All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
यान्तवर्गः · यचतुष्कम्
यचतुष्कम्
भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः ॥ ११५ ॥
26.4.115 · p. 121
अवश्यायस्तु नीहारेऽप्यभिमानेऽपि पुंस्ययम् ।अथावसायः शेषे स्यात् समाप्तौ निश्चयेऽपि च ॥ ११६ ॥
26.4.116 · p. 121
अनुष्टुप्
अपसव्यं त्रिलिङ्गस्तु दक्षिणप्रतिकूलयोः ।अन्तशय्या मृतौ भूमिशय्यायां पितृकानने ॥ ११७ ॥
26.4.117 · p. 121
अनुष्टुप्
उपकार्य्या राजसद्मन्युपकारोचितेऽन्यवत् ।जलाशयो जलाधारे स्यादुशीरे नपुंसकम् ॥ ११८ ॥
26.4.118 · p. 121
अनुष्टुप्
तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ।तृणशून्यं मल्लिकायां तथा स्यात् केतकीफले ॥ ११९ ॥
26.4.119 · p. 121
अनुष्टुप्
दाक्षिणात्यो नारिकेले त्रिषु दक्षिणदिग्भवे ।धनञ्जयोऽर्जुने वह्निनागभिद्देहमारुते ॥ १२० ॥
26.4.120 · p. 121
अनुष्टुप्
निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजि ।परिधायो जनस्थाने परिच्छेदनितम्बयोः ॥ १२१ ॥
26.4.121 · p. 121
अनुष्टुप्
प्रतिश्रयः सभायाञ्चाश्रये प्रतिभयं भये ।घोरेऽपि पाञ्चजन्यस्तु विष्णुशङ्खे हुताशने ॥ १२२ ॥
26.4.122 · p. 121
अनुष्टुप्
प्रावृषेण्यः पुमान्नीपे प्रावृट्कालभवे त्रिषु ।पौरुषेयः कृते पुंसां विकारे पुरुषस्य च ॥ १२३ ॥
26.4.123 · p. 121
अनुष्टुप्
त्रिषु ना सङ्घवधयोः पुरुषस्य पदान्तरे ।फलोदयः पुमान् लाभे त्रिदिवेशालयेऽपि च ॥ १२४ ॥
26.4.124 · p. 121
अनुष्टुप्
भागधेयं मतं भाग्ये भागप्रत्याययोः पुमान् ।महालयो विहारे स्यात् तीर्थे च परमात्मनि ॥ १२५ ॥
26.4.125 · p. 122
अनुष्टुप्
महोदयः कान्यकुब्जे चाधिपत्यापवर्गयोः ।महामूल्यः पद्मरागे ना महार्घ्येऽन्यलिङ्गकः ॥ १२६ ॥
26.4.126 · p. 122
अनुष्टुप्
मार्जारीयः स्मृतः शूद्रे विडाले कायशोधने ।रौहिणेयोऽन्यवद्वत्से ना बुधे च हलायुधे ॥ १२७ ॥
26.4.127 · p. 122
अनुष्टुप्
बिलेशयस्तु पुंलिङ्गो मूषके च भुजङ्गमे ।वैनतेयस्तु गरुडे स्यात् प्रभाकरसारथौ ॥ १२८ ॥
26.4.128 · p. 122
अनुष्टुप्
सम्परायः समीके स्यादापदुत्तरकालयोः ।समाह्वयस्तु पशुभिः खगैर्द्यूते च सङ्गरे ॥ १२९ ॥
26.4.129 · p. 122
अनुष्टुप्
भवेत् समुदयः सङ्घे सङ्गमे च समुद्गमे ।समुदायः समूहे स्याद् युद्धे समुच्छ्रयः पुमान् ॥ १३० ॥
26.4.130 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
विरोधोत्सेधयोः स्थूलोच्चयोर्गण्डोपलेऽपि च ।गजानां मध्यमगतेऽप्यसाकल्यवरण्डयोः ॥ १३१ ॥
26.4.131 · p. 122
अनुष्टुप्
हिरण्मयः सुरज्येष्ठे ना सुवर्णमये त्रिषु ।
26.4.18 · p. 122