All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
णान्तवर्गः · णचतुष्कम्
णचतुष्कम्
अङ्गारिणी हसन्त्यां च भास्करत्यक्तदिश्यपि ।अथर्वणिर्नाऽथर्वज्ञब्राह्मणे च पुरोधसि ॥ ९० ॥
15.4.90 · p. 51
अनुष्टुप्
आतर्पणं प्रीणने स्यान्मङ्गलालेपनेऽपि च ।आरोहणं स्यात् सोपाने समारोहे प्ररोहणे ॥ ९१ ॥
15.4.91 · p. 51
अनुष्टुप्
उत्क्षेपणं तु व्यजने धान्यमर्दनवस्तुनि ।स्यादुद्धरणमुद्धारवान्तान्नोन्मूलनेष्वपि ॥ ९२ ॥
15.4.92 · p. 51
अनुष्टुप्
कार्षापणोऽस्त्री कार्षिके पणषोडशकेऽपि च ।अथ कामगुणो रागे विषयाभोगयोरपि ॥ ९३ ॥
15.4.93 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 का (wrong syllable)
चीर्णपणस्तु निम्बेऽपि खर्जूरीभूरुहे पुमान् ।चूडामणिः शिरोरत्ने काकचिञ्चाफले पुमान् ॥ ९४ ॥
15.4.94 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
जुहु(६)वाणोऽपि चाध्वर्यावपि स्याज्जातवेदसि ।तण्डुरीणः कीटमात्रे बर्बरे तण्डुलोदके ॥ ९५ ॥
15.4.95 · p. 52
अनुष्टुप्
त्रायमाणा वार्षिके स्त्री रक्ष्यमाणेऽभिधेयवत् ।तैलपर्णी मलयजे श्रीवासे सिह्लकेऽपि च ॥ ९६ ॥
15.4.96 · p. 52
अनुष्टुप्
दाक्षायणी त्वपर्णायामश्विन्याद्युडुषु स्त्रियाम् ।अथ देवमणिर्भगऽश्वावर्ते कौस्तुभेऽपि (२)च ॥ ९७ ॥
15.4.97 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्भ (wrong syllable)
नारायणोऽच्युते भीरुगौर्योर्नारायणी मता ।अथो निगरणं क्लीबं भोजने स्याद्गले पुमान् ॥ ९८ ॥
15.4.98 · p. 52
अनुष्टुप्
अथ निःसरणं मृत्यूपायमोक्षेषु निर्गमे ।स्यान्निस्तरणमुपाये निस्तारे तरणेऽपि च ॥ ९९ ॥
15.4.99 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
निरूपणं स्यादालोके विचारे च निदर्शने ।पर्परीणश्च पर्णस्य शिरायां द्यूतकम्बले ॥ १०० ॥
15.4.100 · p. 52
अनुष्टुप्
पर्णचूर्णरसेऽपि स्यात् पर्परीणं तु पर्वणि ।प्रवारणं निषेधे स्यात् काम्यदाने च न द्वयोः ॥ १०१ ॥
15.4.101 · p. 52
अनुष्टुप्
परीरणः स्यात् कमठे दण्डे च पट्टशाटके ।परायणमभीष्टे स्यात्तत्पराश्रययोरपि ॥ १०२ ॥
15.4.102 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
परवाणिः पुमान् धर्माध्यक्षवत्सरयोरपि ।पारायणं समासङ्गे कार्त्स्न्ये पारगतावपि ॥ १०३ ॥
15.4.103 · p. 52
अनुष्टुप्
पीलुपर्णी बिम्बिकायां मूर्वायामोषधीभिदि ।अथ पुष्करिणी चेभ्यां सरोजिन्यां जलाशये ॥ १०४ ॥
15.4.104 · p. 52
अनुष्टुप्
मधुपर्णी तु गाम्भीर्यां नीलीसंज्ञौषधावपि ।मीनाम्रीणस्तु पुंलिङ्गो दर्दुराम्रे च खञ्जने ॥ १०५ ॥
15.4.105 · p. 52
अनुष्टुप्
रक्तरेणुस्तु सिन्दूरे पलाशकोरके पुमान् ।रागचूर्णः पुमान् दन्तधावने मकरध्वजे ॥ १०६ ॥
15.4.106 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
रेरिहाणस्तु पुंसि स्यान्महादेवेऽम्बरेऽपि च ।लम्बकर्णः स्मृतोऽङ्कोठपादपे छगलेऽपि च ॥ १०७ ॥
15.4.107 · p. 53
अनुष्टुप्
विदारणं विडम्बे च भेदे क्लीबं रणे द्वयोः ।अथ वैतरणी दद्यां प्रेतानां यातुमातरि ॥ १०८ ॥
15.4.108 · p. 53
अनुष्टुप्
शरवाणिः शरमुखे पायिके शरजीविनि ।पुमानथो शिखरिणी रसालवृत्तभेदयोः ॥ १०९ ॥
15.4.109 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
नारीरत्ने मल्लिकायां रोमावल्यामपि स्त्रियाम् ।अथ संसरणं क्लीबमसम्बाधचमूगतौ ॥ ११० ॥
15.4.110 · p. 53
अनुष्टुप्
घण्टापथे च संसारे रणारम्भे च कुत्रचित् ।समीरणः स्यात् पवने पथिके च फणिज्जके ॥ १११ ॥
15.4.111 · p. 53
अनुष्टुप्
हस्तिकर्णश्चोरुबूके पलाशगणभेदयोः ।
15.4.23 · p. 53