कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

सान्तवर्गः · सद्विकम्

सद्विकम्

कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तु ना ।कासूर्विकलवाचि स्यात् तथा शक्त्यायुधे स्त्रियाम् ॥ २ ॥
32.2.2 · p. 170
अनुष्टुप्
गुत्सः स्यात् स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः ।गोसो बोलोषसोश्चास इक्षुपक्षिभिदोः पुमान् ॥ ३ ॥
32.2.3 · p. 170
अनुष्टुप्
त्रासो भये मणेर्दोषे दासी बाणाभुजिष्ययोः ।दासो भृत्ये च शूद्रे च ज्ञातात्मनि च धीवरे ॥ ४ ॥
32.2.4 · p. 170
अनुष्टुप्
नासा तु नासिकायाञ्च द्वारोर्द्ध्वदारुणि स्त्रियाम् ।प्रसूरश्वाजनन्योश्च कन्दलीवीरुधोः स्त्रियाम् ॥ ५ ॥
32.2.5 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्द्ध्व (wrong syllable)
वसुर्ना देवभेदाग्निभायोक्त्रबकराजसु ।क्लीबे वृद्ध्यौषधे श्यामरैरत्ने मधुरे त्रिषु ॥ ६ ॥
32.2.6 · p. 170
अनुष्टुप्
भासः पुंसि प्रभायां स्याद् विशेषे विहगस्य च ।भास् प्रभावे मयूखे स्त्री भाश्चन्द्रमासयोः पुमान् ॥ ७ ॥
32.2.7 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्द्र (wrong syllable)
मांसं स्यादामिषे क्लीबं कक्कोलीजटयोः स्त्रियाम् ।मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥ ८ ॥
32.2.8 · p. 170
अनुष्टुप्
मृत्सा काक्ष्यां श्रेष्ठमृदि रसो गन्धरसे जले ।शृङ्गारादौ विषे वीर्य्ये तिक्तादौ द्रवरागयोः ॥ ९ ॥
32.2.9 · p. 170
अनुष्टुप्
देहधातुप्रभेदे च पारदस्वादयोः पुमान् ।स्त्रियान्तु रसनापाठाशल्लकीकङ्गुभूमिषु ॥ १० ॥
32.2.10 · p. 170
अनुष्टुप्
रासः कोलाहले ध्वाने भाषाशृङ्खलकेऽपि च ।क्रीडाभेदे च गोपानां वत्सः पुत्रादिवर्षयोः ॥ ११ ॥
32.2.11 · p. 170
अनुष्टुप्
तर्णके नोरसि क्लीबं व्यासो ना विस्तृतौ मुनौ ।शंसा वचसि वाञ्छायां हंसः स्यान् मानसौकसि ॥ १२ ॥
32.2.12 · p. 170
अनुष्टुप्
निर्लोभनृपविष्ण्वर्के परमात्मनि मत्सरे ।योगिभेदे मन्त्रभेदे शरीरमरुदन्तरे ॥ १३ ॥
32.2.13 · p. 170
अनुष्टुप्
तुरङ्गमप्रभेदेऽपि हिंसा चौर्य्यादिघातयोः ।
32.2.13 · p. 171