कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

चान्तवर्गः · चत्रिकम्

चत्रिकम्

उदग्दिग्देशकालेषु वाच्यवत् त्रितयेऽव्ययम् ॥ १२ ॥
6.3.12 · p. 28
कणीची पुष्पितलतागुञ्जयोः शकटे स्त्रियाम् ।कवचो गर्दभाण्डे च सन्नाहे पटहेऽपि च ॥ १३ ॥
6.3.13 · p. 28
अनुष्टुप्
क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्यतरौ पुमान् ।नमुचिस्तु पुमान् दैत्यभेदे कुसुमकार्मुके ॥ १४ ॥
6.3.14 · p. 28
अनुष्टुप्
नाराच्येषणिकायां ना लोहबाणाम्बुहस्तिनोः ।प्रपञ्चः सञ्चयेऽपि स्याद्विस्तारे च प्रतारणे ॥ १५ ॥
6.3.15 · p. 28
अनुष्टुप्
प्रत्यग्दिग्देशकालेषु वाच्यवत्त्रितयेऽव्ययम् ।मरीचिर्मुनिभेदे ना गभस्तावनपुंसकम् ॥ १६ ॥
6.3.16 · p. 28
अनुष्टुप्
मारीचो रक्षसो भेदे कक्कोले याजकद्विजे ।मारीची देवताभेदे विपञ्ची केलिवीणयोः ॥ १७ ॥
6.3.17 · p. 28
अनुष्टुप्
विकचः क्षपणे केतौ नाऽकेशे स्फुटितेऽन्यवत् ।विरञ्चिर्ना विरिञ्चश्च वैकुण्ठे परमेष्ठिनि ॥ १८ ॥
6.3.18 · p. 28
अनुष्टुप्
सङ्कोचो मीनभेदे स्याद् बन्धे क्लीबं तु कुङ्कुमे ।सम्यक् स्याद्वाच्यलिङ्गं तु मनोज्ञे सङ्गतेऽपि च ॥ १९ ॥
6.3.19 · p. 28
अनुष्टुप्