All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
कान्तवर्गः · कपञ्चकम्
कपञ्चकम्
अनेडमूक उद्दिष्टः शठे वाक्श्रुतिवर्जिते ॥ २२४ ॥
1.5.224 · p. 18
स्यादाच्छुरितकं हासनखराघातभेदयोः ।उपकारिकोपकर्त्र्यां पिष्टभेदे नृपालये ॥ २२५ ॥
1.5.225 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
कक्ष्यावेक्षक इत्येष शुद्धान्तोद्यानपालयोः ।रङ्गाजीवे कणे(३) खड्गे द्वाःस्थेऽथ कटखादकः ॥ २२६ ॥
1.5.226 · p. 18
अनुष्टुप्
खादके काचकलशे बलिपुष्टे च जम्बुके ।कृमिकण्टकं तु चित्राङ्गविडङ्गोदुम्बरेषु च ॥ २२७ ॥
1.5.227 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गोजागरिकं मङ्गले पुंसि स्यात् कण्टकारके ।चिलमीलिका तु कण्ठीभेदे खद्योतविद्युतोः ॥ २२८ ॥
1.5.228 · p. 18
metre not recognised
अथो जलकरङ्कः स्यान्नालिकेरफलेऽम्बुजे ।शङ्खे जललतायां च वारिवाहे च कीर्त्तितः ॥ २२९ ॥
1.5.229 · p. 19
अनुष्टुप्
जलतापिक इल्लीश(१)काकचीझषयोश्च पुंसि स्यात् ।नवफलिका स्त्री नव्ये नवजातरजोऽङ्गनायाञ्च ॥ २३० ॥
1.5.230 · p. 19
metre not recognised
नागवारिक उद्दिष्टो राजकुञ्जरहस्तिपे ।गणस्थराजे गरुडे चित्रमेखलकेऽपि च ॥ २३१ ॥
1.5.231 · p. 19
अनुष्टुप्
स्याद्व्रीहिराजिकः कङ्गुधान्यचीनकधान्ययोः ।व्यवहारिका स्याल्लोकयात्रासम्मार्जनीङ्गुदे ॥ २३२ ॥
1.5.232 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
शतपर्विका दूर्वायां वचायामपि योषिति ।शीतचम्पक इत्येष स्यादातर्पणदीपयोः ॥ २३३ ॥
1.5.233 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
सुवसन्तक उद्दि(२)ष्टो वासन्त्यां मदनोत्सवे ।स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ॥ २३४ ॥
1.5.234 · p. 19
अनुष्टुप्