All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
हान्तवर्गः · हचतुष्कम्
हचतुष्कम्
अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके ॥ २६ ॥
33.4.26 · p. 177
अभिग्रहोऽभिग्रहणेऽभियोगेऽपि च गौरवे ।अवरोहोऽवतरणेऽप्यारोहे च लतोद्गमे ॥ २७ ॥
33.4.27 · p. 177
अनुष्टुप्
अश्वारोहाऽश्वगन्धायां स्त्रियां त्रिष्वश्ववाहके ।उपनाहो व्रणालेपपिण्डे वीणानिबन्धने ॥ २८ ॥
33.4.28 · p. 177
अनुष्टुप्
उपग्रहः पुमान् वन्द्यामुपयागेऽनुकूलने ।स्याद्गन्धवहा नासायां पुंलिङ्गो मातरिश्वनि ॥ २९ ॥
33.4.29 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हा (wrong syllable)
तनूरुहन्तु लोम्नि स्यात् पतत्रे च नपुंसकम् ।तमोऽपहः सहस्रांशुमृगाङ्कजिनवह्निषु ॥ ३० ॥
33.4.30 · p. 177
अनुष्टुप्
प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ।द्विजेभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे ॥ ३१ ॥
33.4.31 · p. 177
अनुष्टुप्
परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः ।शापे परिवर्हो राजयोग्यद्रव्ये परिच्छदे ॥ ३२ ॥
33.4.32 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
परीवाहो जलोच्छ्वासे महीभृद्योग्यवस्तुनि ।पितामहो विरिञ्चौ स्यात् तातस्य जनकेऽपि च ॥ ३३ ॥
33.4.33 · p. 177
अनुष्टुप्
महासहा मासपर्ण्यामम्लानेऽपि च योषिति ।
33.4.9 · p. 177