कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

णान्तवर्गः · णपञ्चकम्

णपञ्चकम्

अवग्रहणमित्येतत् प्रतिरोधेऽप्यनादरे ॥ ११२ ॥
15.5.112 · p. 53
अवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्चने ।प्रविदारणमाख्यातं सम्परायेऽवदारणे ॥ ११३ ॥
15.5.113 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
परिभाषणं सनिन्दोपालम्भे नियमेऽपि च ।उक्तो मत्तवारणस्तु प्रक्लिन्नकटकुञ्जरे ॥ ११४ ॥
15.5.114 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ष (wrong syllable); pāda 3, syllable 4 त्त (wrong syllable)
क्लीबं प्रासादवीथीनां कुन्दवृक्षवृतावपि ।मण्डूकपर्णी मञ्जिष्ठाब्राह्मण्योर्ना तु शोणके ॥ ११५ ॥
15.5.115 · p. 53
अनुष्टुप्
रोम(१)हर्षणं रोमाञ्चे ना सूते च बिभीतके ।वातरायण उन्मत्ते निष्प्रयोजनपूरुषे ॥ ११६ ॥
15.5.116 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
काण्डे च करपत्रे च कूटे च परसङ्क्रमे ।
15.5.6 · p. 53