All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
रान्तवर्गः · रैकम्
इति यान्तवर्गः ।
रैकम्
रः स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः ।श्रीर्वेशरचनाशोभाभारतीसरलद्रुमे ॥ १ ॥
27.1.1 · p. 122
अनुष्टुप्
लक्ष्म्यां त्रिवर्गसम्पत्तिविधोपकरणेषु च ।विभूतौ च मतौ च स्त्री स्रुः स्त्रियां निर्ज्झरे स्रवे ॥ २ ॥
27.1.2 · p. 123
अनुष्टुप्