All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
णान्तवर्गः · णद्विकम्
णद्विकम्
अणुर्व्रीहिविशेषे स्यात्पुंसि सूक्ष्मेऽभिधेयवत् ।अणिराणिवदक्षाग्रकीलाश्रिसीमसु द्वयोः ॥ २ ॥
15.2.2 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्रि (wrong syllable)
उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः ।ऊर्णा मेषादिलोम्नि स्यादन्तरावर्तके भ्रुवोः ॥ ३ ॥
15.2.3 · p. 45
अनुष्टुप्
कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि ।क्षणः पर्वोत्सवव्यापारेषु मानेऽप्यनेहसः ॥ ४ ॥
15.2.4 · p. 45
अनुष्टुप्
कणा जीरककुम्भीरमक्षिकापिप्पलीषु च ।कणोऽतिसूक्ष्मे धान्यांशे काणः काकैकचक्षुषोः ॥ ५ ॥
15.2.5 · p. 45
अनुष्टुप्
कीर्णं (१)दत्ते च विक्षिप्ते हिंसितेऽप्यभिधेयवत् ।कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयवत् ॥ ६ ॥
15.2.6 · p. 45
अनुष्टुप्
कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने ।कृष्णा स्याद्द्रौपदीनीलीकणाद्राक्षासु योषिति ॥ ७ ॥
15.2.7 · p. 45
अनुष्टुप्
मेचके वाच्यलिङ्गं स्यात् क्लीबे मरिचलोहयोः ।कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने ॥ ८ ॥
15.2.8 · p. 45
अनुष्टुप्
एकदेशे गृहादीनामश्रौ च लगुडेऽपि च ।गणः प्रमथसंख्यौघे चण्डासैन्यप्रभेदयोः ॥ ९ ॥
15.2.9 · p. 45
अनुष्टुप्
गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये ।त्यागशौर्यादिसत्त्वादिसन्ध्याद्यावृत्तिरज्जुषु ॥ १० ॥
15.2.10 · p. 45
अनुष्टुप्
शुक्लादावपि वट्यां च गेष्णुर्ना गायने नटे ।घ्राणं क्लीबं नासिकायां घ्राते स्याद्वाच्यलिङ्गकम् ॥ ११ ॥
15.2.11 · p. 45
अनुष्टुप्
घृणा जुगुप्साकृपयोरथ चूर्णी कपर्दके ।चूर्णो धूलौ क्षारभेदे चूर्णानिवासयुक्तिषु ॥ १२ ॥
15.2.12 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
जर्णश्चन्द्रे च वृक्षे च जिष्णुर्ना वासवेऽर्जुने ।जित्वरे वाच्यवज्जीर्णं परिपक्वपुराणयोः ॥ १३ ॥
15.2.13 · p. 45
अनुष्टुप्
झणिः क्रमुकभेदेऽपि दुष्टदैवश्रुतौ स्त्रियाम् ।त्राणं तु त्रायमाणायां रक्षणे रक्षिते त्रिषु ॥ १४ ॥
15.2.14 · p. 46
अनुष्टुप्
तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके ।क्लीबं, यवाग्रजे पुंसि तिग्मात्मत्यागिनोः त्रिषु ॥ १५ ॥
15.2.15 · p. 46
अनुष्टुप्
तूणी नील्यां निषङ्गे ना तृष्णा स्यात्तर्षलिप्सयोः ।दीर्णं विदारिते भीते द्रुणं चापेऽलिनि द्रुणः ॥ १६ ॥
15.2.16 · p. 46
अनुष्टुप्
द्रुण्यम्बुद्रोणीकच्छप्योर्देष्णुर्दातरि दुर्गमे ।द्रोणोऽस्त्रियामाढके स्यादाढवापचतुष्टये ॥ १७ ॥
15.2.17 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 णी (wrong syllable)
पुमान् कृपीपतौ दग्धकाके स्त्री नीवृदन्तरे ।तथा काष्ठाम्बुवाहिन्यां गवादन्यामपीष्यते ॥ १८ ॥
15.2.18 · p. 46
अनुष्टुप्
पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे ।क्रय्यशाकाट्टिकाद्यूतव्यवहारे भृतौ धने ॥ १९ ॥
15.2.19 · p. 46
अनुष्टुप्
पर्णं पत्रे किंशुके ना पार्ष्णिः स्यादुन्मदस्त्रियाम् ।स्त्रियां द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च ॥ २० ॥
15.2.20 · p. 46
अनुष्टुप्
प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले ।पुंलिङ्गः पूरिते वाच्यलिङ्गः पुम्भूम्नि चासुषु ॥ २१ ॥
15.2.21 · p. 46
अनुष्टुप्
पूर्णः शक्ते समग्रे ना पूरिते त्वभिधेयवत् ।फाणिर्गुडे करम्बे च स्त्रियां बाणी तु योषिति ॥ २२ ॥
15.2.22 · p. 46
अनुष्टुप्
व्यूतावपि सरस्वत्यां भ्रूणः स्त्रीगर्भडिम्भयोः ।मणिः स्त्रीपुंसयोरश्मजातौ मुक्तादिकेऽपि च ॥ २३ ॥
15.2.23 · p. 46
अनुष्टुप्
कण्ठदेशस्तनेऽजायलिङ्गाग्रेऽलिञ्जरेऽपि च ।मोणः शुष्कफले नक्रे मक्षिकाऽहिकरण्डयोः ॥ २४ ॥
15.2.24 · p. 46
अनुष्टुप्
रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम् ।रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः ॥ २५ ॥
15.2.25 · p. 46
अनुष्टुप्
वर्णो द्विजादिशुक्लादियशोगुणकथासु च ।स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने ॥ २६ ॥
15.2.26 · p. 46
अनुष्टुप्
बाणः स्याद्गोस्तने दैत्यभेदे केवलकाण्डयोः ।बाणा तु बाणमूले स्त्री नीलझिण्ट्यां पुनर्द्वयोः ॥ २७ ॥
15.2.27 · p. 46
अनुष्टुप्
वीणा विद्युति वल्लक्यां वृष्णिः पाखण्डचन्द्रयोः ।त्रिषु ना यादवे मेषे वेणी केशस्य बन्धने ॥ २८ ॥
15.2.28 · p. 47
अनुष्टुप्
नद्यादेरन्तरे देवताले(१) वेणुर्नुपान्तरे ।त्वक्सारेऽपि च पुंसि स्याच्छाणो मासचतुष्टये ॥ २९ ॥
15.2.29 · p. 47
अनुष्टुप्
लोहादीनां च निकषे शाणी प्रावरणान्तरे ।श्राणं पक्वे यवाग्वां स्त्री शीर्णं तनुविशीर्णयोः ॥ ३० ॥
15.2.30 · p. 47
अनुष्टुप्
श्रेणिः स्त्रीपुंसयोः पङ्क्तौ समानशिल्पिसंहतौ ।शोणः कृशानौ श्योनाके लोहिताश्वे नदे पुमान् ॥ ३१ ॥
15.2.31 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
त्रिषु काकनदच्छाये स्थाणुः कीले हरे पुमान् ।अस्त्री ध्रुवेऽथ स्थूणा स्यात् सूर्म्यां स्तम्भे गृहस्य च ॥ ३२ ॥
15.2.32 · p. 47
अनुष्टुप्