कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

ढान्तवर्गः · ढद्विकम्

ढद्विकम्

गूढं रहसि गुह्ये च न द्वयोः संवृते त्रिषु ॥ १ ॥
14.2.1 · p. 43
दृढं स्थूले नितान्ते च प्रगाढबलवत्यपि ।माढिः स्त्री पत्रभङ्गे च दैन्यस्यापि प्रकाशने ॥ २ ॥
14.2.2 · p. 43
अनुष्टुप्
मूढस्तु तन्द्रिते बाले राढा स्त्री सुह्मशोभयोः ।रूढं जाते प्रसिद्धे च बाढे दृढप्रतिज्ञयोः ॥ ३ ॥
14.2.3 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दृ (wrong syllable)
व्यूढः संहतविन्यस्तपृथुलेष्वभिधेयवत् ।षोढा ना भारिके सूते षण्ढः स्यात् पुंसि गोपतौ ॥ ४ ॥
14.2.4 · p. 44
अनुष्टुप्
आकृष्टाण्डे वर्षवरे तृतीयाप्रकृतावपि ।सोढा तितिक्षासंयुक्ते शक्ते चाप्यभिधेयवत् ॥ ५ ॥
14.2.5 · p. 44
अनुष्टुप्