All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
खान्तवर्गः · खद्विकम्
खद्विकम्
नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुन्नपुंसकम् ।न्युङ्खः सम्यङ् मनोज्ञे च साम्नः षट्प्रणवेषु च ॥ २ ॥
2.2.2 · p. 20
अनुष्टुप्
प्रेङ्खा पर्यटनेऽप्यश्वगतौ संवेशनान्तरे ।मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि ॥ ३ ॥
2.2.3 · p. 20
अनुष्टुप्
सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम् ।लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता ॥ ४ ॥
2.2.4 · p. 20
अनुष्टुप्
रिङ्खाऽश्वगतिभेदेऽपि शूकशिम्ब्यां च नर्तने ।शङ्खः कम्बौ न योषिन्ना भालास्थिनिधिभिन्नखे ॥ ५ ॥
2.2.5 · p. 20
अनुष्टुप्
शाखा पक्षान्तरे बाहौ वेदभागद्रुमाङ्गयोः ।शिखा शाखाबर्हिचूडालाङ्गलिक्यग्रमात्रके ॥ ६ ॥
2.2.6 · p. 20
अनुष्टुप्
चूडामात्रे शिखायां च ज्वालायां प्रपदेऽपि च ।सखा मित्रे सहाये ना वयस्यायां सखी मता ॥ ७ ॥
2.2.7 · p. 20
अनुष्टुप्
सुखं शर्मणि नाके च सुखा पुर्यां प्रचेतसः ।
2.2.7 · p. 20