कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

अव्ययानि · रद्विकम्

रद्विकम्

अरेऽपाकृत्यसूययोः ॥ ६५ ॥
34.46.65 · p. 184
उर्य्यूरी चाप्युभौ शब्दौ विस्तारेऽङ्गीकृतावपि ।दुर्निषेधे च कष्टे च निर्निर्णयनिषेधयोः ॥ ६६ ॥
34.46.66 · p. 184
अनुष्टुप्
परि स्यात् सर्वतोभावे वर्जने व्याधिशेषयोः ।इत्थम्भूताख्यानभागवीप्सालिङ्गनलक्षणे ॥ ६७ ॥
34.46.67 · p. 184
अनुष्टुप्
दोषाख्याने निरसने पूजाव्याप्त्योश्च भूषणे ।परा विमोक्षप्राधान्यप्रातिलोम्येषु धर्षणे ॥ ६८ ॥
34.46.68 · p. 184
अनुष्टुप्
आभिमुख्ये भृशार्थे च विक्रमे च गतौ वधे ।पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ ६९ ॥
34.46.69 · p. 184
अनुष्टुप्
स्वः प्रेत्य व्योम्नि नाके चापि-
34.46.6 · p. 184