कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

हान्तवर्गः · हद्विकम्

हद्विकम्

अहिर्वृत्रासुरे सर्पे पुंसीहोद्यमवाञ्छयोः ।कुहूः स्त्री कोकिलालापनष्ठेन्दुकलदर्शयोः ॥ २ ॥
33.2.2 · p. 175
अनुष्टुप्
ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ।सूर्य्यादौ पूतनादौ च सैंहिकेयपरागयोः ॥ ३ ॥
33.2.3 · p. 175
अनुष्टुप्
ग्राहो ग्रहेऽवहारे च गुहः षण्मातुरे गुहा ।सिंहपुच्छ्यां च गर्त्ते च पर्वतादेश्च गह्वरे ॥ ४ ॥
33.2.4 · p. 175
अनुष्टुप्
गृहं गृहाश्च पुंभूम्नि कलत्रेऽपि च सद्मनि ।नाहस्तु बन्धने कूटे प्रोहो गजाङ्घ्रिपर्वणोः ॥ ५ ॥
33.2.5 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
वाच्यवन्निपुणे तर्के बर्हं पिच्छे दलेऽस्त्रियाम् ।बहु स्यात् त्र्यादिसङ्ख्यासु विपुलेऽप्यभिधेयवत् ॥ ६ ॥
33.2.6 · p. 175
अनुष्टुप्
मही नद्यन्तरे भूमौ मह उत्सवतेजसोः ।अथ मेाहो नृलिङ्गः स्यादविद्यायाञ्च मुर्च्छने ॥ ७ ॥
33.2.7 · p. 175
अनुष्टुप्metre not read in every lineimpossible sign sequence: अथ मेाहो नृलnearly अनुष्टुप्
लोहोऽस्त्री शस्त्रके लौहे जोङ्गके सर्वतैजसे ।वहः स्याद्वृषभस्कन्धे वाहे गन्धवहेऽपि च ॥ ८ ॥
33.2.8 · p. 175
अनुष्टुप्
वाहो भुजे पुमान् मानभेदाश्ववृषवायुषु ।व्रीहिः सामान्यधान्ये स्यादाशुधान्ये तु पुंस्ययम् ॥ ९ ॥
33.2.9 · p. 175
अनुष्टुप्
व्यूहः स्याद्बलविन्यासे निर्माणे वृन्दतर्कयोः ।सहो बले न स्त्रियां स्यात् स्त्रियान्तु नखभेषजे ॥ १० ॥
33.2.10 · p. 175
अनुष्टुप्
दण्डोत्पलामुद्गपर्णीकुमारीपृथिवीषु च ।सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः ॥ ११ ॥
33.2.11 · p. 176
अनुष्टुप्
सिंही तु कण्टकार्य्यां स्याद् वार्त्ताकौ वासकेऽपि च ।स्नेहः स्यात् पुंसि तैलादिरसद्रव्ये च सौहृदे ॥ १२ ॥
33.2.12 · p. 176
अनुष्टुप्