All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
थान्तवर्गः · थद्विकम्
थद्विकम्
अर्थो विषयार्थनयोर्धनकारणवस्तुषु ।अभिधेये च शब्दानां निवृत्तौ च प्रयोजने ॥ २ ॥
17.2.2 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष (wrong syllable)
आस्था त्वालम्बनास्थानयत्नापेक्षासु योषिति ।कन्था मृण्मयभित्तौ च तथा प्रावरणान्तरे ॥ ३ ॥
17.2.3 · p. 72
अनुष्टुप्
क्वथः स्यादतिदुःखेऽपि निष्पाकेऽपि द्रवस्य च ।कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषि ॥ ४ ॥
17.2.4 · p. 72
अनुष्टुप्
कोथो ना नेत्ररोगस्य भेदे च शठिते त्रिषु ।ग्रन्थो ग्रन्थनाधनयोः स्याच्छास्त्राक्षरसंख्ययोः ॥ ५ ॥
17.2.5 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्थ (wrong syllable)
ग्रन्थिस्तु ग्रन्थिपर्णे ना बन्धे रुग्भेदपर्वणोः ।गाथा श्लोके संस्कृतान्यभाषायां गेयवृत्तयोः ॥ ६ ॥
17.2.6 · p. 72
अनुष्टुप्
तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजःसु च ।अवतारर्षिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु ॥ ७ ॥
17.2.7 · p. 72
अनुष्टुप्
तुत्थमञ्जनभेदे स्यान्नीलसूक्ष्मैलयोस्त्रियाम् ।दुःस्थः स्याद्दुर्गते मूर्खे दुःखेन तिष्ठति त्रिषु ॥ ८ ॥
17.2.8 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
प्रस्थोऽस्त्रियां मानभेदे सानावुन्मितवस्तुनि ।पाथोऽर्केऽग्नौ जले क्लीबं पृथुः स्यान्महति त्रिषु ॥ ९ ॥
17.2.9 · p. 72
अनुष्टुप्
त्वक्पर्ण्यां कृष्णजीरे स्त्री पुमानग्नौ नृपान्तरे ।प्राथोऽस्त्री हयघोणायां नाकट्यामध्वगे त्रिषु ॥ १० ॥
17.2.10 · p. 72
अनुष्टुप्
मन्थः स्यात्पुंसि मन्थाने साक्तवे च दिवाकरे ।यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदे च योषिति ॥ ११ ॥
17.2.11 · p. 72
अनुष्टुप्
रथः पुमानवयवे स्यन्दने वेतसेऽपि च ।वीथी पङ्क्तौ गृहाङ्गे च रूपकान्तरवर्त्मनोः ॥ १२ ॥
17.2.12 · p. 72
अनुष्टुप्
संस्थश्चरेऽवस्थिते स्त्री स्थितौ सादृश्यनाशयोः ।सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके ॥ १३ ॥
17.2.13 · p. 72
अनुष्टुप्
सिक्यो भक्तपुलाके ना मधूच्छिष्टे नपुंसकम् ।
17.2.13 · p. 73