All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
चान्तवर्गः · चद्विकम्
चद्विकम्
अर्चा पूजाप्रतिमयोः कचः केशे गुरोः सुते ॥ १ ॥
6.2.1 · p. 27
बन्धे शुष्कव्रणे पुंसि करिण्यां तु कचा स्त्रियाम् ।काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे ॥ २ ॥
6.2.2 · p. 27
अनुष्टुप्
काञ्चा स्यान्मेखलादाम्नि प्रभेदे नगरस्य च ।कूर्चमस्त्री भ्रुवोर्मध्ये कठिनश्मश्रुकैतवे ॥ ३ ॥
6.2.3 · p. 27
अनुष्टुप्
क्रौञ्चो द्वीपविशेषे स्यात् पक्षिपर्वतभेदयोः ।चर्चा चिन्तास्थासकयोश्चर्चिकायां तु योषिति ॥ ४ ॥
6.2.4 · p. 27
अनुष्टुप्
चञ्चा तु नलनिर्माणे तृणनिर्मितपूरुषे ।चञ्चुस्त्रोट्यां स्त्रियां पुंसि गोनाडीके व्यडम्बके ॥ ५ ॥
6.2.5 · p. 27
अनुष्टुप्
त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः ।न्यङ् नीचनि(१)म्नयोर्नीचः पामरे वामनेऽपि च ॥ ६ ॥
6.2.6 · p. 27
अनुष्टुप्
प्राच्छब्दो दिशि देशे च काले च वाच्यलिङ्गकः ।पिचुर्ना कुष्ठभेदे च कर्षे तूलेऽसुरान्तरे ॥ ७ ॥
6.2.7 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः ।रुचिः स्त्री दीप्तौ शोभायामभिष्वङ्गाभिलाषयोः ॥ ८ ॥
6.2.8 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्तौ (wrong syllable)
रुक् स्त्री शोभाद्युतीच्छासु वचः कीरे वचौषधौ ।शारिकायां च वाग्वाचे भारत्यां वचने स्त्रियौ ॥ ९ ॥
6.2.9 · p. 28
अनुष्टुप्
वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखे द्वयोः ।शचीन्द्राण्यां शतावर्यां तथा स्त्रीकरणान्तरे ॥ १० ॥
6.2.10 · p. 28
अनुष्टुप्
शुचिर्ग्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि ।ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु ॥ ११ ॥
6.2.11 · p. 28
अनुष्टुप्
सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे ।
6.2.12 · p. 28