कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

नान्तवर्गः · नद्विकम्

नद्विकम्

अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ॥ १ ॥
20.2.1 · p. 82
अन्नं भक्ते च भुक्ते स्यादिनः पत्यौ नृपार्कयोः ।उन्नं क्लिन्ने च सुरते कृत्स्नं सर्वाम्बुकुक्षिषु ॥ २ ॥
20.2.2 · p. 82
अनुष्टुप्
घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः ।ना मुस्ताब्धौघदार्ढ्येषु विस्तारे लोहमुद्गरे ॥ ३ ॥
20.2.3 · p. 82
अनुष्टुप्
त्रिषु सान्द्रे दृढे चाथ चिह्नं लक्ष्मपताकयोः ।चीनो देशांशुकव्रीहिभेदे तन्तौ मृगान्तरे ॥ ४ ॥
20.2.4 · p. 83
अनुष्टुप्
छन्नं तु रहसि क्लीबं छादिते वाच्यलिङ्गवत् ।छिन्नं कृत्ते त्रिलिङ्गं स्याद् गुडूच्यामपि योषिति ॥ ५ ॥
20.2.5 · p. 83
अनुष्टुप्
जनो लोके महर्लोकात्परलोके च पामरे ।जनी सीमन्तिनीवध्वोरुत्पत्तावौषधीभिदि ॥ ६ ॥
20.2.6 · p. 83
अनुष्टुप्
जह्नुः स्यात् पुंसि राजर्षिभेदे च मधुसूदने ।ज्यानिर्जीर्णे च हानौ च तटिन्यामपि योषिति ॥ ७ ॥
20.2.7 · p. 83
अनुष्टुप्
जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु ।ज्योत्स्ना चन्द्रातपेऽपि स्याज्ज्योत्स्नायुक्तनिशि स्मृता ॥ ८ ॥
20.2.8 · p. 83
अनुष्टुप्
ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्नायुक्तनिशि स्त्रियाम् ।तनुः काये त्वचि स्त्री स्यात् त्रिष्वल्पे विरले कृशे ॥ ९ ॥
20.2.9 · p. 83
अनुष्टुप्
दानं गजमदे त्यागे पालनच्छेदशुद्धिषु ।दानुर्दातरि विक्रान्ते दीना स्त्री मूषिकस्त्रियाम् ॥ १० ॥
20.2.10 · p. 83
अनुष्टुप्
वाच्यवद्दुर्गते भीते द्युम्नं वित्ते बलेऽपि च ।धनुः पुमान् पियालद्रौ राशिभेदे शरासने ॥ ११ ॥
20.2.11 · p. 83
अनुष्टुप्
धनं तु गोधने वित्ते धाना भृष्टयवेऽपि च ।धन्याकेऽभिनवोद्भिन्ने धुनी नद्यां नदे पुमान् ॥ १२ ॥
20.2.12 · p. 83
अनुष्टुप्
नग्नो बन्दिक्षपणयोः पुंसि त्रिषु विवाससि ।न्यूनं गर्ह्योनयोः पानं पीतिभाजनरक्षणे ॥ १३ ॥
20.2.13 · p. 83
अनुष्टुप्
भानुर्ना किरणे सूर्य भिन्नः स्यात्त्रिषु दारिते ।सङ्गतेऽन्यत्र फुल्ले च मानश्चित्तोन्नतौ ग्रहे ॥ १४ ॥
20.2.14 · p. 83
अनुष्टुप्
क्लीबं प्रमाणे प्रस्थादौ मीनो राश्यन्तरे झषे ।मुनिः पुंसि वसिष्ठादौ वङ्कसेनतरौ जिने ॥ १५ ॥
20.2.15 · p. 83
अनुष्टुप्
मृत्स्ना मृत्सातुवर्योः स्त्री यानं स्याद्वाहने गतौ ।योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे ॥ १६ ॥
20.2.16 · p. 83
अनुष्टुप्
रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम् ।रास्ना च स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम् ॥ १७ ॥
20.2.17 · p. 83
अनुष्टुप्
लग्नं राश्युदये क्लीबं सक्तलज्जितयोस्त्रिषु ।वस्नस्त्ववक्रये पुंसि वेतने स्यान्नपुंसकम् ॥ १८ ॥
20.2.18 · p. 84
अनुष्टुप्
वनं नपुंसकं नीरे निवासालयकानने ।वह्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ॥ १९ ॥
20.2.19 · p. 84
अनुष्टुप्
वानं शुष्कफले शुष्कस्यूतिकर्मकटे गतौ ।विन्नं विचारिते लब्धे बुध्नो ना मूलरुद्रयोः ॥ २० ॥
20.2.20 · p. 84
अनुष्टुप्
श्वा पुमान् कुक्कुरे ख्यातः स्थानभेदे च वास्तुनः ।शीनो मूर्खे चाजगरे श्येनः पक्षिणि पाण्डुरे ॥ २१ ॥
20.2.21 · p. 84
अनुष्टुप्
स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान् ।सानुरस्त्री वने प्रस्थे वात्यामार्गाग्रकोविदे ॥ २२ ॥
20.2.22 · p. 84
अनुष्टुप्
स्थानं सादृश्येऽवकाशे स्थितौ वृद्धिक्षयेतरे ।स्त्यानं स्निग्धे प्रतिध्वाने धनत्वालस्ययोरपि ॥ २३ ॥
20.2.23 · p. 84
अनुष्टुप्
स्नानं स्नानीयेऽभिषवे सूनं प्रसवपुष्पयोः ।सूना पुत्र्यां वधस्थाने गलशुण्डिकयोः स्त्रियाम् ॥ २४ ॥
20.2.24 · p. 84
अनुष्टुप्
सूनुः पुत्रेऽनुजेऽर्के ना सूनुः किरणसूर्ययोः ।हनुर्हट्टविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् ॥ २५ ॥
20.2.25 · p. 84
अनुष्टुप्
द्वयोः कपोलावयवे हीनं गर्ह्योनयोस्त्रिषु ।
20.2.26 · p. 84