All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
गान्तवर्गः · गत्रिकम्
गत्रिकम्
अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ॥ २७ ॥
3.3.27 · p. 23
अनङ्गे मदनेऽनङ्गमाकाशमनसोरपि ।अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च ॥ २८ ॥
3.3.28 · p. 23
अनुष्टुप्
आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि ।आयोगो व्यापृतौ गन्धमाल्योपहाररोधयोः ॥ २९ ॥
3.3.29 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
आशुगो मारुते बाणेऽप्युद्वेगं क्रमुकीफले ।उद्वेगोऽप्युद्बाहुलकोद्वेजनोद्गमनेषु च ॥ ३० ॥
3.3.30 · p. 24
अनुष्टुप्
उत्सर्गः पुंसि सामान्ये न्याये च त्यागदानयोः ।कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति ॥ ३१ ॥
3.3.31 · p. 24
अनुष्टुप्
न द्वयोः कौटजफले महिलायां तु योषिति ।कालिङ्गो भूमिकर्कारौ दन्तावलभुजङ्गयोः ॥ ३२ ॥
3.3.32 · p. 24
अनुष्टुप्
कालिङ्गी राजकर्कट्यां चक्राङ्गो मानसौकसि ।चक्राङ्गी कटुरोहिण्यां जिह्मगोऽहौ च मन्दगे ॥ ३३ ॥
3.3.33 · p. 24
अनुष्टुप्
तडागोऽस्त्री जलाधारविशेषे यन्त्रकूटके ।तातगुः क्षुद्रताते ना जनकस्य हिते त्रिषु ॥ ३४ ॥
3.3.34 · p. 24
अनुष्टुप्
त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके ।वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते ॥ ३५ ॥
3.3.35 · p. 24
अनुष्टुप्
तुरगी चाश्वगन्धायां तुरगश्चित्तवाजिनोः ।धाराङ्गोऽसौ च तीर्थे च नरङ्गस्तु वरण्डके ॥ ३६ ॥
3.3.36 · p. 24
अनुष्टुप्
मेहने न द्वयोश्चाथ नारङ्गः पिप्पलीरसे ।यमजप्राणिनि विटे नागरङ्गद्रुमेऽपि च ॥ ३७ ॥
3.3.37 · p. 24
अनुष्टुप्
निषङ्गः सङ्गते तूणे निसर्गो रूपसर्गयोः ।नीलङ्गुः स्यात्कृमौ पुंसि भम्भराल्यां तु योषिति ॥ ३८ ॥
3.3.38 · p. 24
अनुष्टुप्
पत्राङ्गं न द्वयोर्भूर्जे पद्मके रक्तचन्दने ।पन्नगश्चौषधीभेदे तथैव पवनाशने ॥ ३९ ॥
3.3.39 · p. 24
अनुष्टुप्
प्लवगो वानरे भेके सारथौ चोष्णदीधितेः ।परागः सुमनोरेणौ धूलिस्नानीययोरपि ॥ ४० ॥
3.3.40 · p. 24
अनुष्टुप्
गिरिप्रभेदे विख्यातावुपरागे च चन्दने ।प्रयागस्तीर्थभेदे स्याद्यज्ञे शतमखाश्वयोः ॥ ४१ ॥
3.3.41 · p. 24
अनुष्टुप्
प्रयोगः कार्मणेऽपि स्यात् प्रयुक्तौ च निदर्शने ।पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः ॥ ४२ ॥
3.3.42 · p. 24
अनुष्टुप्
क्लीबं सूते प्रियङ्गुः स्त्री राजिकाकणयोरपि ।फलिन्यां कङ्गुसस्ये च पुन्नागस्तु सितात्पले ॥ ४३ ॥
3.3.43 · p. 24
अनुष्टुप्
जातीफले नरश्रेष्ठे पाण्डुनागे द्रुमान्तरे ।वराङ्गं योनिमातङ्गमस्तकेषु गुडत्वचि ॥ ४४ ॥
3.3.44 · p. 25
अनुष्टुप्
भुजङ्गोऽहौ च षिड्गे च मातङ्गः श्वपचे गजे ।मृदङ्गः पटहे घोषे रक्ताङ्गस्तु महीसुते ॥ ४५ ॥
3.3.45 · p. 25
अनुष्टुप्
कम्पिल्ले स्त्री तु जीवन्त्यां क्लीबं विद्रुमधीरयोः ।रथाङ्गं न द्वयोश्चक्रे ना चक्राङ्गविहङ्गमे ॥ ४६ ॥
3.3.46 · p. 25
अनुष्टुप्
वातिगः पुंसि भण्टाक्यां धातुवादिनि चान्यवत् ।विडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिघ्ने पुन्नपुंसकम् ॥ ४७ ॥
3.3.47 · p. 25
अनुष्टुप्
विसर्गस्तु पुमान् दाने त्यागे च मलनिर्गमे ।विसर्जनीयेऽप्ययनभेदेऽपि च विभावसोः ॥ ४८ ॥
3.3.48 · p. 25
अनुष्टुप्
विहङ्गतु त्रिलिङ्गः स्यादाशुगे च विहङ्गमे ।सर्वगं सलिले क्लीबं सर्वगः शङ्करे विभौ ॥ ४९ ॥
3.3.49 · p. 25
अनुष्टुप्
सम्भोगस्तु पुमान् भोगे सुरते जिनशासने ।सारङ्गः पुंसि हरिणे चातके च मतङ्गजे ॥ ५० ॥
3.3.50 · p. 25
अनुष्टुप्
शबले त्रिषु हेमाङ्गो गरुडे परमेष्ठिनि ।
3.3.25 · p. 25