कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

सान्तवर्गः · सचतुष्कम्

सचतुष्कम्

अधिवासो निवासे स्यात् संस्कारे धूपनादिभिः ॥ ४७ ॥
32.4.47 · p. 173
अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ।अवतंसो न स्त्रियां स्यात् कर्णपूरे च शेखरे ॥ ४८ ॥
32.4.48 · p. 173
अनुष्टुप्
अगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि ।उदर्च्चिरुत्प्रभे वाच्यलिङ्गः पुंसि हुताशने ॥ ४९ ॥
32.4.49 · p. 173
अनुष्टुप्
कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ।कनीयानतियूनि स्यादत्यल्पानुजयोस्त्रिषु ॥ ५० ॥
32.4.50 · p. 173
अनुष्टुप्
कुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि ।भवेद्घनरसः सान्द्रनिर्य्यासे मोरटेऽम्बुनि ॥ ५१ ॥
32.4.51 · p. 173
अनुष्टुप्
कर्पूरे पीलुपर्ण्याञ्च सम्यक् सिद्धरसेऽपि च ।चन्द्रहासो दशग्रीवकरबालेऽसिमात्रके ॥ ५२ ॥
32.4.52 · p. 173
अनुष्टुप्
जटायुस् पुंसि सम्पातेः कनीयसि च गुग्गुलौ ।अथ तामरसं पद्मे ताम्रकाञ्चनयोरपि ॥ ५३ ॥
32.4.53 · p. 173
अनुष्टुप्
त्रिस्रोता जह्नुकनयायां स्रोतस्वत्यन्तरेऽपि च ।दिवोकाश्च दिवौकाश्च पुंसि देवे च चातके ॥ ५४ ॥
32.4.54 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दीर्घायुः शाल्मलीवृक्षे वायसे जीवकद्रुमे ।मार्कण्डेये च पुंसि स्याच्चिरजीविनि वाच्यवत् ॥ ५५ ॥
32.4.55 · p. 174
अनुष्टुप्
नगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि ।निःश्रेयसन्तु कल्याणमोक्षयोः शङ्करे पुमान् ॥ ५६ ॥
32.4.56 · p. 174
अनुष्टुप्
नीलाञ्जसाऽप्सरोभेदे सरिद्भेदे च विद्युति ।प्रचेताः पाशिनि मुनौ ना प्रहृष्टहृदि त्रिषु ॥ ५७ ॥
32.4.57 · p. 174
अनुष्टुप्
पुनर्वसुर्ना मुनिभिद्यजे द्वित्वे तु भान्तरे ।पौर्णमासः पुमान् यज्ञभेदे स्त्री पूर्णिमातिथौ ॥ ५८ ॥
32.4.58 · p. 174
अनुष्टुप्
महारसः स्यात् खर्जुरे कोषकारकशेरुणोः ।मलीमसस्तु मलिने पुष्पकाशीशलोहयोः ॥ ५९ ॥
32.4.59 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ख (wrong syllable)
भवेन्मधुरसा द्राक्षामूर्विकादुग्धिकासु च ।यमस्वसा तु दुर्गायां यमुनायामपि स्त्रियाम् ॥ ६० ॥
32.4.60 · p. 174
अनुष्टुप्
यवीयाननुजेऽपि स्यादतियूनि च वाच्यवत् ।रासेरसस्तु गोष्ट्यां स्याद् रासशृङ्गारयोरपि ॥ ६१ ॥
32.4.61 · p. 174
अनुष्टुप्
रससिद्धौ रसावासे षष्ठीजागरकेऽपि च ।राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ६२ ॥
32.4.62 · p. 174
अनुष्टुप्
वरीयान् योगभिच्छ्रेष्ठवरिष्ठेष्वतियूनि च ।विहायाः शकुनौ पुंसि गगने पुन्नपुंसकम् ॥ ६३ ॥
32.4.63 · p. 174
अनुष्टुप्
विभावसुः पुमान् सूर्य्ये हारभेदे च पावके ।श्वःश्रेयसन्तु कल्याणे परमात्मनि शर्म्मणि ॥ ६४ ॥
32.4.64 · p. 174
अनुष्टुप्
अथ सर्वरसो वाद्यभाण्डभेदे च धूनके ।सप्तार्च्चिः पावके पुंसि क्रूरचक्षुषि तु त्रिषु ॥ ६५ ॥
32.4.65 · p. 174
अनुष्टुप्
साधीयानतिबाढे स्यादतिसाधौ तु वाच्यवत् ।सिद्धरसो रसे पुंसि धातुप्रभृतिषु त्रिषु ॥ ६६ ॥
32.4.66 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः ।सुमेधास्तु स्त्रियां ज्योतिष्मत्यां त्रिषु सुबुद्धिनि ॥ ६७ ॥
32.4.67 · p. 174
अनुष्टुप्