All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
शान्तवर्गः · शत्रिकम्
शत्रिकम्
आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि ॥ १६ ॥
30.3.16 · p. 163
उड्डीशो ग्रन्थभेदे स्यादुड्डीशश्चन्द्रिकापतौ ।उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ॥ १७ ॥
30.3.17 · p. 163
अनुष्टुप्
कपिशस्त्रिषु श्यावे स्त्री माधव्यां सिह्वके पुमान् ।कर्कशः काशमर्द्देक्षुकाम्पिल्येष्वप्यसौ पुमान् ॥ १८ ॥
30.3.18 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षु (wrong syllable)
त्रिषु साहसिके क्रूरे दृढामसृणनिर्द्दये ।कीनाशः कर्षकक्षुद्रोपांशुघातिषु वाच्यवत् ॥ १९ ॥
30.3.19 · p. 163
अनुष्टुप्
यमे ना कुलिशो न स्त्री दम्भोलौ ना झषान्तरे ।गिरिशोऽद्रिपतौ वाचस्पतिशङ्करयोः पुमान् ॥ २० ॥
30.3.20 · p. 164
अनुष्टुप्
तुङ्गीशस्तु पुमान् गौरीवल्लभे हिमदीधितौ ।दुःस्पर्शो धन्वयासे ना कण्टकार्य्यां स्त्रियां त्रिषु ।खरस्पर्शेऽथ निस्त्रिंशः खण्डे ना निर्द्दये त्रिषु ॥ २१ ॥
30.3.21 · p. 164
अनुष्टुप्
निर्वेशस्तु पुमान् भोगे वेतने मूर्च्छनेऽपि च ।निवेशः पुंसि विन्यासे शिबिरोद्वाहयोरपि ॥ २२ ॥
30.3.22 · p. 164
अनुष्टुप्
निदेशः शासनेऽपि स्यात् कथनोपान्तयोरपि ।नीकाशो निश्चये तुल्ये पलाशं छदने मतम् ॥ २३ ॥
30.3.23 · p. 164
अनुष्टुप्
शटीकिंशुकरक्षःसु पुंसि स्याद्धरिते त्रिषु ।प्रकाशस्तु स्फुटे ख्याते प्रहासातपयोरपि ॥ २४ ॥
30.3.24 · p. 164
अनुष्टुप्
प्रदेशो देशमात्रे स्यात् तर्जन्यङ्गुष्ठसम्मिते ।भित्तावपि च पिङ्गाशी नीलिकायां नपुंसकम् ॥ २५ ॥
30.3.25 · p. 164
अनुष्टुप्
जात्यस्वर्णे पुमान् पल्लीपतौ मत्स्यान्तरेऽपि च ।वालिशश्च शिशौ मूर्खे भूकेशः शैवले वटे ॥ २६ ॥
30.3.26 · p. 164
अनुष्टुप्
भूकेश्यवल्गुजेऽपि स्यात् लोमशो मुनिमेषयोः ।लोमान्विते स्त्रियां काकजङ्घामांसीवचासु च ॥ २७ ॥
30.3.27 · p. 164
अनुष्टुप्
शूकशिम्बामहामेदाकाशीशे शाकिनीभिदि ।विवशस्त्रिष्ववश्यात्मारिष्टदुष्टधियोरपि ॥ २८ ॥
30.3.28 · p. 164
अनुष्टुप्
विकाशः पुंसि विजने प्रकाशे सदृशं समे ।उचिते चाथ संवेशः स्वापस्त्रीरतबन्धयोः ॥ २९ ॥
30.3.29 · p. 164
अनुष्टुप्
सुखाशो वरुणे राजतिनिशे सुखभोजने ।हताशो निर्द्दये चाशारहिते पिशुनेऽपि च ॥ ३० ॥
30.3.30 · p. 164
अनुष्टुप्