कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

ढान्तवर्गः · ढत्रिकम्

ढत्रिकम्

अध्यूढा कृतसापत्न्यनार्यामध्यूढ ईश्वरे ।आषाढो व्रतिनां दण्डे मासे मलयपर्वते ॥ ६ ॥
14.3.6 · p. 44
अनुष्टुप्
स्त्री पूर्णिमायामालीढं पादन्यासेऽशिते त्रिषु ।उदू(१)ढमूढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥
14.3.7 · p. 44
अनुष्टुप्
प्रगाढः कृच्छ्रदृढयोः प्रमीढो मूत्रिते घने ।प्ररूढो जठरे बद्धमूले वारूढ इत्ययम् ॥ ८ ॥
14.3.8 · p. 44
अनुष्टुप्
वस्त्राञ्चले कपाटेऽग्नौ पञ्जरे शम्बलेऽपि च ।विरूढोऽङ्कुरिते जाते विगूढो गर्हितेऽपि च ॥ ९ ॥
14.3.9 · p. 44
अनुष्टुप्
गुप्तेऽपि त्रिषु संरूढः प्रौढे चाङ्कुरिते त्रिषु ।समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते ॥ १० ॥
14.3.10 · p. 44
अनुष्टुप्