कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

वान्तवर्गः · वत्रिकम्

वत्रिकम्

अक्षीवं वशिरे शिग्रौ नाऽमत्ते पुनरन्यवत् ॥ ३० ॥
29.3.30 · p. 159
अभावो मरणेऽसत्त्वे आहवो युद्धयज्ञयोः ।आर्त्तवं स्त्रीरजःपुष्पे क्लीबं स्यादृतुजे त्रिषु ॥ ३१ ॥
29.3.31 · p. 159
अनुष्टुप्
आश्रवोऽङ्गीकृतौ क्लेशे नाऽन्यवत् वचनस्थिते ।उद्धवो यादवभिदि महे च क्रतुपावके ॥ ३२ ॥
29.3.32 · p. 159
अनुष्टुप्
उत्सवो मह उत्सेके इच्छाप्रसवकोपयोः ।कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके ॥ ३३ ॥
29.3.33 · p. 160
अनुष्टुप्
कितवस्तु पुमान् मत्ते वञ्चके कनकाह्वये ।केशवोऽजे च पुन्नागे पुंसि केशवति त्रिषु ॥ ३४ ॥
29.3.34 · p. 160
अनुष्टुप्
कैतवं तु छले द्यूते कैरवः कितवे रिपौ ।नपुंसकञ्च कुमुदे चन्द्रिकायान्तु कैरवी ॥ ३५ ॥
29.3.35 · p. 160
अनुष्टुप्
गाण्डीवो गाण्डिवश्चास्त्री कामुकेऽर्जुनकार्मुके ।गालवस्तु मुनौ लोध्रे ताण्डवोऽस्त्री तृणान्तरे ॥ ३६ ॥
29.3.36 · p. 160
अनुष्टुप्
भवेदुद्धतनृत्ये च त्रिदिवा सरिदन्तरे ।पुंसि स्वर्गे दीदिविर्ना धिषणेऽन्ने तदस्त्रियाम् ॥ ३७ ॥
29.3.37 · p. 160
अनुष्टुप्
निष्पावः शूर्पपवने राजमाषे कडङ्गके ।पवने शिम्बिकायां ना निर्विकल्पेऽन्यलिङ्गकः ॥ ३८ ॥
29.3.38 · p. 160
अनुष्टुप्
निह्निवः पुंसि निकृतावविश्वासापलापयोः ।पल्लवोऽस्त्री किसलये विटपे विस्तरे वने ॥ ३९ ॥
29.3.39 · p. 160
अनुष्टुप्
शृङ्गारेऽलक्तरागे च प्रभावः शान्तितेजसोः ।पञ्चत्वं पञ्चानां भावे प्राणानामत्ययेऽपि च ॥ ४० ॥
29.3.40 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्चा (wrong syllable)
प्रभवो जन्ममूले स्याज्जन्महेतौ पराक्रमे ।ज्ञानस्य चादिमस्थाने प्रसवो गर्भमोचने ॥ ४१ ॥
29.3.41 · p. 160
अनुष्टुप्
उत्पादे स्यादपत्येऽपि फले च कुसुमेऽपि च ।प्रसेवः पुंसि वीणाऽङ्गे स्यूते च पार्थिवे नृपे ॥ ४२ ॥
29.3.42 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पार्थिवी तु सीतायां स्त्री पृथिव्या विकृतौ त्रिषु ।पुङ्गवः स्याद्बलीवर्दे प्रभेदेऽप्यौषधस्य च ॥ ४३ ॥
29.3.43 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सी (wrong syllable)
उत्तरस्थः पुनः श्रेष्ठे फेरवो जम्बुकेऽस्रपे ।बल्लवः सूपकारे स्याद् भीमसेने च गोद्रुहि ॥ ४४ ॥
29.3.44 · p. 160
अनुष्टुप्
बान्धवो ज्ञातिसुहृदोर्भार्गवो गजधन्विनोः ।शुक्रे परशुरामे च भार्गवी पार्वतीश्रियोः ॥ ४५ ॥
29.3.45 · p. 160
अनुष्टुप्
दूर्वायां भैरवः पुंसि शङ्करे भीषणे त्रिषु ।माधवोऽजे मधौ राधे यादवे ना स्त्रियां मिसौ ॥ ४६ ॥
29.3.46 · p. 160
अनुष्टुप्
मधुशर्करावासन्तीकुट्टनीमदिरासु च ।गोमहिष्यादिसम्पत्तौ यादवः पुंसि केशवे ॥ ४७ ॥
29.3.47 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
राजीवं नलिने ना तु भेदे हरिणमीनयोः ।राघवोऽब्धेर्महामीनभेदे च रघुवंशजे ॥ ४८ ॥
29.3.48 · p. 161
अनुष्टुप्
रौरवो नरके घोरे वडवा द्विजयोषिति ।अश्वायां कुम्भदास्याञ्च नारीजात्यन्तरेऽपि च ॥ ४९ ॥
29.3.49 · p. 161
अनुष्टुप्
वाडवं करणे स्त्रीणां घोटकौघे नपुंसकम् ।पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले ॥ ५० ॥
29.3.50 · p. 161
अनुष्टुप्
विभवो रैमोक्षैश्वर्य्ये विद्रवो विद्रुतौ धियि ।विभावः स्यात् परिचये रसस्योद्दीपनादिषु ॥ ५१ ॥
29.3.51 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मो (wrong syllable)
शात्रवं भावसंहत्योः शत्रूणां शात्रवो द्विषि ।षाडवो गानरसयोः सचिवो मन्त्रिणि स्मृतः ॥ ५२ ॥
29.3.52 · p. 161
अनुष्टुप्
सहाये सम्भवो हेतावुत्पत्तौ मेलकेऽपि च ।आधारानतिरिक्तत्वेऽप्याधेयस्य निगद्यते ॥ ५३ ॥
29.3.53 · p. 161
अनुष्टुप्
सुग्रीवो वासुदेवस्य हये शाखामृगेश्वरे ।सुषवी कारवेल्ले स्यात् कृष्णजीरकजीरयोः ॥ ५४ ॥
29.3.54 · p. 161
अनुष्टुप्
सैन्धवोऽस्त्री माणिमन्थे नाऽश्वे सिन्धुभवे त्रिषु ।
29.3.26 · p. 161