कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

षान्तवर्गः · षद्विकम्

षद्विकम्

अक्षो ज्ञातार्थशकटव्यवहारेषु पाशके ॥ २ ॥
31.2.2 · p. 165
रुद्राक्षेन्द्राक्षयोः सर्पे बिभीतकतरावपि ।चक्रे कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये ॥ ३ ॥
31.2.3 · p. 165
अनुष्टुप्
उषा बाणसुतारात्र्योरुषः कामिनि गुग्गुलौ ।रात्रिशेषे उषायान्तु केचिदाहुस्तदव्ययम् ॥ ४ ॥
31.2.4 · p. 165
अनुष्टुप्
उषः क्षारमृत्तिकायां प्रभातेऽपि पुमानयम् ।तत्सन्धायाञ्च रन्ध्रे च चन्दनाद्रौ श्रवोविले ॥ ५ ॥
31.2.5 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
ऋषिर्वेदे वशिष्ठादौ दीधितौ च पुमानयम् ।ऋक्षः पर्वतभेदे स्याद् भल्लूके शोणके पुमान् ॥ ६ ॥
31.2.6 · p. 166
अनुष्टुप्
कृतवेधनेऽन्यलिङ्गो नक्षत्रे पुन्नपुंसकम् ।कक्षा स्यादन्तरीयस्य पश्चादञ्चलपल्लवे ॥ ७ ॥
31.2.7 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ध (wrong syllable)
स्पर्द्धास्पदे ना दोर्मूले कच्छवीरुत्तृणेषु च ।कर्णो न कर्षणे मानप्रभेदे पुन्नपुसंकम् ॥ ८ ॥
31.2.8 · p. 166
अनुष्टुप्metre not read in every line
कर्षो पुमान् करीषाग्नौ स्त्रियां कुल्येष्टिखातयोः ।काक्षी तुवरिकायाञ्च सौराष्ट्रमृद्यपि स्त्रियाम् ॥ ९ ॥
31.2.9 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट्र (wrong syllable)
कोषोऽस्त्री कुद्मले पात्रे दिव्ये खड्गपिधानके ।जातिकोषेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे ॥ १० ॥
31.2.10 · p. 166
अनुष्टुप्
घोष आभीरपल्ल्यां स्याद् गेापालध्वनिघोषके ।कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधौ ॥ ११ ॥
31.2.11 · p. 166
अनुष्टुप्metre not read in every lineimpossible sign sequence: ं स्याद् गेापालध्वnearly अनुष्टुप्
चोक्षो गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः ।झषा नागबलायां स्त्री तापमत्स्याटवीषु ना ॥ १२ ॥
31.2.12 · p. 166
अनुष्टुप्
तर्षो लिप्सोदन्ययोस्त्विट् कान्तौ वाचि रुचौ स्त्रियाम् ।तुषो धान्यत्वगक्षद्रोस्तृषा लिप्सातृषोः स्त्रियाम् ॥ १३ ॥
31.2.13 · p. 166
अनुष्टुप्
तृट् लिप्सायामुदन्यायां स्मरपुत्र्यामपि स्त्रियाम् ।दक्षस्त्रिषु पटौ पुंसि ताम्रचूडे प्रजापतौ ॥ १४ ॥
31.2.14 · p. 166
अनुष्टुप्
मुनिभेदे हरवृषे द्रुमभेदे स्त्रियां भुवि ।दोषः स्याद्दूषणे पापे दोषा रात्रौ भुजेऽपि च ॥ १५ ॥
31.2.15 · p. 166
अनुष्टुप्
ध्वङ्क्षो मत्स्यात् खगे काके तक्षके भिक्षुकेऽपि च ।ध्वाङ्क्षी कक्कोलिकायां स्यान्न्युक्षं कार्त्स्न्ये तृणेऽपि च ॥ १६ ॥
31.2.16 · p. 166
अनुष्टुप्
क्लीबेऽथ पुंसि महिषे निकृष्टे पुनरन्यवत् ।प्लक्षो जटीगर्दभाण्डद्वीपभित्कुञ्जराशने ॥ १७ ॥
31.2.17 · p. 166
अनुष्टुप्
पक्षो मासार्द्धके पार्ष्णिग्रहे साध्यविरोधयोः ।केशादेः परतो वृन्दे बले सखिसहाययोः ॥ १८ ॥
31.2.18 · p. 166
अनुष्टुप्
चुल्लीरन्ध्रे पतत्त्रे च वाजे कुञ्जरपार्श्वयोः ।प्रेक्षा नृत्येक्षणे बुद्धौ प्रैषः क्लेशे च मर्दने ॥ १९ ॥
31.2.19 · p. 166
अनुष्टुप्
उन्मादे प्रेषणे पौषो मासे तत्पूर्णिमातिथौ ।स्त्रियां भिक्षा भृतौ याञ्चासेवाभिक्षितवस्तुषु ॥ २० ॥
31.2.20 · p. 167
अनुष्टुप्
माषो व्रीह्यन्तरे मूर्खे मानत्वग्दोषभेदयोः ।मिषं व्याजे स्पर्द्धने ना मेषो राश्यन्तरे हुडे ॥ २१ ॥
31.2.21 · p. 167
अनुष्टुप्
भैषज्यभिदि मोक्षस्तु मुक्तिपाटलिमोचने ।यक्षो गुह्यकमात्रे च गुह्यकाधीश्वरेऽपि च ॥ २२ ॥
31.2.22 · p. 167
अनुष्टुप्
रक्षा जतुरक्षणयोः रूक्षस्त्वप्रेम्ण्यचिक्कणे ।लक्षा न पुंसि सङ्ख्यायां क्लीबं व्याजशरव्ययोः ॥ २३ ॥
31.2.23 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
वर्षोऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु ।प्रावृट्काले स्त्रियां भूम्नि विट् स्त्री व्यापनविष्ठयोः ॥ २४ ॥
31.2.24 · p. 167
अनुष्टुप्
विषं जलेऽतिविषायां स्त्रियां क्ष्वेडे तु न स्त्रियाम् ।वृषो धर्मे वलीवर्दे शृङ्ग्यां पुंराशिभेदयोः ॥ २५ ॥
31.2.25 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
श्रेष्ठे स्यादुत्तरस्थश्च वासामूषिकशुक्रले ।तथा वास्तुस्थानभेदे पुमानयं प्रकीर्तितः ॥ २६ ॥
31.2.26 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
वृषा मूषिकपर्ण्याञ्च यतीनामासने वृषी ।व्योषं स्यात् त्रिकटुद्रव्ये करिभेदे पुमानयम् ॥ २७ ॥
31.2.27 · p. 167
अनुष्टुप्
शुषिः शोषे बिले स्त्री स्यात् शेषः सङ्कर्षणे वधे ।अनन्ते ना प्रसादे न स्वनिर्माल्यार्पणे स्त्रियाम् ॥ २८ ॥
31.2.28 · p. 167
अनुष्टुप्
उपयुक्तेतरे न स्त्री शोषो यक्ष्मणि शोषणे ।
31.2.28 · p. 167