All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
दान्तवर्गः · दद्विकम्
दद्विकम्
अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान् ।अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च ॥ २ ॥
18.2.2 · p. 74
अनुष्टुप्
कन्दोऽस्त्री सूरणे शस्यमूले जलधरे पुमान् ।कुन्दो माघ्येऽस्त्री मुकुन्दभ्रमिनिद्ध्यन्तरेषु ना ॥ ३ ॥
18.2.3 · p. 74
अनुष्टुप्
क्षोदः स्यात्पुंसि रजसि पेषणे च प्रकीर्तितः ।गदो भ्रातरि विष्णोः स्यादामये ना युधे गदा ॥ ४ ॥
18.2.4 · p. 74
अनुष्टुप्
छदः पलाशे गरुति ग्रन्थिपर्णतमालयोः ।छन्दो वशेऽप्यभिप्राये धीदा पुत्रीमनीषयोः ॥ ५ ॥
18.2.5 · p. 74
अनुष्टुप्
नन्दिर्द्यूताङ्ग आनन्देऽस्त्री नन्दिकेश्वरे पुमान् ।नदी सरिति शोणादौ ना नन्दा स्यादलिञ्जरे ॥ ६ ॥
18.2.6 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दि (wrong syllable)
गौर्यां तिथिविशेषे स्त्री निधिराजभिदोः पुमान् ।निन्दा स्यादपवादेऽपि कुत्सायामपि योषिति ॥ ७ ॥
18.2.7 · p. 75
अनुष्टुप्
पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः ।पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ ८ ॥
18.2.8 · p. 75
अनुष्टुप्
श्लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे पुनः ।पादो ब्रध्ने तुरीयांशे शैलप्रत्यन्तपर्वते ॥ ९ ॥
18.2.9 · p. 75
अनुष्टुप्
चरणे च मयूखे च वन्दा लतान्तरे स्मृता ।भिक्षुक्यामपि वन्द्यां च विन्दुर्दन्तक्षतान्तरे ॥ १० ॥
18.2.10 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
भ्रुवोर्मध्ये रूपकार्यप्रकृतौ पृषते पुमान् ।वेदितर्यन्यलिङ्गः स्यात् भद्रं कल्याणशर्मणोः ॥ ११ ॥
18.2.11 · p. 75
अनुष्टुप्
भेदा द्वैधे विशेषे स्यादुपजापे विदारणे ।मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः ॥ १२ ॥
18.2.12 · p. 75
अनुष्टुप्
मन्दोऽतीक्ष्णे च मूर्खे च स्वैरे चाभाग्यरोगिणोः ।अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ ॥ १३ ॥
18.2.13 · p. 75
अनुष्टुप्
मृदुः स्यात्कोमलेऽतीक्ष्णे रदो दन्ते विलेखने ।विदा ज्ञाने च निर्दिष्टा मनीषायां च योषिति ॥ १४ ॥
18.2.14 · p. 75
अनुष्टुप्
वेदः श्रुतौ च वृत्ते च वेदिः स्यात्पण्डिते पुमान् ।स्त्रियामङ्गुलिमुद्रायां स्यात्परिष्कृतभूतले ॥ १५ ॥
18.2.15 · p. 75
अनुष्टुप्
शादः स्यात्कर्दमे शष्पे स्वादुर्मिष्टमनोज्ञयोः ।सूदस्तु कथितः सूपकारे च व्यञ्जनान्तरे ॥ १६ ॥
18.2.16 · p. 75
अनुष्टुप्
स्वेदस्तु स्वेदने घर्मे हृत् क्लीबं बुक्कचित्तयोः ।
18.2.16 · p. 75