All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
भान्तवर्गः · भत्रिकम्
भत्रिकम्
आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः ॥ १० ॥
24.3.10 · p. 106
आत्मभूर्ना विधौ कामेऽप्यृषभस्त्वौषधान्तरे ।स्वरभिद्वृषयोः कर्णरन्ध्रकुम्भीरपुच्छयोः ॥ ११ ॥
24.3.11 · p. 107
अनुष्टुप्
उत्तरस्थः स्मृतः श्रेष्ठे स्त्री नराकारयोषिति ।शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता ॥ १२ ॥
24.3.12 · p. 107
अनुष्टुप्
ककुभ् स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि ।ककुभो रागभेदेऽपि वीणाङ्गेऽर्जुनपादपे ॥ १३ ॥
24.3.13 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
कटभी वृक्षभेदेऽपि ज्योतिष्मत्यामपि स्त्रियाम् ।करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते ॥ १४ ॥
24.3.14 · p. 107
अनुष्टुप्
कुसुम्भं हेमनि महारजते ना कमण्डलौ ।गर्दभं श्वेतकुमुदे गर्दभो गन्धभिद्यपि ॥ १५ ॥
24.3.15 · p. 107
अनुष्टुप्
रासभे गर्दभी क्षुद्ररोगजन्तुविशेषयोः ।दुर्लभस्त्रिषु दुष्प्रापे कर्चूरे दुन्दुभिः पुमान् ॥ १६ ॥
24.3.16 · p. 107
अनुष्टुप्
वरुणे दैत्यभेर्य्योश्च स्त्र्यक्षबिन्दुत्रिकद्वये ।निकुम्भः कुम्भकर्णस्य तनये दन्तिकौषधौ ॥ १७ ॥
24.3.17 · p. 107
अनुष्टुप्
वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरङ्गमे ।वर्षाभूः स्त्री च शेाथघ्न्यां भूलताप्लवयोः पुमान् ॥ १८ ॥
24.3.18 · p. 107
अनुष्टुप्metre not read in every lineimpossible sign sequence: स्त्री च शेाथघ्न्यnearly अनुष्टुप्
विष्कम्भो योगभेदे स्याद्विस्तारप्रतिबन्धयोः ।रूपकाङ्गप्रभेदे च बन्धभेदे च योगिनाम् ॥ १९ ॥
24.3.19 · p. 107
अनुष्टुप्
विश्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च ।विष्टम्भः प्रतिबन्धे स्यात् प्रभेदे चामयस्य च ॥ २० ॥
24.3.20 · p. 107
अनुष्टुप्
वृषभः श्रेष्ठवृषयोर्वैदर्भी रीतिभिद्यपि ।वैदर्भं वाक्यवक्रत्वे शरभस्तु पशोर्भिदि ॥ २१ ॥
24.3.21 · p. 107
अनुष्टुप्
करभे वानरभिदि सनाभिर्ज्ञातितुल्ययोः ।सुरभिः शल्लकीमातृभिन्मुरागोषु योषिति ॥ २२ ॥
24.3.22 · p. 107
अनुष्टुप्
चम्पके च वसन्ते च तथा जातीफले पुमान् ।स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु ॥ २३ ॥
24.3.23 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्धि (wrong syllable)
विख्याते सचिवे धीरे चैत्रेऽपि च पुमानयम् ।
24.3.15 · p. 107