All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
हान्तवर्गः · हत्रिकम्
हत्रिकम्
अत्यूहा नीलिकायां स्त्री कालकण्ठखगे पुमान् ।आग्रहोऽनुग्रहासक्त्योराक्रमे ग्रहणेऽपि च ॥ १३ ॥
33.3.13 · p. 176
अनुष्टुप्
आरोहस्त्ववरोहे च वरारोहाकटावपि ।आरोहणे गजारोहे दीर्घत्वे च समुच्छ्रये ॥ १४ ॥
33.3.14 · p. 176
अनुष्टुप्
उत्साहस्तूद्यमे सूत्रे कटाहः कूर्मकर्परे ।द्वीपस्य च प्रभेदे स्यात् तैलादेः पाकभाजने ॥ १५ ॥
33.3.15 · p. 176
अनुष्टुप्
जायमानविषाणाग्रमहिषीशावकेऽपि च ।कलहं युधि वाटे नां खड्गकोषे च भण्डने ॥ १६ ॥
33.3.16 · p. 176
अनुष्टुप्
दात्यूहस्तु पुमान् कालकण्टचातकपक्षिणोः ।निग्रहो भर्त्सनेऽपि स्यान् मर्य्यादायाञ्च बन्धने ॥ १७ ॥
33.3.17 · p. 176
अनुष्टुप्
निर्य्यूहः शिखरे द्वारे निर्य्यासे नागदन्तके ।निरूहो बस्तिभेदे स्यादूहशून्ये च निश्चिते ॥ १८ ॥
33.3.18 · p. 176
अनुष्टुप्
प्रग्राहस्तु तूलासूत्रे वृषादिप्रग्रहेऽपि च ।पटहो ना समारम्भे आनके पुन्नपुंसकम् ॥ १९ ॥
33.3.19 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
प्रवहस्तु वहिर्यात्रमातरिश्वप्रभेदयोः ।प्रग्रहस्तु तूलासूत्रे वन्द्यां नियमने भुजे ॥ २० ॥
33.3.20 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
हयादिरश्मौ रश्मौ च सुवर्णालुमहीरुहे ।प्रवाहस्तु प्रवृत्तौ स्यादपि स्रोतसि वारिणः ॥ २१ ॥
33.3.21 · p. 176
अनुष्टुप्
वराहः शूकरे विष्णौ मानभेदेऽद्रिमुस्तयोः ।वाराही मातृभेदे स्याद् विश्वक्सेनप्रियौषधा ॥ २२ ॥
33.3.22 · p. 176
अनुष्टुप्
राजार्हजोङ्गके क्लीबं राजयोग्येऽभिधेयवत् ।विग्रहः कायविस्तारविभागे ना रणेऽस्त्रियाम् ॥ २३ ॥
33.3.23 · p. 176
अनुष्टुप्
विदेहः कायशून्ये स्याज्जनकान्वयभूमिपे ।वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च ॥ २४ ॥
33.3.24 · p. 177
अनुष्टुप्
सङ्ग्रहो बृहत्युत्तुङ्गे ग्रहसङ्क्षेपयोरपि ।सुवहा शल्लक्येलापर्णीगोधापदीषु वीणायाम् ॥ २५ ॥
33.3.25 · p. 177
metre not recognised
रास्नाशेफालिकयोः स्त्री सुखवाह्येऽन्यलिङ्गः स्यात् ।
33.3.14 · p. 177