All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
ठान्तवर्गः · ठचतुष्कम्
ठचतुष्कम्
कलकण्ठः कलध्वाने हंसे पारावते पिके ॥ १७ ॥
12.4.17 · p. 40
कालकण्ठश्च दात्यूहे कलविङ्के च खञ्जने ।मयूरे पीतसारे च स्यात् खण्डपरशौ पुमान् ॥ १८ ॥
12.4.18 · p. 40
अनुष्टुप्
कालपृष्ठं कर्णचापे पुंसि कङ्कविहङ्गमे ।स्याद्दन्तशठो जम्बीरे कपित्थे कर्मरङ्गके ॥ १९ ॥
12.4.19 · p. 40
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ठो (wrong syllable)
नागरङ्गेऽपि च पुमान् स्याच्चाङ्गेर्यां तु योषिति ।पूतिकाष्ठं च सरलदेवदारुमहीरुहोः ॥ २० ॥
12.4.20 · p. 40
अनुष्टुप्
सूत्रकण्ठः पुमान् विप्रे खञ्जरीटकपोतयोः ।हारिकण्ठः पिके पुंसि हारान्वितगले त्रिषु ॥ २१ ॥
12.4.21 · p. 40
अनुष्टुप्