All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
लान्तवर्गः · लद्विकम्
लद्विकम्
अम्लो रसस्य भेदे स्यादाम्ली चाङ्गेरिकौषधौ ।अलिः सुरापुष्पलिहोः पुंस्यालिर्विशदाशये ॥ २ ॥
28.2.2 · p. 145
अनुष्टुप्
त्रिषु स्त्रियां वयस्यायां सेतौ पङ्क्तौ प्रकीर्त्तिता ।आलुर्गलन्तिकायां स्त्री क्लीबं मूले च भेलके ॥ ३ ॥
28.2.3 · p. 145
अनुष्टुप्
इला कलवे सौम्यस्य धरित्र्यां गवि वाचि च ।ओल्लस्तु शूरणे पुंसि स्यादार्द्रे वाच्यलिङ्गकः ॥ ४ ॥
28.2.4 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
कला स्यान् मूलविवृद्धौ शिल्पादावंशमात्रके ।षोडशांशे च चन्द्रस्य कलनाकालमानयोः ॥ ५ ॥
28.2.5 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
कलं शुक्रे त्रिष्वजीर्णे चाव्यक्तमधुरध्वनौ ।कलिः स्त्री कलिकायां ना शराजिकलहे युगे ॥ ६ ॥
28.2.6 · p. 145
अनुष्टुप्
कालो मृतौ महाकाले समये यमकृष्णयोः ।काला तु कृष्णात्रिवृतामञ्जिष्ठानीलिनीषु च ॥ ७ ॥
28.2.7 · p. 145
अनुष्टुप्
काली गौर्य्यां क्षीरकीटे कालिकामातृभेदयोः ।कीलो लेशे द्वयोः स्तम्भज्वालाकफोणिशङ्कुषु ॥ ८ ॥
28.2.8 · p. 145
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
कुलं जनपदे गोत्रे सजातीयगणेऽपि च ।भवने च तनौ क्लीबं कण्टकार्य्यौषधौ कुली ॥ ९ ॥
28.2.9 · p. 145
अनुष्टुप्
अथ कूलं तटे स्तूपे सैन्यपृष्ठतडागयोः ।कोलं कोलिफले क्लीबं पिप्पलीचव्ययोः स्त्रियाम् ॥ १० ॥
28.2.10 · p. 145
अनुष्टुप्
नाऽङ्कपालौ शनौ चित्रे वराहोत्सङ्गमेलके ।खलं भूस्थानकल्केषु नीचक्रूराधमे त्रिषु ॥ ११ ॥
28.2.11 · p. 145
अनुष्टुप्
खल्लो वस्त्रप्रभेदे स्याद् गर्त्ते चर्मणि चातके ।खल्ली तु हस्तपादावमर्दनाख्यरुजि स्त्रियाम् ॥ १२ ॥
28.2.12 · p. 146
अनुष्टुप्
खिलमप्रहतेऽपि स्यात् सारसंक्षिप्तवेधसोः ।गलः सर्जरसे कण्ठे गुलः स्यादैक्षवे पुमान् ॥ १३ ॥
28.2.13 · p. 146
अनुष्टुप्
गली तु गुटिकोरोगभिदोः स्नुह्यां गुला स्मृता ।गोला गोदावरीसख्योः कुनटीदुर्गयोः स्त्रियाम् ॥ १४ ॥
28.2.14 · p. 146
अनुष्टुप्
पत्राञ्जने मण्डले चालिञ्चरे बालखेलने ।चला लक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत् ॥ १५ ॥
28.2.15 · p. 146
अनुष्टुप्
चिल्लः पुमान् क्लिन्ननेत्रे क्लिन्नाक्षेऽप्यभिधेयवत् ।आततायिनि सम्प्रोक्तश्चिल्लं स्यात् क्षुद्रवास्तुके ॥ १६ ॥
28.2.16 · p. 146
अनुष्टुप्
चुल्ली चितायामुद्धाने स्त्रियां चेलोऽधमे त्रिषु ।नपुंसकन्तु वसने छलं स्खलितशाठ्ययोः ॥ १७ ॥
28.2.17 · p. 146
अनुष्टुप्
छल्ली वीरुधि सन्ताने वल्कले कुसुमान्तरे ।जलं गोकलने नीरे ह्रीवेरेऽप्यन्यवज्जडे ॥ १८ ॥
28.2.18 · p. 146
अनुष्टुप्
जालं गवाक्ष आनाये क्षारके दन्तवृन्दयोः ।जालो नीपद्रुमे जाली पटोलिकौषधौ स्त्रियाम् ॥ १९ ॥
28.2.19 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
झला स्यादातपस्योर्मौ दुहितर्य्यपि च स्त्रियाम् ।झिली चीर्य्यातपरुचोर्वर्त्त्यामुद्वर्त्तनांशुके ॥ २० ॥
28.2.20 · p. 146
अनुष्टुप्
तलं स्वरूपेऽनूर्ध्वेऽस्त्री क्लीबं ज्याघातवारणे ।कानने कार्य्यबीजे च पुंसि तालमहीरुहे ॥ २१ ॥
28.2.21 · p. 146
अनुष्टुप्
चपेटे च त्सरौ तन्त्रीघाते सव्येन पाणिना ।तल्ली तरुण्यां तल्लस्तु जलाधारान्तरे पुमान् ॥ २२ ॥
28.2.22 · p. 146
अनुष्टुप्
तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते ।गीतकालक्रियामाने करास्फाले द्रुमान्तरे ॥ २३ ॥
28.2.23 · p. 146
अनुष्टुप्
वाद्यभाण्डे च कांस्यस्य त्सरौ ताल्यजटौषधौ ।क्लीबन्तु हरिताले स्यात् तुला सादृश्यमानयोः ॥ २४ ॥
28.2.24 · p. 146
अनुष्टुप्
गृहाणां दारुबन्धाय पीठिकायामपीष्यते ।राशौ पलशते भाण्डे तूलं स्यात् ब्रह्मदारुणि ॥ २५ ॥
28.2.25 · p. 146
अनुष्टुप्
आकाशेऽथ पिचौ न स्त्री दलमुत्सेधखण्डयोः ।शस्त्रीच्छेदेऽप्यपद्रव्ये पत्रेऽप्यथ दुलिः स्त्रियाम् ॥ २६ ॥
28.2.26 · p. 147
अनुष्टुप्
कमठ्यां ना मुनौ दोला नील्यां यानान्तरेऽपि च ।नलः पोटगले राज्ञि पितृदेवे कपीश्वरे ॥ २७ ॥
28.2.27 · p. 147
अनुष्टुप्
कमलेऽपि च नट्याञ्च क्रमेण क्लीबयोषितोः ।नाला न ना पद्मदण्डे नाली शाककडम्बके ॥ २८ ॥
28.2.28 · p. 147
अनुष्टुप्
नीलन्तु नीलरक्ते ना निध्यद्रिवानरान्तरे ।नीली रुग्भेदनीलिन्योः पलमुन्मानमांसयोः ॥ २९ ॥
28.2.29 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्रि (wrong syllable)
पल्ल्यल्पग्रामकुट्योः स्त्री पल्लः स्थूलकुसूलके ।पालिः कर्णलताग्रेऽश्रौ पङ्क्तावङ्कप्रभेदयोः ॥ ३० ॥
28.2.30 · p. 147
अनुष्टुप्
छात्रादिदेये स्त्री पालो यूकासश्मश्रुयोषितोः ।पिल्लः पुमान् क्लिन्ननेत्रे क्लिन्नाक्षे पुनरन्यवत् ॥ ३१ ॥
28.2.31 · p. 147
अनुष्टुप्
पीलुः पुमान् प्रसूने स्यात् परमाणौ मतङ्गजे ।अस्थिखण्डे च तालस्य काण्डपादपभेदयोः ॥ ३२ ॥
28.2.32 · p. 147
अनुष्टुप्
पुलः स्यात् पुलके पुंसि विपुलेऽप्यन्यलिङ्गकः ।फलं जातीफले शस्ये हेतूत्थे व्युष्टिलाभयोः ॥ ३३ ॥
28.2.33 · p. 147
अनुष्टुप्
त्रिफलायाञ्च कक्कोले प्रियङ्गौ तु फली स्मृता ।फालः पुंसि महादेवे कालिन्दीभेदनेऽपि च ॥ ३४ ॥
28.2.34 · p. 147
अनुष्टुप्
क्लीबं सीरोपकरणे त्रिषु कार्पासवाससि ।बलिर्दैत्यप्रभेदे च करचामरदण्डयोः ॥ ३५ ॥
28.2.35 · p. 147
अनुष्टुप्
उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि ।गृहदारुप्रभेदे च जठरावयवेऽपि च ॥ ३६ ॥
28.2.36 · p. 147
अनुष्टुप्
बले गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः ।पुमान् हलायुधे दैत्यप्रभेदे वायसेऽपि च ॥ ३७ ॥
28.2.37 · p. 147
अनुष्टुप्
बलयुक्तेऽन्यलिङ्गः स्याद् वाट्यालके तु योषिति ।वल्ली स्यादजमोदायां व्रतत्यामपि योषिति ॥ ३८ ॥
28.2.38 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
बालो ना कुन्तलेऽश्वस्य करिणश्चापि बालधौ ।नारिकेले हरिद्रायां मल्लिकाभिद्यपि स्त्रियाम् ॥ ३९ ॥
28.2.39 · p. 147
अनुष्टुप्
वाच्यलिङ्गोऽर्भके मूर्खे ह्रीबेरे पुन्नपुंसकम् ।अलङ्कारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम् ॥ ४० ॥
28.2.40 · p. 148
अनुष्टुप्
वेला काले च सीमायमब्धेः कूलविकारयोः ।अक्लिष्टमरणे रागे ईश्वरस्य च भोजने ॥ ४१ ॥
28.2.41 · p. 148
अनुष्टुप्
भल्लः स्यात् पुंसि भल्लूके शस्त्रभेदे पुनर्द्वयोः ।भल्लातक्यां स्त्रियां भल्ली भालं तेजोललाटयोः ॥ ४२ ॥
28.2.42 · p. 148
अनुष्टुप्
भेलः प्लवे मुनौ पुंसि भीरावज्ञे च वाच्यवत् ।भोलो मीनान्तरे पुंसि त्रिषु कामादिविह्वले ॥ ४३ ॥
28.2.43 · p. 148
अनुष्टुप्
मलोऽस्त्री पापविट्किट्टे कृपणे त्वभिधेयवत् ।मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि ॥ ४४ ॥
28.2.44 · p. 148
अनुष्टुप्
मालं क्षेत्रे स्त्रियां पृक्कास्रजोर्जात्यन्तरे पुमान् ।मालुः पत्रलतानार्य्योः स्त्रियां मूलं शिफाद्ययोः ॥ ४५ ॥
28.2.45 · p. 148
अनुष्टुप्
मूलवित्तेऽन्तिके वा ना भे मेला मेलके मसौ ।मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम् ॥ ४६ ॥
28.2.46 · p. 148
अनुष्टुप्
नाऽशोकद्रौ स्त्रियां भूमौ लीला केलिविलासयोः ।शृङ्गारभावचेष्टायां लोलः स्याद्वाच्यलिङ्गकः ॥ ४७ ॥
28.2.47 · p. 148
अनुष्टुप्
सतृष्णे चञ्चले लोला जिह्वाकमलयोः स्त्रियाम् ।व्यालो दुष्टगजे सर्पे श्वापदे नान्यवत् खले ॥ ४८ ॥
28.2.48 · p. 148
अनुष्टुप्
बिलं छिद्रे गुहायाञ्च पुमानुच्चैःश्रवोहये ।शलन्तु शलले पुंसि भृङ्गिक्षेत्रभिदोविधौ ॥ ४९ ॥
28.2.49 · p. 148
अनुष्टुप्
शालुः कषायद्रव्ये स्यात् चौरकाख्यौषधौ पुमान् ।शालिस्तु कलमादौ च गन्धमार्जारके पुमान् ॥ ५० ॥
28.2.50 · p. 148
अनुष्टुप्
शाला दुस्कन्धशाखायां गृहगेहैकदेशयोः ।ना झषे शिलमुञ्छे स्याद् गण्डूपद्यां शिली मता ॥ ५१ ॥
28.2.51 · p. 148
अनुष्टुप्
स्तम्भशीर्षे शिलाशिल्यौ शिला तु प्रस्तरे मता ।तथा मनःशिलायाञ्च द्वाराधःस्थितदारुणि ॥ ५२ ॥
28.2.52 · p. 148
अनुष्टुप्
शीलं स्वभावे सद्वृत्ते शुक्लो योगान्तरे सिते ।नपुंसकन्तु रजते शूलोऽस्त्री रोग आयुधे ॥ ५३ ॥
28.2.53 · p. 148
अनुष्टुप्
मृत्युकेतनयोगेषु शुक्ला स्यात् पण्ययोषिति ।शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके ॥ ५४ ॥
28.2.54 · p. 149
अनुष्टुप्
सालः पादपमात्रे स्यात् प्राकारे सर्जपादपे ।स्थूलं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः ॥ ५५ ॥
28.2.55 · p. 149
अनुष्टुप्
स्थूलं कूटेऽथ निष्प्रज्ञे पीवरेऽप्यन्यलिङ्गकः ।हालो हले पुमान् हाला मदिरायाञ्च योषिति ॥ ५६ ॥
28.2.56 · p. 149
अनुष्टुप्
हेला स्त्रियामवज्ञायां विलासे वीरयोषिताम् ।
28.2.56 · p. 149