All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
पान्तवर्गः · पचतुष्कम्
पचतुष्कम्
अभिरूपो बुधे रम्येऽपलापः प्रेम्ण्यपह्नवे ।अवलेपस्तु गर्वे स्याल्लेपने भूषणेऽपि च ॥ २३ ॥
21.4.23 · p. 103
अनुष्टुप्
उपतापस्त्वरायां स्यादुत्तापगदयोरपि ।जलकूपी कूपगर्त्ते पुष्करिण्याञ्च योषिति ॥ २४ ॥
21.4.24 · p. 103
अनुष्टुप्
नागपुष्पस्तु पुन्नागनागकेशरचम्पके ।परिवापस्तु पर्य्युप्तौ जलस्थाने परिच्छदे ॥ २५ ॥
21.4.25 · p. 103
अनुष्टुप्
परितापस्तु पुंसि स्याद् दुःखे च नरकान्तरे ।परिकम्पो भये कम्पे प्राप्तरूपो ज्ञरम्ययोः ॥ २६ ॥
21.4.26 · p. 103
अनुष्टुप्
पिण्डपुष्पमशोके च जवायाञ्च कुशेशये ।बहुरूपः शिवे विष्णौ धूनके सरटे स्मरे ॥ २७ ॥
21.4.27 · p. 103
अनुष्टुप्
मेघपुष्पं पिण्डाभ्राम्बुनादेये ना हरेर्हये ।विप्रलापो विरोधोक्तावपार्थवचनेऽपि च ॥ २८ ॥
21.4.28 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
वृषाकपिः पुमान् कृष्णे शङ्करे जातवेदसि ।हेमपुष्पमशोकेऽपि जपापुष्पे नपुंसकम् ॥ ३० ॥
21.4.30 · p. 104
अनुष्टुप्