All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
जान्तवर्गः · जद्विकम्
जद्विकम्
अजश्छागे हरिब्रह्मविधुस्मरहरे नृपे ॥ २ ॥
8.2.2 · p. 29
अब्जोऽस्त्री शङ्खे ना विचुले धन्वन्तरौ च हिमकिरणे ।क्लीबं पद्मेऽथाजिः स्त्री समभूमौ च संग्रामे ॥ ३ ॥
8.2.3 · p. 30
आर्या
ऊर्ज्जस्तु कार्त्तिकोत्साहवलेषु प्राणनेऽपि च ।कञ्जः केशे विरिञ्चे च कञ्जं पीयूषपद्मयोः ॥ ४ ॥
8.2.4 · p. 30
अनुष्टुप्
कुजा कात्यायनीदेव्यां कुजो रनकभौमयोः ।कुब्जो वृक्षप्रभेदे ना न्युब्जे स्याद्वाच्यलिङ्गकः ॥ ५ ॥
8.2.5 · p. 30
अनुष्टुप्
कुञ्जोऽस्त्रियां निकुञ्जेऽपि हनौ दन्तेऽपि हस्तिनाम् ।खञ्जा छन्दःप्रभेदे स्त्री कुटिलाङ्घ्रौ तु वाच्यवत् ॥ ६ ॥
8.2.6 · p. 30
अनुष्टुप्
खजा मन्थे प्रहस्तेऽथ खर्जूः कीटान्तरे स्मृता ।खर्जूरापादपे कण्ड्वां गजो माने मतङ्गजे ॥ ७ ॥
8.2.7 · p. 30
अनुष्टुप्
वास्तुनः स्थानभेदेऽपि गञ्जा खनौ सुरागृहे ।गञ्जः स्यात् पुंसि रीढायां भाण्डागारे तु न स्त्रियाम् ॥ ८ ॥
8.2.8 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
गुञ्जा तु काकचिञ्चायां पटहे च कलध्वनौ ।द्विजः स्याद्ब्राह्मणक्षत्रवैश्यदन्ताण्डजेषु ना ॥ ९ ॥
8.2.9 · p. 30
अनुष्टुप्
द्विजा भार्ग्यां हरेणौ च ध्वजः स्याच्छौण्डिके पुमान् ।न स्त्रियां तु पताकायां खट्वाङ्गे मेढ्रचिह्नयोः ॥ १० ॥
8.2.10 · p. 30
अनुष्टुप्
निजं स्वीये च नित्ये च न्युब्जो दर्भमयस्रुचि ।कर्मरङ्गफले क्लीबं कुब्जाधोमुखयोस्त्रिषु ॥ ११ ॥
8.2.11 · p. 30
अनुष्टुप्
प्रजा लोके च सन्ताने पिञ्जा तूलहरिद्रयोः ।बले क्लीबे वधे पुंसि व्याकुले त्रिष्वथो भुजा ॥ १२ ॥
8.2.12 · p. 30
अनुष्टुप्
द्वयोर्बाहौ करे मर्जूः स्त्री शुद्धौ धावकेऽपि च ।रजो रेणौ परागे स्यादार्तवे च गुणान्तरे ॥ १३ ॥
8.2.13 · p. 30
अनुष्टुप्
रज्जुर्वेण्यां गुणे योषिद्राजिः स्त्री पङ्क्तिलेखयोः ।रुजा रागे च भङ्गेऽथ लाजः स्यादार्द्रतण्डुले ॥ १४ ॥
8.2.14 · p. 30
अनुष्टुप्
नपुंसकमुशीरे च स्त्रियां पुम्भूम्नि चाक्षते ।व्रजो गाष्ठाध्ववृन्देषु वाजो निःस्वनपक्षयोः ॥ १५ ॥
8.2.15 · p. 30
अनुष्टुप्
वेगे पुमानथ क्लीबे घृतयज्ञान्नवारिषु ।व्याजः शाठ्येऽपदेशेऽथ बीजमङ्कुरकारणे ॥ १६ ॥
8.2.16 · p. 30
अनुष्टुप्
हेतुतत्त्वाधानशुक्रे सर्जूर्वणिजि विद्युति ।स्त्रियां स्वञ्जो विधौ रुद्रे स्वजः प्रस्वेदपुत्रयोः ॥ १७ ॥
8.2.17 · p. 31
अनुष्टुप्
क्लीबं रक्तेऽथ सज्जः स्यात् सन्नद्धे सम्भृते त्रिषु ।
8.2.17 · p. 31