कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

नान्तवर्गः · नचतुष्कम्

नचतुष्कम्

अवलग्नोऽस्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके ॥ ५९ ॥
20.4.59 · p. 94
अनूचानो विनीते स्यात् साङ्गवेदविचक्षणे ।अपाचीनमवागर्थे विपर्यस्ते च वाच्यवत् ॥ ६० ॥
20.4.60 · p. 94
अनुष्टुप्
अभिपन्नोऽपराधेऽभिग्रस्ते चापद्गते त्रिषु ।अवदानं खण्डने स्यादतिवृत्ते च कर्मणि ॥ ६१ ॥
20.4.61 · p. 94
अनुष्टुप्
अभिमानोऽर्थादिदर्पेऽज्ञाने प्रणयहिंसयोः ।अनीकिनी स्त्रियां सेनामात्रसेनाविशेषायोः(१) ॥ ६२ ॥
20.4.62 · p. 94
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 षा (wrong syllable)
अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासनेऽपि च ।अन्वासनं स्नेहवस्तावुपास्तावनुशोचने ॥ ६३ ॥
20.4.63 · p. 95
अनुष्टुप्
अर्यमा तु पुमान् सूर्ये पितृदेवान्तरेऽपि च ।अथर्वा ब्राह्मणे पुंसि वेदे तु स्यान्नपुंसकम् ॥ ६४ ॥
20.4.64 · p. 95
अनुष्टुप्
भवेदभिजनः ख्यातौ जन्मभूम्यां कुलध्वजे ।कुलेऽपि च पुमानायोधनं युद्धे वधेऽपि च ॥ ६५ ॥
20.4.65 · p. 95
अनुष्टुप्
स्यादाकलनमाकाङ्क्षा परिसङ्ख्यानबन्धने ।आतञ्चनं प्रतीवापजवनाप्यायनेषु च ॥ ६६ ॥
20.4.66 · p. 95
अनुष्टुप्
आराधनं च पचने प्राप्तौ सन्तेाषणेऽपि च ।आच्छादनं सम्पिधाने वस्त्रेऽपवृतिमात्रके ॥ ६७ ॥
20.4.67 · p. 95
metre not recognisedimpossible sign sequence: ाप्तौ सन्तेाषणेऽपिnearly अनुष्टुप्
आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च ।आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः ॥ ६८ ॥
20.4.68 · p. 95
अनुष्टुप्
आत्मयोनिः पुमान् कामदेवे च परमेष्ठिनि ।उपधानं विषे गण्डौ प्रणयेऽपि नपुंसकम् ॥ ६९ ॥
20.4.69 · p. 95
अनुष्टुप्
उत्सादनं समुल्लेखोद्वाहनोद्वर्तनेषु च ।स्यादुत्पतनमुत्पत्तौ तथोर्ध्वगमनेऽपि च ॥ ७० ॥
20.4.70 · p. 95
अनुष्टुप्
उद्वर्त्तनमुत्पतने विलेपने घर्षणे क्लीबम् ।उदयनमुदये क्लीबं वत्सेशागस्त्ययोः पुंसि ॥ ७१ ॥
20.4.71 · p. 95
metre not recognised
उद्वाहनं (२)द्विसीत्ये स्याद्रज्ज्वामुद्वाहनी मता ।उपासनं शराभ्यासेऽप्युपास्तावासनेऽपि च ॥ ७२ ॥
20.4.72 · p. 95
अनुष्टुप्
कपीतनो गर्दभाण्डशिरीषाम्रातकेषु च ।अश्वत्थे च कलापी तु प्लक्षबर्हिणयोः पुमान् ॥ ७३ ॥
20.4.73 · p. 95
अनुष्टुप्
कलध्वनिः पुमान् पारावते पिकमयूरयोः ।कञ्चुक्यन्तःपुराध्यक्षे षिड्गेऽहौ जोङ्गकद्रुमे ॥ ७४ ॥
20.4.74 · p. 95
अनुष्टुप्
कात्यायनो वररुचौ विशेषे च मुनेः पुमान् ।काषायवस्त्रे विधवार्द्धजरत्युमयोः स्त्रियाम् ॥ ७५ ॥
20.4.75 · p. 95
अनुष्टुप्
कुम्भयोनिरगस्त्ये स्याद्वसिष्ठद्रोणयोः पुमान् ।कुचन्दनं च पत्राङ्गे द्रुभेदे रक्तचन्दने ॥ ७६ ॥
20.4.76 · p. 96
अनुष्टुप्
कुण्डली वरुणे केकिभोगिनोश्च सकुण्डले ।केसरी तुरगे सिंहे पुन्नागे नागकेसरे ॥ ७७ ॥
20.4.77 · p. 96
अनुष्टुप्
क्रौञ्चादनं तु पिप्पल्यां चिञ्चोटकमृणालयोः ।खड्गधेनुः स्त्रियां खड्गपुत्रिकागण्डकस्त्रियोः ॥ ७८ ॥
20.4.78 · p. 96
अनुष्टुप्
गवादनीन्द्रवारुण्यां गवां घासादनाश्रये ।गदयित्नुः पुमान्कामे जल्पाके कामुकेऽपि च ॥ ७९ ॥
20.4.79 · p. 96
अनुष्टुप्
घनाघनो वर्षुकाब्दे मत्तधातुककुञ्जरे ।चक्रे च घोषयित्नुस्तु विप्राकोकिलयोः पुमान् ॥ ८० ॥
20.4.80 · p. 96
अनुष्टुप्
चित्रभानुः पुमान् वैश्वानरे चाहस्करेऽपि च ।चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ॥ ८१ ॥
20.4.81 · p. 96
अनुष्टुप्
जलाटनो लोहपृष्ठे जलौकायां जलाटनी ।तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति ॥ ८२ ॥
20.4.82 · p. 96
अनुष्टुप्
मांसिकाकटुरोहिण्योस्तरस्वी शूरवेगिनोः ।तपोधनस्तापसे स्यान्मुण्डीर्यां तु तपोधना ॥ ८३ ॥
20.4.83 · p. 96
अनुष्टुप्
द्विजन्मा दशने विप्रे दुर्नाम क्लीबमर्शसि ।स्याद्दीर्घकोषिकायां स्त्री देवसेना तु वज्रिणः ॥ ८४ ॥
20.4.84 · p. 96
अनुष्टुप्
सुतायामपि सेनायां देवतानां च योषिति ।नागाञ्जनेभसुन्दर्यां नागयष्टौ च योषिति ॥ ८५ ॥
20.4.85 · p. 96
अनुष्टुप्
भवेन्निधुवनं कम्पे सुरते च नपुंसकम् ।निर्वासनं हिंसने स्यान्नगरादेर्बहिष्कृतौ ॥ ८६ ॥
20.4.86 · p. 96
अनुष्टुप्
निर्भर्त्सनं खलीकारेऽलक्तकेऽपि नपुंसकम् ।निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ॥ ८७ ॥
20.4.87 · p. 96
अनुष्टुप्
निशामनं दर्शने स्यादालोचने च न द्वयोः ।निशमनमुक्तं दृष्टौ श्रुतौ निरसनं वधे प्रतिक्षेपे ॥ ८८ ॥
20.4.88 · p. 96
metre not recognised
निष्ठीवने प्रजननं योनौ जन्मन्यपि क्लीबम् ।प्रसहनमपि भङ्गे स्यात् क्षेपे पञ्चाननः शिवे सिंहे ॥ ८९ ॥
20.4.89 · p. 96
उद्गीतिः
प्रहसनमपि प्रहासे रूपकभेदे च परिहासे ।प्रणिधानं प्रयत्ने स्यात् समाधौ च प्रवेशने ॥ ९० ॥
20.4.90 · p. 97
अनुष्टुप्metre not read in every line
प्रयोजनं कार्यहेत्वोः पलाशी वृक्षरक्षसोः ।अथ प्रवचनं वेदे प्रकृष्टवचनेऽपि च ॥ ९१ ॥
20.4.91 · p. 97
अनुष्टुप्
प्रतिपन्नोऽन्यलिङ्गः स्याद्विज्ञातेऽङ्गीकृतेऽपि च ।प्रस्फोटनं तु शूर्पे स्यात्ताडने च विकाशने ॥ ९२ ॥
20.4.92 · p. 97
अनुष्टुप्
प्रतिमानं प्रतिच्छायागज(१)कुम्भान्तरालयोः ।प्रतियत्नस्तु संस्कारलिप्सोपग्रहणेषु च ॥ ९३ ॥
20.4.93 · p. 97
अनुष्टुप्
प्रत्यर्थी वाच्यलिङ्गः स्याच्छत्रौ च प्रतिवादिनि ।परिज्वा तु पुमानिन्दौ याज्ञिके परिचारके ॥ ९४ ॥
20.4.94 · p. 97
अनुष्टुप्
प्रसाधनी तु कङ्कत्यां सिद्धौ वेशे प्रसाधनम् ।पयस्विनी नदीधेन्वोर्विभावर्यां च योषिति ॥ ९५ ॥
20.4.95 · p. 97
अनुष्टुप्
अथ पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च ।पृथग्जनस्तु पुंलिङ्गः कथितो नीचमूर्खयोः ॥ ९६ ॥
20.4.96 · p. 97
अनुष्टुप्
फलकी मत्स्यभेदे ना वाच्यवत्फलकान्विते ।वारकी शत्रुचित्राश्वपर्णीजीवपयोधिषु ॥ ९७ ॥
20.4.97 · p. 97
अनुष्टुप्
भूतात्मा पुंसि निर्दिष्टो देवे च परमेष्ठिनि ।महाधनं महामूल्ये (२)सुवर्णे सिल्हकेऽपि च ॥ ९८ ॥
20.4.98 · p. 97
अनुष्टुप्
महासेनः कार्त्तिकेये महासैन्यपतावपि ।मदयित्नुर्मद(३)युते पुमान् मद्ये नपुंसकः ॥ ९९ ॥
20.4.99 · p. 97
अनुष्टुप्
महामुनिरगस्त्ये ना कुस्तुम्बुरुणि न द्वयोः ।मातुलानी कलाये स्याद्भङ्गायां मातुलस्त्रियाम् ॥ १०० ॥
20.4.100 · p. 97
अनुष्टुप्
मालुधानो मातुलाहौ मालुधानी लताऽन्तरे ।मेधावी ना शुके ब्राह्म्यां स्त्रियां मेधाऽन्विते त्रिषु ॥ १०१ ॥
20.4.101 · p. 97
अनुष्टुप्
रसायनं विषेऽपि स्याज्जराव्याधिजिदौषधौ ।पुंलिङ्गः पक्षिराजे च विडङ्गाख्यौषधेऽपि च ॥ १०२ ॥
20.4.102 · p. 97
अनुष्टुप्
राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च ।ललाम स्यात् प्रभावे च लाञ्छनध्वजवाजिषु ॥ १०३ ॥
20.4.103 · p. 98
अनुष्टुप्
शृङ्गे प्रधाने भूषायामपि बालधिपुण्ड्रयोः ।लाङ्गली नालिकेरद्रौ रेवतीरमणे पुमान् ॥ १०४ ॥
20.4.104 · p. 98
अनुष्टुप्
वनश्वा गन्धमार्जारे वञ्चकव्याघ्रयोः पुमान् ।वर्धमानः प्रश्नभेदे शरावैरण्डविष्णुषु ॥ १०५ ॥
20.4.105 · p. 98
अनुष्टुप्
विस्मापनः स्यात्कुहके गन्धर्वनगरे स्मरे ।विसर्जनं परित्यागे दाने सम्प्रेषणेऽपि च ॥ १०६ ॥
20.4.106 · p. 98
अनुष्टुप्
विरोचनः प्रह्लादस्य तनयेऽर्केऽग्निचन्द्रयोः ।विहेठनं तु हिंसायां मर्दने च विडम्बने ॥ १०७ ॥
20.4.107 · p. 98
अनुष्टुप्
भवेद्विहननं विघ्नहिंसयोस्तूलपिञ्जने ।विषयी विषयासक्ते वाच्यवत् क्लीबमिन्द्रिये ॥ १०८ ॥
20.4.108 · p. 98
अनुष्टुप्
पुंसि स्यान्नृपतौ कामदेवे वैषयिकेऽपि च ।विष्वक्सेना फलिन्यां स्याद्विष्वक्सेनो जनार्दने ॥ १०९ ॥
20.4.109 · p. 98
अनुष्टुप्
विलेपनी सुवेषस्त्रीयवाग्वोरपि योषिति ।विलासी भोगिनि व्याले विस्वप्सा नाऽग्निचन्द्रयोः ॥ ११० ॥
20.4.110 · p. 98
अनुष्टुप्
वृक्षादनश्चलदले मधुच्छत्रकुठारयोः ।वृक्षादनी तु वन्दायां विदारीकन्दकेऽपि च ॥ १११ ॥
20.4.111 · p. 98
अनुष्टुप्
वैरोचनिस्तु सुगते बलिदैत्यार्कपुत्रयोः ।शिखरी स्यादपामार्गे शैलपादपयोः पुमान् ॥ ११२ ॥
20.4.112 · p. 98
अनुष्टुप्
शिखण्डिनी यूथिकायां गुञ्जायामपि योषिति ।शिखण्डी ना कलापे स्याद् गाङ्गेयारिमयूरयोः ॥ ११३ ॥
20.4.113 · p. 98
अनुष्टुप्
शृङ्गारी पूगगजयोः सशृङ्गारसुवेशयोः ।अथ श्लेष्मघना मल्ल्यां केतक्यामपि योषिति ॥ ११४ ॥
20.4.114 · p. 98
अनुष्टुप्
सम्मूर्च्छनमभिव्याप्तावुच्छ्रायमोहयोरपि ।समुत्थानं समुद्योगे व्याधीनां निर्णयेऽपि च ॥ ११५ ॥
20.4.115 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि ।स्यात्संवदनमालोचे वशीकारे नपुंसकम् ॥ ११६ ॥
20.4.116 · p. 98
अनुष्टुप्
समादानं समीचीनग्रहणे सौगताह्निके ।संवादनं वाहने स्याद्धारादेरङ्गमर्दने ॥ ११७ ॥
20.4.117 · p. 99
अनुष्टुप्
समापनं परिच्छेदे समाप्तिवधयोरपि ।सनातनः शाश्वतेऽजे पित्रतिथ्यन्तरे हरे ॥ ११८ ॥
20.4.118 · p. 99
अनुष्टुप्
स्तनयित्नुः पुमान् वारिधरेऽपि स्तनितेऽपि च ।सरोजिनी तु कमलाकरे पद्मे च योषिति ॥ ११९ ॥
20.4.119 · p. 99
अनुष्टुप्
समापन्नं समाप्ते स्यात् प्राप्ते क्लिष्टे वधेऽपि च ।सम्बाधनं द्वाःसदने शूलाग्रद्वारपालयोः ॥ १२० ॥
20.4.120 · p. 99
अनुष्टुप्
संयमनी यमपुर्य्य्यां संयमनं बन्धने व्रतेऽपि स्यात् ।सारसनमप्युरस्त्रे तनुत्रिणां मेखलायाञ्च ॥ १२१ ॥
20.4.121 · p. 99
आर्या
सामधेनी तु धाय्यायां समिध्यपि च योषिति ।समयोनिस्तु सामोत्थे ब्रह्मकुञ्जरयोरपि ॥ १२२ ॥
20.4.122 · p. 99
अनुष्टुप्
सुदर्शनो हरेश्चक्रे मेरुजम्बुद्रुमे पुमान् ।न द्वयोः शक्रनगरे आज्ञौषधिभिदोः स्त्रियाम् ॥ १२३ ॥
20.4.123 · p. 99
अनुष्टुप्
सुयामुनो वत्सराजे प्रासादेऽभ्रान्तरेऽच्युते ।सुकर्मा तु पुमान् योगभेदे स्याद्देवशिल्पिनि ॥ १२४ ॥
20.4.124 · p. 99
अनुष्टुप्
सुधन्वा प्रौढधानुष्के त्रिषु ना विश्वकर्मणि ।सुपर्वा ना शरे वंशे पर्वधूमसुरेष्वपि ॥ १२५ ॥
20.4.125 · p. 99
अनुष्टुप्
सुदामा तु पुमान् वारिधरपर्वतभेदयोः ।सौदामन्यप्सरोभेदे तडित्तद्भेदयोः स्त्रियाम् ॥ १२६ ॥
20.4.126 · p. 99
अनुष्टुप्
हर्षयित्नुः पुमान् पुत्रे काञ्चने च नपुंसकम् ।
20.4.69 · p. 99