कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

पान्तवर्गः · पद्विकम्

पद्विकम्

कल्पः शास्त्रे विधौ न्याये संवर्त्ते ब्रह्मणो दिने ।कपिर्ना सिह्लके शाखामृगे च मधुसूदने ॥ २ ॥
21.2.2 · p. 102
अनुष्टुप्
कूपः कूपकमृण्माने गर्त्ताम्बुगुणवृक्षके ।कृपो द्रोणश्यालके स्याद् द्रोणपत्न्यां कृपी मता ॥ ३ ॥
21.2.3 · p. 102
अनुष्टुप्
कृपा दयायां क्षेपस्तु निन्दाविक्षेपलेपने ।विलम्बप्रेरणे गर्वे खष्पः क्रोधे बलात्कृतौ ॥ ४ ॥
21.2.4 · p. 102
अनुष्टुप्
गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि ।ग्रामौघाधिकृते पुंसि शारिवाख्यौषधौ स्त्रियाम् ॥ ५ ॥
21.2.5 · p. 102
अनुष्टुप्
छुपः क्षुपस्पर्शनयोस्त्रपु सीसकरङ्गयोः ।तल्पमट्टे कलत्रे च शयनीये च न द्वयोः ॥ ६ ॥
21.2.6 · p. 102
अनुष्टुप्
त्रपा लज्जाकुलटयोस्तापः सन्तापकृच्छ्रयोः ।तापी नद्यन्तरे दर्पः कस्तूर्य्यामप्यहङ्कृतौ ॥ ७ ॥
21.2.7 · p. 102
अनुष्टुप्
नीपः कदम्बबन्धूकनीलाशोकद्रुमेष्वपि ।पुष्पं विकाशकुसुमस्त्रीरजःसु नपुंसकम् ॥ ८ ॥
21.2.8 · p. 102
अनुष्टुप्
रूपं स्वभावे सौन्दर्य्ये नामगे पशुशब्दयोः ।ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥ ९ ॥
21.2.9 · p. 102
अनुष्टुप्
रेपः स्यान्निन्दिते क्रूरे रोपो रोपणबाणयोः ।लेपः प्रलेपने जग्धौ वपा विवरमेदसोः ॥ १० ॥
21.2.10 · p. 102
अनुष्टुप्
बाष्प ऊष्मणि नाऽस्रेऽथ शष्पं बालतृणे स्मृतम् ।पुंसि स्यात् प्रतिभाहानौ शाप अक्रोशदिव्ययोः ॥ ११ ॥
21.2.11 · p. 102
अनुष्टुप्
शिल्पं स्रुवे क्रियायोग्ये स्वापः शयननिद्रयोः ।स्पर्शाज्ञतायामज्ञाने सूपो व्यञ्जनसूदयोः ॥ १२ ॥
21.2.12 · p. 102
अनुष्टुप्