कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

बान्तवर्गः · बत्रिकम्

बत्रिकम्

कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान् ।कलम्बी शाकभेदे स्यात् कदम्बशरयोः पुमान् ॥ ९ ॥
23.3.9 · p. 105
अनुष्टुप्
कादम्बः स्यात् पुमान् पक्षिविशेषे सायकेऽपि च ।गजाह्वा गजपिप्पल्यां गजाह्वं हस्तिनापुरे ॥ १० ॥
23.3.10 · p. 105
अनुष्टुप्
गन्धर्वः पशुभेदे स्यात् पुंस्कोकिलतुरङ्गयोः ।अन्तराभवसत्त्वे च गायने खेचरेऽपि च ॥ ११ ॥
23.3.11 · p. 105
अनुष्टुप्
गोडुम्बः शीर्णवृन्ते गवादन्यान्तु योषिति ।द्विजिह्वस्तु खले सर्पे नितम्बः स्कन्धरोधसोः ॥ १२ ॥
23.3.12 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्त्रियाः पश्चात् कटावद्रेः कटके कटिमात्रके ।प्रलम्बो दैत्यभेदे स्यात् त्रपुषेऽपि पयोधरे ॥ १३ ॥
23.3.13 · p. 105
अनुष्टुप्
लताङ्कुरे च शाखायां हारभेदे प्रलम्बने ।भूजम्बूरपि गोधूमे विकङ्कतफले स्त्रियाम् ॥ १४ ॥
23.3.14 · p. 105
अनुष्टुप्
हेरम्बो विघ्नराजे स्यान्महिषे शौर्य्यगर्विते ।
23.3.7 · p. 105