All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
जान्तवर्गः · जचतुष्कम्
जचतुष्कम्
अहिभुग्बर्हिणे तार्क्ष्ये पुंसि काश्मीरजं पुनः ॥ ३० ॥
8.4.30 · p. 32
कुष्ठकुङ्कमयोः क्लीबेऽतिविषायां तु योषिति ।क्षीराब्धिजं तु सामुद्रलवणे मौक्तिकेऽपि च ॥ ३१ ॥
8.4.31 · p. 32
अनुष्टुप्
पुमांस्तुषारकिरणे कमलायां तु योषिति ।ग्रहराजो रवौ चन्द्रे जघन्यजः कनीयसि ॥ ३२ ॥
8.4.32 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्य (wrong syllable)
वृषले द्विजराजस्तु चन्द्रेऽनन्ते गरुत्मति ।धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान् ॥ ३३ ॥
8.4.33 · p. 32
अनुष्टुप्
भरद्वाजो गुरोः पुत्रे व्याघ्राटाख्यविहङ्गमे ।भारद्वाजी वनकार्पास्यां ना द्रोणऋषिभेदयोः ॥ ३४ ॥
8.4.34 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अथ भृङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे ।यक्षराट् पुंसि धनदे मल्लानां रङ्गचत्वरे ॥ ३५ ॥
8.4.35 · p. 32
अनुष्टुप्metre not read in every line
राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे ।
8.4.7 · p. 32