All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
ठान्तवर्गः · ठत्रिकम्
ठत्रिकम्
अपष्ठुः पुंसि काले च वामे स्यादन्यलिङ्गकः ॥ १० ॥
12.3.10 · p. 39
अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च ।अम्बष्ठा चाम्ललोण्यां स्यात् पाठायूथिकयोरपि ॥ ११ ॥
12.3.11 · p. 39
अनुष्टुप्
कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम् ।कनिष्ठोऽतियुवात्यल्पानुजे स्त्री दुबलाङ्गुलौ ॥ १२ ॥
12.3.12 · p. 39
अनुष्टुप्
जरठः कर्कशे पाण्डौ कठिनेऽप्यभिधेयवत् ।नर्मठश्चिबुके षिड्गे प्रतिष्ठा गौरवे क्षितौ ॥ १३ ॥
12.3.13 · p. 39
अनुष्टुप्
स्थाने च यागनिष्पत्तिचतुरक्षरपद्ययोः ।प्रकोष्ठो मणिबन्धस्य कूर्परस्यान्तरेऽपि च ॥ १४ ॥
12.3.14 · p. 39
अनुष्टुप्
भूपकक्षान्तरेऽपि स्याद्वरिष्ठं मरिचेऽपि च ।ताम्रे क्लीबं तित्तिरौ ना वरोरुतमयोस्त्रिषु ॥ १५ ॥
12.3.15 · p. 39
अनुष्टुप्
मकुष्ठो व्रीहिभेदे ना मन्थरे पुनरन्यवत् ।लघिष्ठोऽत्यल्पके भेले वैकुण्ठः कृष्णशक्रयोः ॥ १६ ॥
12.3.16 · p. 39
अनुष्टुप्
श्रीकण्ठो देशभिद्युग्रे साधिष्ठोऽतिदृढार्थयोः ।
12.3.8 · p. 40