All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
खान्तवर्गः · खचतुष्कम्
खचतुष्कम्
भवेदग्निमुखा देवे विप्रे भल्लातके स्त्रियाम् ॥ १३ ॥
2.4.13 · p. 20
अथाग्निशिखमुद्दिष्टं कुसुम्भे कुङ्कुमेऽपि च ।लाङ्गलिक्याख्यौषधौ च विशल्यायां च योषिति ॥ १४ ॥
2.4.14 · p. 21
अनुष्टुप्
इन्दुलेखाऽमृतासोमलताशशिकलासु च ।अथ बद्धशिखा स्त्री स्यादुच्चटायां शिशौ त्रिषु ॥ १५ ॥
2.4.15 · p. 21
अनुष्टुप्
महाशङ्खो मानुषास्थिसङ्ख्याभेदालिकेषु च ।भवेद्व्याघ्रनखं कन्दगन्धद्रव्यविशेषयोः ॥ १६ ॥
2.4.16 · p. 21
अनुष्टुप्
नखक्षतान्तरे क्लीबं शिलीमुखोऽलिकाण्डयोः ।शशिलेखा कलाभागे गुडूचीवृत्तभेदयोः ॥ १७ ॥
2.4.17 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
भवेत् स्वस्तिमुखो लेखे ब्राह्मणे वन्दिनि त्रिषु ।
2.4.6 · p. 21