कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

कान्तवर्गः · कत्रिकम् (2/2)

वृश्चिकश्च द्रुणे राशौ शूककीटौषधीभिदोः ।वृषाङ्कः शङ्करे साधौ भल्लातकमहत्त्वयोः ॥ १६० ॥
1.3.160 · p. 13
अनुष्टुप्
वैजिकं शिग्रुतैले स्याद्धेतौ सद्योऽङ्कुरे तु ना ।शलाका शल्यमदनशारिकाशल्लकीषु च ॥ १६१ ॥
1.3.161 · p. 13
अनुष्टुप्
छत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः ।शम्बूको गजकुम्भान्ते घोङ्गे च शूद्रतापसे ॥ १६२ ॥
1.3.162 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
जलजन्तुविशेषे च शम्बूका न नपुंसके ।शङ्खं वलये कम्बावस्त्री पुंसि शिरोरुजि ॥ १६३ ॥
1.3.163 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श (syllables merged)
शार्ककः स्याद्दुग्धफेनशर्करापिण्डयोः पुमान् ।शिशुकः (१)शिशुमारे स्याद्वालकोलूपिनोरपि ॥ १६४ ॥
1.3.164 · p. 13
अनुष्टुप्
शीतकः शीतकाले च सुस्थिते दीर्घसूत्रिणि ।शूककः प्रावटेऽपि स्याद्रसेऽपि परिकीर्तितः ॥ १६५ ॥
1.3.165 · p. 14
अनुष्टुप्
सस्यको मणिभेदेऽसौ सम्पर्को मेलके रतौ ।सम्पाकस्तर्कके धृष्टे त्रिषु ना चतुरङ्गुले ॥ १६६ ॥
1.3.166 · p. 14
अनुष्टुप्
स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः ।स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः ॥ १६७ ॥
1.3.167 · p. 14
अनुष्टुप्
सरकोऽस्त्री शीधुपाने शीधुपात्रेक्षुशीधुनोः ।अच्छिन्नाध्वगपङ्क्तौ च सायकः शरखड्गयोः ॥ १६८ ॥
1.3.168 · p. 14
अनुष्टुप्
स्थासकः पुंसि चार्चिक्ये जलादेरपि बुद्बुदे ।सूचकः सीवनद्रव्ये बोधके पिशुने शुनि ॥ १६९ ॥
1.3.169 · p. 14
अनुष्टुप्
ओतौ काके सूतकोऽस्त्री पारदे न द्वयोर्जनौ ।सृदाकुर्नाऽनिले वज्रे ज्वलने प्रतिसूर्यके ॥ १७० ॥
1.3.170 · p. 14
अनुष्टुप्
सेवकस्तु प्रसेवे ना वाच्यलिङ्गोऽनुजीविनि ।सेचकः स्यात् पुमान् मेघे वाच्यलिङ्गस्तु सेक्तरि ॥ १७१ ॥
1.3.171 · p. 14
अनुष्टुप्
सैनिकः सैन्यरक्षे च स्यात् सेनासमवेतके ।हारकः कितवे चौरे गद्यविज्ञानभेदयोः ॥ १७२ ॥
1.3.172 · p. 14
अनुष्टुप्
हुडुक्को वाद्यभेदे च मत्तदात्यूहपक्षिणि ।हेरुको बुद्धभेदे स्यान्महाकालगणेऽपि च ॥ १७३ ॥
1.3.173 · p. 14
अनुष्टुप्