All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
तान्तवर्गः · तपञ्चकम्
तपञ्चकम्
अवलोकितो ना लोकनाथे त्रिषु निरीक्षिते ॥ २३० ॥
16.5.230 · p. 71
अपराजित ईशाजेष्ट्यन्तरे नाऽजिते त्रिषु ।गिरिकर्णीजयादुर्गाशनपर्णीषु योषिति ॥ २३१ ॥
16.5.231 · p. 71
अनुष्टुप्
उपधूपित आसङ्गमरणे परिधूपिते ।स्याद्गणाधिपतिः पुंसि शङ्करेऽपि गजानने ॥ २३२ ॥
16.5.232 · p. 71
अनुष्टुप्
भवेत् पिपतिषन् पित्सौ त्रिषु पुंसि विहङ्गमे ।पृथिवीपतिस्तु भूपे ऋषभाख्यौषधौ पुमान् ॥ २३३ ॥
16.5.233 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
मूर्धाभिषिक्तो भूपाले मन्त्रिणि क्षत्रियेऽपि च ।यादसाम्पतिरम्भोधौ पश्चिमाशापतावपि ॥ २३४ ॥
16.5.234 · p. 71
अनुष्टुप्
वसन्तदूतश्चैत्रे स्यात् पिकपञ्चमरागयोः ।वसन्तदूती पाटल्यामभियुक्ते च योषिति ॥ २३५ ॥
16.5.235 · p. 71
अनुष्टुप्