All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
वान्तवर्गः · वैकम्
इति लान्तवर्गः ।
वैकम्
वः सान्त्वने च वाते च वरुणे च निगद्यते ।वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् ॥ १ ॥
29.1.1 · p. 157
अनुष्टुप्
स्वः स्यात् पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीये धनेऽस्त्रियाम् ।
29.1.2 · p. 157