All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
रान्तवर्गः · रत्रिकम् (1/2)
रत्रिकम्
अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिशद्रुमे ।स्त्री गुडूच्यमरावत्योः स्थूणादूर्वाजरायुषु ॥ १०३ ॥
27.3.103 · p. 130
अनुष्टुप्
अपरं गजपश्चार्द्धे स्याज्जरायौ तु योषिति ।इतरस्मिन्नपि तथाऽर्वाचीनेऽप्यन्यलिङ्गकम् ॥ १०४ ॥
27.3.104 · p. 130
अनुष्टुप्
अधरस्तु पुमानोष्ठे हीनेऽनूर्द्ध्वे वाच्यचत् ।अध्वरः सावधाने स्याद् वसुभेदे क्रतौ पुमान् ॥ १०५ ॥
27.3.105 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये ।छिद्रात्मीयविनावहिरवसरमध्यात्मसदृशेषु ॥ १०६ ॥
27.3.106 · p. 130
आर्या
अवरं गजान्त्यजङ्घादिदेशे चरमे त्रिषु ।अम्बरं न द्वयोर्व्योम्नि सुगन्ध्यन्तरवस्त्रयोः ॥ १०७ ॥
27.3.107 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग (wrong syllable)
अङ्गारमुल्मुके न स्त्री पुंलिङ्गस्तु महीसुते ।अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि ॥ १०८ ॥
27.3.108 · p. 130
अनुष्टुप्
अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ ।स्त्री चण्ड्यामक्षरं ब्रह्मवर्णयोः पुंसि शङ्करे ॥ १०९ ॥
27.3.109 · p. 130
अनुष्टुप्
अशिरो वीतिहोत्रे स्याद्राक्षसे भास्करे पुमान् ।अण्डीरः पुरुषे शक्तेऽररं छदकपाटयोः ॥ ११० ॥
27.3.110 · p. 130
अनुष्टुप्
अवीराऽपतिपुत्रायां स्त्री सत्त्वरहिते त्रिषु ।अगुरु क्लीबं जोङ्गकशिंशपयोर्वाच्यवल्लघुनि ॥ १११ ॥
27.3.111 · p. 130
अनुष्टुप्metre not read in every line
असुरा रजनीराश्योरसुरो देवारिभास्करयोः ।आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ॥ ११२ ॥
27.3.112 · p. 130
अनुष्टुप्metre not read in every line
आधारश्चाधिकरणेऽप्यालबालेऽम्बुधारणे ।आसारः स्यात् प्रसरणे वेगवृष्टौ सुहृद्वले ॥ ११३ ॥
27.3.113 · p. 131
अनुष्टुप्
आहारः स्यादाहरणे भोजने च पुमानयम् ।आशरस्तु पुमान् वैश्वानरे च रजनीचरे ॥ ११४ ॥
27.3.114 · p. 131
अनुष्टुप्
आकार इङ्गिताकृत्योरितरोऽन्यत्र पामरे ।इत्वर्य्यसत्यां पथिके क्रूरकर्मणि च त्रिषु ॥ ११५ ॥
27.3.115 · p. 131
अनुष्टुप्
ईश्वरो मन्मथे शम्भौ नाऽऽढ्ये स्वामिनि वाच्यवत् ।ईश्वरी चेश्वरोमायामुदरं जठरे युधि ॥ ११६ ॥
27.3.116 · p. 131
अनुष्टुप्
उदारो दातृमहतोर्दक्षिणे चाभिधेयवत् ।उर्वरा सर्वशस्याढ्यभूमौ स्याद्भूमिमात्रके ॥ ११७ ॥
27.3.117 · p. 131
अनुष्टुप्
उत्तरा दिग्विशेषे च स्नुषायामर्जुनस्य च ।विराटस्य सुते ना स्यादूर्द्ध्वोदीच्योत्तमे त्रिषु ॥ ११८ ॥
27.3.118 · p. 131
अनुष्टुप्
नपुंसकं प्रतिवाक्येऽथोद्धारश्चोद्धृतावृणे ।ऋक्षरं वारिधारायामृक्षरश्चर्त्विजि स्मृतः ॥ ११९ ॥
27.3.119 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
एकाग्रमन्यलिङ्गं स्यादेकतानेऽप्यनाकुले ।औशीरं शयनासनचामरदण्डेऽप्युशीरजे प्रोक्तम् ॥ १२० ॥
27.3.120 · p. 131
अनुष्टुप्metre not read in every line
क्रकरः करीरवृक्षे दीने क्रकचे च पक्षिभेदे च ।कदरः श्वेतखदिरे क्रकचव्याधिभेदयोः ॥ १२१ ॥
27.3.121 · p. 131
अनुष्टुप्metre not read in every line
कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः ।कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ १२२ ॥
27.3.122 · p. 131
अनुष्टुप्
कर्परः स्यात् कपाले च शस्त्रभेदकटाहयोः ।कन्धरो वारिवाहे स्याद् ग्रीवायां कन्धरा मता ॥ १२३ ॥
27.3.123 · p. 131
अनुष्टुप्
कर्वरः कथितो व्याघ्रे शिवायामपि कर्वरी ।कञ्जरो जठरे सूर्य्ये विरिञ्चौ वारणे मुनौ ॥ १२४ ॥
27.3.124 · p. 131
अनुष्टुप्
करीरो वंशाङ्कुरेऽस्त्री वृक्षभिद्घटयोः पुमान् ।करीरी चीरिकायाञ्च दन्तमूले च दन्तिनाम् ॥ १२५ ॥
27.3.125 · p. 131
अनुष्टुप्
कटित्रं रशनायाञ्च चर्माङ्गे कीटवाससि ।कच्छुरा शूकशिम्ब्याञ्च शटीदुष्पर्शयोरपि ॥ १२६ ॥
27.3.126 · p. 131
अनुष्टुप्
कच्छुरः पुंश्चले कच्छुयुक्ते च कवरी पुनः ।पृथ्वीतुङ्गयोः केशवेशे कवरं लवणाम्लयोः ॥ १२७ ॥
27.3.127 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कवर्य्युमायां ना रक्षःपापयोर्भेषजान्तरे ।कर्मारो जातिभेदे च त्वचिसारे च पुंस्ययम् ॥ १२८ ॥
27.3.128 · p. 132
अनुष्टुप्
कणेरुः कर्णिकारे च करिणीवेश्ययोः स्त्रियाम् ।कच्चरं कुत्सिते वाच्यलिङ्गं तक्रे नपुंसकम् ॥ १२९ ॥
27.3.129 · p. 132
अनुष्टुप्
कर्करी भाण्डभेदे ना दर्पणे कठिने त्रिषु ।कडारः पिङ्गले दासे कलत्रं श्रोणिभार्य्ययोः ॥ १३० ॥
27.3.130 · p. 132
अनुष्टुप्
दुर्गस्थाने नृपादीनां कटप्रूः पुंसि राक्षसे ।विद्याधरे महादेवे तथा स्यादक्षदेवते ॥ १३१ ॥
27.3.131 · p. 132
अनुष्टुप्
कन्दरस्त्वङ्कुशे पुंसि गुहायाञ्च नपुंसकम् ।कर्बुरः स्यात् पुमान् शट्यां सुवर्ण तु नपुंसकम् ॥ १३२ ॥
27.3.132 · p. 132
अनुष्टुप्
काश्मीरं कुङ्कुमेऽपि स्यात् टङ्कपुष्करमूलयोः ।कावेरी स्यात् सारिद्भेदे पुण्यनारीहरिद्रयोः ॥ १३३ ॥
27.3.133 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
कान्तारोऽस्त्री महारण्ये विले दुर्गमवर्त्मनि ।पुंसि स्यादिक्षुभेदेऽथ किशोरोऽश्वस्य शावके ॥ १३४ ॥
27.3.134 · p. 132
अनुष्टुप्
तैलपर्ण्योषधौ च स्यात् तरुणावस्थसूर्य्ययोः ।किर्मीरो नागरङ्गे च कर्बुरे राक्षसान्तरे ॥ १३५ ॥
27.3.135 · p. 132
अनुष्टुप्
किंशारुर्ना शस्यशूके विशिखे कङ्कपक्षिणि ।कुहरं गह्वरे छिद्रे क्लीबं नागान्तरे पुमान् ॥ १३६ ॥
27.3.136 · p. 132
अनुष्टुप्
कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसकम् ।कूर्परः स्यात् कफोणौ च जानुन्यपि च पुंस्ययम् ॥ १३७ ॥
27.3.137 · p. 132
अनुष्टुप्
कुञ्जरोऽनेकपे केशे स्त्री धातक्याञ्च पाटलौ ।कुमारः स्यात् शुके स्कन्दे युवराजेऽश्वचारके ॥ १३८ ॥
27.3.138 · p. 132
अनुष्टुप्
बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने ।कुमारी शैलतनयानवमाल्योर्नदीभिदि ॥ १३९ ॥
27.3.139 · p. 132
अनुष्टुप्
सहापराजिताकन्याजम्बुद्वीपेषु च स्त्रियाम् ।कुठारुर्ना द्रमे कीशे कुट्टारं केवले रते ॥ १४० ॥
27.3.140 · p. 132
अनुष्टुप्
कुबेरः स्यात् पुंसि नन्दीवृक्षे पुण्यजनेश्वरे ।कूबरस्त्रिषु चारौ ना कुब्जके स्त्री युगन्धरे ॥ १४१ ॥
27.3.141 · p. 133
अनुष्टुप्
केशरं हिङ्गुले क्लीबं किञ्जल्के न स्त्रियां पुमान् ।सिंहसटायां पुन्नागे बकुले नागकेशरे ॥ १४२ ॥
27.3.142 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ह (wrong syllable)
केदारोऽद्रौ शिवे क्षेत्रे भूमिभेदालवालयोः ।केनारः कुम्भिनरके शिरःकपोलसन्धिषु ॥ १४३ ॥
27.3.143 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
कोटिरः पुंसि नकुले शत्रुगोपकशक्रयोः ।कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ॥ १४४ ॥
27.3.144 · p. 133
अनुष्टुप्
खपुरः क्रमुके भद्रमुस्तके कलशेऽपि च ।खर्परस्तस्करे धूर्त्ते भिक्षाभाण्डकपालयोः ॥ १४५ ॥
27.3.145 · p. 133
अनुष्टुप्
खर्जूरं रूप्यखलयोर्वृश्चिके ना द्रुमे द्वयोः ।खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने ॥ १४६ ॥
27.3.146 · p. 133
अनुष्टुप्
खण्डाभ्रमभ्रलेशे स्यात् तथा दन्तक्षतान्तरे ।खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिबालके ॥ १४७ ॥
27.3.147 · p. 133
अनुष्टुप्
गणेरुः कर्णिकाराद्रौ करिणीवेश्ययोः स्त्रियाम् ।गर्गरो मीनभेदे स्त्री मन्थन्यामथ गह्वरम् ॥ १४८ ॥
27.3.148 · p. 133
अनुष्टुप्
गुहागहनदम्भेषु निकुञ्जे तु पुमानयम् ।गान्धारः पुंसि सिन्दूरे रागदेशप्रभेदयोः ॥ १४९ ॥
27.3.149 · p. 133
अनुष्टुप्
गायत्री त्रिपदादेवीच्छन्दोभित्खदिरेषु च ।गोपुरं द्वारि पूर्द्वारि कैवर्त्तीमुस्तकेऽपि च ॥ १५० ॥
27.3.150 · p. 133
अनुष्टुप्
घर्घरो ना चलद्वारिध्वानोलूकनदान्तरे ।स्त्री क्षुद्रघण्ट्यां वीणाया भेदे स्वरान्तरे त्रिषु ॥ १५१ ॥
27.3.151 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
चमरं चामरे स्त्री तु मञ्जरी मृगभेदयोः ।चन्दिरोऽनेकपे चन्द्रे चत्वरं स्थण्डिलेऽङ्गने ॥ १५२ ॥
27.3.152 · p. 133
अनुष्टुप्
चङ्कुरः स्याद्रथे वृक्षे चातुरो नेत्रगोचरे ।चाटुकारिनियन्त्रोश्च त्रिषु दाक्ष्ये तु चातुरी ॥ १५३ ॥
27.3.153 · p. 133
अनुष्टुप्
चक्रगण्डौ च पुंसि स्याच्चामरं चमरापि च ।दण्डे च बालव्यजने चिकुरस्तरलागसोः ॥ १५४ ॥
27.3.154 · p. 133
अनुष्टुप्
पक्षिवृक्षभिदोः केशे गृहबभ्रौ सरीसृपे ।छिदिरः पावके रज्जौ करबाले परश्वधे ॥ १५५ ॥
27.3.155 · p. 134
अनुष्टुप्
छिदुरश्छेदनद्रव्ये धूर्त्ते वैरिणि च त्रिषु ।जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु ॥ १५६ ॥
27.3.156 · p. 134
अनुष्टुप्
जर्जरः शैवले शक्रध्वजे त्रिषु जरातुरे ।जम्बारः प्रस्थपुष्पे स्यात् तथा दन्तशठद्रुमे ॥ १५७ ॥
27.3.157 · p. 134
अनुष्टुप्
जलेन्द्रः पुंसि वरुणे जम्भले च महोदधौ ।झर्झरः स्यात् कलियुगे वाद्यभाण्डे नदान्तरे ॥ १५८ ॥
27.3.158 · p. 134
अनुष्टुप्
झल्लरी झलरी च द्वे हुडक्के बालचक्रके ।टट्टरी स्यान् मृषावादे लम्पापटहवाद्ययोः ॥ १५९ ॥
27.3.159 · p. 134
अनुष्टुप्
टङ्कारो विस्मये पुंसि प्रसिद्धौ शिञ्जिनीध्वनौ ।टगरष्टङ्कणक्षारे हेलाविभ्रमगोचरे ॥ १६० ॥
27.3.160 · p. 134
अनुष्टुप्
नाऽन्यवत् केकराक्षे स्याद् डिङ्गरी डङ्गरेऽपि च ।क्षेपे तमिस्रं तिमिरे कोपे स्त्री तु तमस्ततौ ॥ १६१ ॥
27.3.161 · p. 134
अनुष्टुप्
कृष्णपक्षनिशायाञ्च त्वक्पत्रन्तु वराङ्गके ।स्त्री कारव्याञ्च तिमिरं ध्वान्ते नेत्रामयान्तरे ॥ १६२ ॥
27.3.162 · p. 134
अनुष्टुप्
धीवरो नाऽम्बुधौ व्याधे तुम्बुरी कुक्कुरस्त्रियाम् ।धन्याकेऽपि तुषारस्तु शीतले शीकरे हिमे ॥ १६३ ॥
27.3.163 · p. 134
अनुष्टुप्
तुवरस्तु कषाये स्यात् काक्ष्याढक्योस्तुवर्य्यपि ।तूवरोऽश्मश्रुपुरुषेऽप्रौढशृङ्गगवेऽपि च ॥ १६४ ॥
27.3.164 · p. 134
अनुष्टुप्
पुरुषव्यञ्जनत्यक्ते स्यात् कषायरसेऽपि च ।दहरो भ्रातरि स्वल्पे भूषिकायाञ्च बालके ॥ १६५ ॥
27.3.165 · p. 134
अनुष्टुप्
दन्तुरस्तून्नतरदे तथोन्नतानते त्रिषु ।दर्दरः पर्वते पुंसि त्रिष्वीषद्भग्नभाजने ॥ १६६ ॥
27.3.166 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः ।दर्दुरा चण्डिकायां स्याद् ग्रामजाले नपुंसकम् ॥ १६७ ॥
27.3.167 · p. 134
अनुष्टुप्
दण्डारो वहने मत्तवारणे शरयन्त्रके ।कुम्भकारस्य चक्रे च द्वापरः संशये युगे ॥ १६८ ॥
27.3.168 · p. 134
अनुष्टुप्
दासेरो दासिकापत्ये त्रिषु पुंसि क्रमेलके ।दुर्द्धरः पुंसि नरकान्तरे स्वादृषभौषधे ॥ १६९ ॥
27.3.169 · p. 135
अनुष्टुप्
दैत्यारिः पुंसि सामान्यदेवे च गरुडध्वजे ।धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे ॥ १७० ॥
27.3.170 · p. 135
अनुष्टुप्
नरेन्द्रस्तु महीपाले विषवैद्ये च पुंस्ययम् ।नर्मरा तु दरीभस्त्रासरलानिष्कलासु च ॥ १७१ ॥
27.3.171 · p. 135
अनुष्टुप्
नागरं मुस्तके शुण्ठ्यां विदग्धे नगरोद्भवे ।निकरो निवहे सारे न्यायदेयधने निधौ ॥ १७२ ॥
27.3.172 · p. 135
अनुष्टुप्
निर्जरः स्यात् पुमान् देवे जरात्यक्ते तु वाच्यवत् ।निर्जरा तु गुडूच्याञ्च तालपर्ण्यामपि स्त्रियाम् ॥ १७३ ॥
27.3.173 · p. 135
अनुष्टुप्
निर्झरस्तु सहस्रांशुतुरङ्गे तुषपावके ।निकारः स्यात् परिभवे धान्यस्योत्क्षेपणेऽपि च ॥ १७४ ॥
27.3.174 · p. 135
अनुष्टुप्
निर्दरं निर्भरे सारेऽन्यवत्तु कठिनेऽत्रपे ।स्यान्नीवरो वाणिजके वास्तव्ये च पुमानयम् ॥ १७५ ॥
27.3.175 · p. 135
अनुष्टुप्
प्रवरं सन्ततौ गोत्रे क्लीबं श्रेष्ठे तु वाच्यवत् ।प्रखरं हयसन्नाहे कुक्कुरेऽश्वतरेऽपि च ॥ १७६ ॥
27.3.176 · p. 135
अनुष्टुप्
पुंसि त्रिष्वत्यन्तखरे पवित्रं वर्षणे कुशे ।ताम्रे पयसि च क्लीबं मेध्ये स्यादभिधेयवत् ॥ १७७ ॥
27.3.177 · p. 135
अनुष्टुप्
प्रदरो रोगभेदे स्याद् विदारे शरभङ्गयोः ।प्रकरः स्यात् पुमान् सङ्घे विकीर्णकुसुमादिषु ॥ १७८ ॥
27.3.178 · p. 135
अनुष्टुप्
नपुंसकं जोङ्गके स्त्री नाट्याङ्गे चत्वरावनौ ।पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ॥ १७९ ॥
27.3.179 · p. 135
अनुष्टुप्
प्रस्तरो ग्राव्णि च मणौ प्रकारस्तुल्यभेदयोः ।पदारः पादधूलौ स्यात् पादालिन्देऽपि पुंस्ययम् ॥ १८० ॥
27.3.180 · p. 135
अनुष्टुप्
प्रसरः प्रणये वेगे स्यात् पटीरस्तु मूलके ।केदारे वेणुसारे च वारिदे तितउन्यपि ॥ १८१ ॥
27.3.181 · p. 135
अनुष्टुप्
स्याद्रङ्गे वातिके पुंसि पामरः खलनीचयोः ।पाण्डुरः स्यान्मरुबके वर्णो ना तद्वति त्रिषु ॥ १८२ ॥
27.3.182 · p. 135
अनुष्टुप्
पार्परो भक्तशिक्थे स्यात् कीनाशे राजयक्ष्मणि ।जराटेऽपि कदम्बस्य केशरे च गदान्तरे ॥ १८३ ॥
27.3.183 · p. 136
अनुष्टुप्
प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे ।पिठरः स्थाल्यां ना क्लीबं मुस्तामन्थानदण्डयोः ॥ १८४ ॥
27.3.184 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्यां (wrong syllable)
पिञ्जरोऽश्वान्तरे पीते क्लीबं स्वर्णे च पीतने ।पिण्डारः क्षपणे गोपे महिषीरक्षके द्रुमे ॥ १८५ ॥
27.3.185 · p. 136
अनुष्टुप्
पीवरः कच्छपे स्थूले पुष्करं खेऽम्बुपद्मयोः ।तुर्य्यवक्त्रे खड्गफले हस्तिहस्ताग्रकाण्डयोः ॥ १८६ ॥
27.3.186 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
कुष्ठौषधे द्वीपतीर्थभेदयोश्च नपुंसकम् ।ना रोगनागविहगनृपभेदेषु वारुणौ ॥ १८७ ॥
27.3.187 · p. 136
अनुष्टुप्
बण्ठरः स्थगिकारज्जौ लाङ्गूले कुक्कुरस्य च ।करीरकोषे तालस्य पल्लवे च पयोधरे ॥ १८८ ॥
27.3.188 · p. 136
अनुष्टुप्
बन्धुरं मुकुटे पुंसि स्त्रीचिह्नतैलकल्कयोः ।बन्धूके बधिरे हंसे त्रिषु स्याद्रम्यनम्रयोः ॥ १८९ ॥
27.3.189 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्न (wrong syllable)
बन्धूरा पण्ययोषायां स्त्रियां पुंभूम्नि शक्तुषु ।बन्धूरः शोभने नम्रे वरत्रा वर्द्धीकक्षयोः ॥ १९० ॥
27.3.190 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्द्धी (wrong syllable)
भ्रमरः कामुके भृङ्गे भ्रामरं मधुनि स्मृतम् ।पुंसि प्रस्तरभेदेऽथ भास्करोऽग्नौ प्रभाकरे ॥ १९१ ॥
27.3.191 · p. 136
अनुष्टुप्
भार्य्यारुः शैलभेदे स्यान् मृगभेदे च तत्र च ।क्रीडया परभार्य्यायां पुत्रो येनोपपादितः ॥ १९२ ॥
27.3.192 · p. 136
अनुष्टुप्
भृङ्गारी झिल्लिकायां स्यात् कनकालौ पुनः पुमान् ।मत्सरा मक्षिकायां स्यान् मात्सर्य्यक्रोधयोः पुमान् ॥ १९३ ॥
27.3.193 · p. 136
अनुष्टुप्
असह्यपरसम्पत्तौ कृपणे चाभिधेयवत् ।मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः ॥ १९४ ॥
27.3.194 · p. 136
अनुष्टुप्
मधुकर्कटिकाभेदामधुलीयष्टिकासु च ।क्लीबं विषे पुंसि रसे तद्वत् स्वादुप्रियेऽन्यवत् ॥ १९५ ॥
27.3.195 · p. 136
अनुष्टुप्
मन्दरस्तु पुमान् मन्थशैले मन्दारपादपे ।वाच्यवद्बहले मन्दे मन्दारः स्यात् सुरद्रुमे ॥ १९६ ॥
27.3.196 · p. 136
अनुष्टुप्
पारिभद्रेऽर्कपर्णे च मदारो हस्तिधूर्त्तयोः ।मन्दिरं नगरेऽगारे क्लीबं ना मकरालये ॥ १९७ ॥
27.3.197 · p. 137
अनुष्टुप्
मन्थरः कोषफलयोर्बाधमन्थानयोः पुमान् ।कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत् ॥ १९८ ॥
27.3.198 · p. 137
अनुष्टुप्
मकरो यादसो भेदे निधिराशिप्रभेदयोः ।मयूरो बर्हिचूडायामपामार्गे शिखण्डिनि ॥ १९९ ॥
27.3.199 · p. 137
अनुष्टुप्
महेन्द्रः पर्वते शक्रे मधुद्रोऽलौ च कामुके ।मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ॥ २०० ॥
27.3.200 · p. 137
अनुष्टुप्
मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः ।मसूरी पापरोगे स्यादुपधाने पुनः पुमान् ॥ २०१ ॥
27.3.201 · p. 137
अनुष्टुप्
मर्मरो वस्त्रपर्णादिस्वने स्त्री पोतदारुणि ।मञ्जरी तिलकद्रूरुमुक्तयोर्वल्लरी द्वयोः ॥ २०२ ॥
27.3.202 · p. 137
अनुष्टुप्
मकुरः स्यात् मुकुरवद् दर्पणे बकुलद्रुमे ।कुलालदण्डे माठरो व्यासेऽर्कपारिपार्श्विके ॥ २०३ ॥
27.3.203 · p. 137
अनुष्टुप्metre not read in every line
मार्जार ओतौ खट्टाशे मिहिरः सूर्यवृद्धयोः ।मुद्गरं कल्लिकाभेदे पुंसि लोष्ट्रादिभेदने ॥ २०४ ॥
27.3.204 · p. 137
अनुष्टुप्
मुदिरः कामुके मेघे मुहिरः काममूर्खयोः ।मुर्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि ॥ २०५ ॥
27.3.205 · p. 137
अनुष्टुप्
मृगारिः स्यात् पुंसि कण्ठीरवशार्दूलयोरपि ।रुधिरोऽङ्गारके पुंसि क्लीबन्तु कुङ्कुमासृजोः ॥ २०६ ॥
27.3.206 · p. 137
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 न्तु (wrong syllable)
वदरा गृष्टिकार्पास्योरेलापर्ण्यां स्त्रियां पुमान् ।कार्पासस्यास्थ्नि बदरी कोलौ क्लीबन्तु तत्फले ॥ २०७ ॥
27.3.207 · p. 137
अनुष्टुप्
वटरः कुक्कुटे वस्त्रे शठे च वशिरः पुमान् ।किनिहीहस्तिपिप्पल्योः क्लीबेऽब्धिलवणे स्मृतः ॥ २०८ ॥
27.3.208 · p. 137
अनुष्टुप्
वर्वरः पामरे केशे चक्रले नीवृदन्तरे ।फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम् ॥ २०९ ॥
27.3.209 · p. 137
अनुष्टुप्
वर्करः परिहासे स्याच्छागे युवपशावपि ।वल्लुरं स्याद्वनक्षेत्रे गहनोषरयोरपि ॥ २१० ॥
27.3.210 · p. 137
अनुष्टुप्
वल्लुरो त्रिषु संशुष्कमांसशूकरमांसयोः ।वार्दरं कृष्णलाबीजदक्षिणावर्त्तशङ्खयोः ॥ २११ ॥
27.3.211 · p. 138
अनुष्टुप्
नीरे च काकचिञ्चायां भारत्याञ्च नपुंसकम् ।वागरस्तु गतातङ्के मुमुक्षौ वातवेष्टके ॥ २१२ ॥
27.3.212 · p. 138
अनुष्टुप्
विशारदे विषाणेऽपि निर्णये वारकेऽपि च ।वासरस्तु पुमान्नागविशेषे दिवसेऽस्त्रियाम् ॥ २१३ ॥
27.3.213 · p. 138
अनुष्टुप्
वासुरा वासितायां स्याद् वासतेयभुवि स्त्रियाम् ।विष्टरः कुशमुष्टौ स्यादासने च महीरुहे ॥ २१४ ॥
27.3.214 · p. 138
अनुष्टुप्
विस्तरो वाक्प्रपञ्चे स्याद् विस्तारे प्रणयेऽपि च ।विदुरो नागरे धीरे कौरवाणाञ्च मन्त्रिणि ॥ २१५ ॥
27.3.215 · p. 138
अनुष्टुप्
विधुरं स्यात् प्रविश्लेषे न द्वयोर्विकले त्रिषु ।रसालायां स्त्री विदारो जलोच्छ्वासाजिदारणे ॥ २१६ ॥
27.3.216 · p. 138
अनुष्टुप्
विदारी शीलपर्ण्याञ्च रोगभेदेक्षुगन्धयोः ।विवरं दूषणे गर्त्ते विसरः प्रसरे व्रजे ॥ २१७ ॥
27.3.217 · p. 138
अनुष्टुप्
विस्तारो विस्तृतौ स्तम्बे विकारो विकृतौ रुजि ।विहारी भ्रमणे स्कन्धे लीलायां सुगतालये ॥ २१८ ॥
27.3.218 · p. 138
अनुष्टुप्
शबरो म्लेच्छभेदे च पानीये शङ्करेऽपि च ।शम्बरं सलिले पुंसि मृगदैत्यविशेषयोः ॥ २१९ ॥
27.3.219 · p. 138
अनुष्टुप्
शम्बरी चाखुपर्ण्यां स्यात् शर्वरी यामिनीस्त्रियोः ।शर्करा खण्डविकृतावुपलाकर्परांशयोः ॥ २२० ॥
27.3.220 · p. 138
अनुष्टुप्
शर्कराऽन्वितदेशेऽपि रुग्भेदे सकलेऽपि च ।शक्वरी छन्दसो भेदे नदीमेखलयोरपि ॥ २२१ ॥
27.3.221 · p. 138
अनुष्टुप्
शणीरं शीणमध्यस्थपुलिने दर्दरीतटे ।श्वशुरः पूज्ये स्त्री ब्राह्म्यां शारीरं देहजे वृषे ॥ २२२ ॥
27.3.222 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ये (wrong syllable)