · p. 152
अनुष्टुप्
नाकुली कुक्कुटीकन्दे रास्नायां चविके स्त्रियाम् ।नाभीलं वङ्क्षणे नार्याः कृच्छ्रगर्भाण्डयोरपि ॥ १०१ ॥
28.3.101 · p. 152
अनुष्टुप्
निचुलस्तु निचोले स्यादिज्जलाख्यमहीरुहे ।निर्मलं स्यात्तु निर्माम्ये चाभ्रके च नपुंसकम् ॥ १०२ ॥
28.3.102 · p. 152
अनुष्टुप्
मलहीनेऽन्यलिङ्गञ्च निस्तलं वर्त्तुले चले ।निष्कलस्तु कलाशून्ये नष्टवीर्य्ये च वाच्यवत् ॥ १०३ ॥
28.3.103 · p. 152
अनुष्टुप्
नेपाली तु नवमालीकुनटीसुवहासु च ।पक्षले तिलचूर्णे च पङ्के मांसे नपुंसकम् ॥ १०४ ॥
28.3.104 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
ना राक्षसेऽथ पटलं पिटके च परिच्छदे ।छर्दिर्दृग्रोगतिलके क्लीबं वृन्दे पुनर्न ना ॥ १०५ ॥
28.3.105 · p. 152
अनुष्टुप्
प्रतलं पातालभेदे तताङ्गुलिकरे पुमान् ।पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यां तु योषिति ॥ १०६ ॥
28.3.106 · p. 152
अनुष्टुप्
प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे ।पाञ्चाली पुत्रिकागीत्योः स्त्रियां पुम्भूम्नि नीवृति ॥ १०७ ॥
28.3.107 · p. 152
अनुष्टुप्
पांशुलः पुंश्चले शम्भोः खट्वाङ्गे स्त्र्यसतीभुवोः ।पाकलं कुष्ठभैषज्ये पुंसि स्यात् कुञ्जरज्वरे ॥ १०८ ॥
28.3.108 · p. 152
अनुष्टुप्
पाचलं पाचने नाग्नौ राधनद्रव्यवातयोः ।पाटला पाटलौ स्त्री स्यादस्य पुष्पे पुनर्न ना ॥ १०९ ॥
28.3.109 · p. 152
अनुष्टुप्
आशुधान्ये पुमान् श्वेतरक्तवर्णेऽपि वाच्यवत् ।पातालं नागलोके स्याद्विवरे वडवानले ॥ ११० ॥
28.3.110 · p. 153
अनुष्टुप्
पातिली वागुरायां स्यान्नारीपात्रप्रभेदयोः ।पिप्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ ॥ १११ ॥
28.3.111 · p. 153
अनुष्टुप्
निरंशुके पक्षिभेदे कणायां पिप्पली मता ।पिचुलो झावुकेऽपि स्यादिज्जले जलवायसे ॥ ११२ ॥
28.3.112 · p. 153
अनुष्टुप्
पिङ्गलो नागभिद्रुद्रचण्डांशुपारिपार्श्विके ।निधिभेदे कपावग्नौ पुंसि स्यात् कपिलेऽन्यवत् ॥ ११३ ॥
28.3.113 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च ।पित्तला तोयपिप्पल्यां स्त्र्यन्यवत् पित्तसंयुते ॥ ११४ ॥
28.3.114 · p. 153
अनुष्टुप्
क्लीबन्तु तैजसद्रव्ये पिच्छलो विजिलेऽन्यवत् ।स्त्री पोतिकोशिंशपयोः शाल्मलीसिन्धुभेदयोः ॥ ११५ ॥
28.3.115 · p. 153
अनुष्टुप्
पुद्गलः सुन्दराकारे त्रिषु पुंस्यात्मदेहयोः ।पेषलो रुचिरे दक्षे फेनिलोऽरिष्टपादपे ॥ ११६ ॥
28.3.116 · p. 153
अनुष्टुप्
नासफेने त्रिषु क्लीबं कोलीमदनयोः फले ।बहुला नीलिकायां स्यादेलायां गवि योषिति ॥ ११७ ॥
28.3.117 · p. 153
अनुष्टुप्
कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् ।पुंस्यग्नौ कृष्णपक्षे च वाच्यवत् प्राज्यकृष्णयोः ॥ ११८ ॥
28.3.118 · p. 153
अनुष्टुप्
बरला वारला चापि गन्धोलीहंसकान्तयोः ।बार्द्दलं दुर्द्दिने मेलानन्दायां वार्द्दलः स्मृतः ॥ ११९ ॥
28.3.119 · p. 153
अनुष्टुप्
मङ्गला सितदूर्वायामुमायां पुंसि भूमिजे ।नपुंसकन्तु कल्याणे सर्व्वार्थरक्षणेऽपि च ॥ १२० ॥
28.3.120 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
मण्डलं परिधौ कोठे देशे द्वादशराजसु ।क्लीबेऽथ निवहे बिम्बे त्रिषु पुंसि तु कुक्कुरे ॥ १२१ ॥
28.3.121 · p. 153
अनुष्टुप्
मञ्जुलं त्रिषु मञ्जौ ना जलरङ्कौ नपुंसकम् ।जलाञ्चले निकुञ्जे च महिला फलिनीस्त्रियोः ॥ १२२ ॥
28.3.122 · p. 153
अनुष्टुप्
मातुलो व्रीहिभिन्मातृभ्रात्रोश्च मदनद्रुमे ।धूस्तूरे माचलो वन्दिचौरे च ग्राहरागयोः ॥ १२३ ॥
28.3.123 · p. 153
अनुष्टुप्
मूषलं स्यादयोऽग्रे च पुन्नपुंसकयोः स्त्रियाम् ।तालमूल्यामाखुपर्णीगृहगोधिकयोरपि ॥ १२४ ॥
28.3.124 · p. 154
अनुष्टुप्
मृणालं नलदे क्लीबं पुन्नपुंसकयोर्बिसे ।मेखला खड्गबन्धे स्यात् काञ्चीशैलनितम्बयोः ॥ १२५ ॥
28.3.125 · p. 154
अनुष्टुप्
यमलं युगले क्लीबं यमली चोटिकाद्वये ।रसाला रसनादूर्व्वाविदारीमार्जितासु च ॥ १२६ ॥
28.3.126 · p. 154
अनुष्टुप्
रसालं सिह्लके बोले रसालश्चेक्षुचूतयोः ।रामिलो रमणे कामे लाङ्गुलं पुच्छशेफयोः ॥ १२७ ॥
28.3.127 · p. 154
अनुष्टुप्
लाङ्गली तोयपिप्पल्यां क्लीबन्तु कुसुमान्तरे ।गोदारणे तृणराजगृहदारुविशेषयोः ॥ १२८ ॥
28.3.128 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
लोहलः शृङ्खलाचार्य्येऽव्यक्तवाचिनि च त्रिषु ।वञ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि ॥ १२९ ॥
28.3.129 · p. 154
अनुष्टुप्
वण्टालो युद्धभेदे च नौकायाञ्च खनित्रके ।वातलः पुंसि वात्यायां वाच्यवन्मारुतासहे ॥ १३० ॥
28.3.130 · p. 154
अनुष्टुप्
वामिलो दाम्भिके वामे त्रिषु स्याद्विमला स्त्रियाम् ।शातलायां भुवो भेदे निर्म्मले त्वभिधेयवत् ॥ १३१ ॥
28.3.131 · p. 154
अनुष्टुप्
विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे ।विदुलस्तु पुमानम्बुवेतसे वेतसेऽपि च ॥ १३२ ॥
28.3.132 · p. 154
अनुष्टुप्
विडालो नेत्रपिण्डे स्याद् वृषदंशकके पुमान् ।विशाला त्विन्द्रावारुण्यामुज्जयिन्यान्तु योषिति ॥ १३३ ॥
28.3.133 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्द्रा (wrong syllable)
मृगपक्षिभिदोः पुंसि पृथुले त्वभिधेयवत् ।वृषलो गृञ्जने शूद्रे चन्द्रगुप्तेऽपि राजनि ॥ १३४ ॥
28.3.134 · p. 154
अनुष्टुप्
शकलं त्वचि खण्डे स्याद् रागवस्तुनि वल्कले ।शम्बलोऽस्त्री सम्बलवत् कुलपाथेयमत्सरे ॥ १३५ ॥
28.3.135 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
शयालुः स्यादजगरे निद्राशीले च कुक्कुरे ।श्रद्धालुर्दोहदिन्यां स्त्री श्रद्धायुक्ते तु याच्यवत् ॥ १३६ ॥
28.3.136 · p. 154
अनुष्टुप्
श्यामलः पिप्पले कृष्णे शार्दूलो राक्षसान्तरे ।व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ॥ १३७ ॥
28.3.137 · p. 154
अनुष्टुप्
शाल्मलिस्तरुभेदे स्याद् द्वीपभेदेऽपि च द्वयोः ।श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम् ॥ १३८ ॥
28.3.138 · p. 155
अनुष्टुप्
शीवलं स्याच्च शैवाले शैलेये च नपुंसकम् ।शीतलं पुष्पकाशीशे शैलजे मलयोद्भवे ॥ १३९ ॥
28.3.139 · p. 155
अनुष्टुप्
पुमानसनपर्ण्यां स्यात् शिशिरे वाच्यलिङ्गकम् ।शृगालो वञ्चके दैत्यभेदे ना डमरे स्त्रियाम् ॥ १४० ॥
28.3.140 · p. 155
अनुष्टुप्
शृङ्खला पुंस्कटीवस्त्रबन्धे च निगडे त्रिषु ।शैवलं पद्मकाष्ठे स्यात् शैवालेऽपि पुमानयम् ॥ १४१ ॥
28.3.141 · p. 155
अनुष्टुप्
शौष्कलः शुष्कमांसस्य पणके पिशिताशिनि ।षण्डाली तैलमाने च सरसीकामुकस्त्रियोः ॥ १४२ ॥
28.3.142 · p. 155
अनुष्टुप्
सरलः पूतिकाष्ठे नाऽथोदारावक्रयोस्त्रिषु ।सङ्कुलं त्रिषु विस्पष्टवाचि व्याप्तेऽथ सप्तला ॥ १४३ ॥
28.3.143 · p. 155
अनुष्टुप्
नवमालीचर्मकषागुञ्जासु पाटलौ स्त्रियाम् ।सन्धिला तु सुरुङ्गायां नदीमदिरयोः स्त्रियाम् ॥ १४४ ॥
28.3.144 · p. 155
अनुष्टुप्metre not read in every line
सिध्मला मत्स्यविकृतौ वाच्यवत्तु किलासिनि ।सुवेलः प्रणते शान्ते त्रिषु ना पर्वतान्तरे ॥ १४५ ॥
28.3.145 · p. 155
अनुष्टुप्
सुतलोऽट्टलिकाबन्धनागलोकप्रभेदयोः ।हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यान्तु हिङ्गुली ॥ १४६ ॥
28.3.146 · p. 155
अनुष्टुप्
हेमलः स्वर्णकारे स्यात् कृकलासे शिलान्तरे ।
28.3.91 · p. 155