कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

खान्तवर्गः · खत्रिकम्

खत्रिकम्

गोमुखं कुटिलागारे वाद्यभाण्डे च लेपने ॥ ८ ॥
2.3.8 · p. 20
पुंसि मातलिपुत्रे च महादेवगणान्तरे ।त्रिशिखो राक्षसे क्लीबं त्रिशूले मण्डलान्तरे ॥ ९ ॥
2.3.9 · p. 20
अनुष्टुप्
दुर्मुखः कपिभिन्नागभिदोर्ना मुखरे त्रिषु ।प्रमुखः प्रथमे श्रेष्ठे मयूखः किरणेऽपि च ॥ १० ॥
2.3.10 · p. 20
अनुष्टुप्
ज्वालायामपि शोभायां विशिखस्तामरे शरे ।विशिखा तु खनित्र्यां च रथ्यानलिकयोरपि ॥ ११ ॥
2.3.11 · p. 20
अनुष्टुप्
विशाखस्तर्कके स्कन्दे स्त्रियामृक्षे कठिल्लके ।वैशाखो मासभेदेऽपि मन्थाने च प्रकीर्तितः ॥ १२ ॥
2.3.12 · p. 20
अनुष्टुप्
सुमुखस्तार्क्ष्यतनयो शाकनागप्रभेदयोः ।
2.3.6 · p. 20