कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

फान्तवर्गः · फद्विकम्

फद्विकम्

गुम्फस्तु गुम्फने बाहोरलङ्कारे च कीर्त्त्यते ।रेफो वर्णे च पुंसि स्यात् कुत्सिते पुनरन्यवत् ॥ २ ॥
22.2.2 · p. 104
अनुष्टुप्
शफं मूले तरूणां स्याद् गवादीनां खुरेऽपि च ।शिफा जटायां सरिति मांसिकायाञ्च मातरि ॥ ३ ॥
22.2.3 · p. 104
अनुष्टुप्