All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
रान्तवर्गः · रचतुष्कम्
रचतुष्कम्
अरुष्करो व्रणकृति त्रिषु भल्लातके पुमान् ॥ २४० ॥
27.4.240 · p. 140
भवेदभिमरो युद्धे वधे स्वबलसाध्वसे ।अनुत्तरं त्रिषु श्रेष्ठे प्रतिजल्पविवर्जिते ॥ २४१ ॥
27.4.241 · p. 140
अनुष्टुप्
अलङ्कारस्तु हारादावुपमादावलङ्कृतौ ।अवहारः पुमान् चौरे द्यूतयुद्धादिविश्रमे ॥ २४२ ॥
27.4.242 · p. 140
अनुष्टुप्
निमन्त्रणोपनेतव्यद्रव्ये ग्राहाक्षयादसि ।अवतारोऽवतरणे पुष्करिण्यादितीर्थयोः ॥ २४३ ॥
27.4.243 · p. 140
अनुष्टुप्
अवस्कारोऽपि वर्चस्के गुह्येऽथावसरः पुमान् ।प्रस्तावे मन्त्रभेदे च वर्षणे चापि कीर्त्तितः ॥ २४४ ॥
27.4.244 · p. 140
अनुष्टुप्
उपलादावकूपारः कूर्मराजे महोदधौ ।असिपत्रः खड्गकोषे पुमानिक्षौ च नारके ॥ २४५ ॥
27.4.245 · p. 140
अनुष्टुप्
भवेदश्वतरो वेगसरे नागान्तरेऽपि च ।अभिहारोऽभियोगे च चौर्य्ये सन्नहनेऽपि च ॥ २४६ ॥
27.4.246 · p. 140
अनुष्टुप्
अग्निहोत्रोऽग्निहविषोरर्द्धचन्द्रोचन्द्रो नखक्षते ।गलहस्ते बाणभेदे कृष्णत्रिवृति तु स्त्रियाम् ॥ २४७ ॥
27.4.247 · p. 140
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 हवि (syllable split)
आडम्बरस्तूर्य्यपक्ष्मसंरम्भे गजगर्जिते ।आत्मवीरः प्राणवति श्यालके च विदूषके ॥ २४८ ॥
27.4.248 · p. 140
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 प्रा (wrong syllable)
इन्दीवरं कुवलये शतावर्य्यान्तु योषिति ।उदुम्बरस्तु देहल्यां वृक्षभेदे च षण्डके ॥ २४९ ॥
27.4.249 · p. 140
अनुष्टुप्
कुष्ठभेदेऽपि च पुमान् ताम्रे तु स्यान्नपुंसकम् ।उपह्वरं समीपे स्यादेकान्ते च नपुंसकम् ॥ २५० ॥
27.4.250 · p. 140
अनुष्टुप्
उद्दन्तुरस्त्रिषूत्तुङ्गे करालोत्कटदण्डयोः ।उपकारश्चोपकृतौ विकीर्णकुसुमादिषु ॥ २५१ ॥
27.4.251 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चो (wrong syllable)
औदुम्बरः श्राद्धदेवे रोगभेदे नपुंसकम् ।अथ कर्मकरो भृत्ये वेतनाजीविनि त्रिषु ॥ २५२ ॥
27.4.252 · p. 140
अनुष्टुप्
कीनाशे पुंसि मूर्वायां बिम्बिकायामपि स्त्रियाम् ।कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥ २५३ ॥
27.4.253 · p. 141
अनुष्टुप्
कर्णिकारः पुमानारग्वधद्रौ च द्रुमोत्पले ।कर्णपूरः शिरीषे स्यान्नीलोत्पलावतंसयोः ॥ २५४ ॥
27.4.254 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्प (wrong syllable)
करवीरः कृपाणे स्याद् दैत्यभेदाश्वमारयोः ।करवीर्य्यदितिश्रेष्ठगवीपुत्रवतीषु च ॥ २५५ ॥
27.4.255 · p. 141
अनुष्टुप्
कटम्भरा प्रसारण्यां रोहिण्यां गजयोषिति ।कलविङ्कायां गोलायां वर्षाभूमूर्वयोरपि ॥ २५६ ॥
27.4.256 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
कादम्बरस्तु दध्यग्रे मद्यभेदे नपुंसकम् ।स्त्री वारुणीपरभृताभारतीशारिकासु च ॥ २५७ ॥
27.4.257 · p. 141
अनुष्टुप्
कालञ्जरो योगिचक्रमेलके भैरवे गिरौ ।कुम्भकारी कुलत्थ्याञ्च पुंलिङ्गो घटकारके ॥ २५८ ॥
27.4.258 · p. 141
अनुष्टुप्
कृष्णसारा शिंशपायां पुंसि स्नुह्यां मृगान्तरे ।गिरिसारः पुमान् लोहे वङ्गे मलयपर्वते ॥ २५९ ॥
27.4.259 · p. 141
अनुष्टुप्
घनसारस्तु कर्पूरे दक्षिणावर्त्तपारदे ।चराचरं वाच्यलिङ्गमिङ्गे जगति न द्वयोः ॥ २६० ॥
27.4.260 · p. 141
अनुष्टुप्
चर्मकारः पादुकृति स्त्रियां चर्मकषौषधौ ।अथ चक्रधरोऽजेऽहौ ना त्रिषु ग्रामजालिनि ॥ २६१ ॥
27.4.261 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
चित्रटीरो विधौ भालमङ्कितं येन तत्र च ।घण्टाकर्णोपहाराय हतच्छागास्रबिन्दुभिः ॥ २६२ ॥
27.4.262 · p. 141
अनुष्टुप्
तालपत्रन्तु ताडङ्के रण्डायां तालपत्र्यपि ।तुङ्गभद्रा नदीभेदे स्त्रियां पुंसि मदोत्कटे ॥ २६३ ॥
27.4.263 · p. 141
अनुष्टुप्
तुण्डिकेरी तु कार्पास्यां बिम्बिकायामपि स्त्रियाम् ।तुलाधारस्तुलाराशौ पुंसि वाणिजके त्रिषु ॥ २६४ ॥
27.4.264 · p. 141
अनुष्टुप्
अथ तोयधरो मुस्तासुनिषण्णौषधीघने ।दण्डयात्रा दिग्विजये संयानवरयात्रयोः ॥ २६५ ॥
27.4.265 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
अथो दशपुरं देशे प्लवेऽपि स्यान्नपुंसकम् ।दण्डधरः पुमान् पृथ्वीनाथे प्रेताधिपेऽपि च ॥ २६६ ॥
27.4.266 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
दिगम्बरः स्यात् क्षपणे नग्ने तमसि शङ्करे ।दुरोदरं द्यूतभेदे कृतकृत्पणयोः पुमान् ॥ २६७ ॥
27.4.267 · p. 142
अनुष्टुप्
देहयात्रा यमपुरीगमने भोजनेऽपि च ।द्वैमातुरो जरासन्धवारणाननयोः पुमान् ॥ २६८ ॥
27.4.268 · p. 142
अनुष्टुप्
धराधरो हरौ शैले धाराधरोऽसिमेघयोः ।धाराङ्कुरस्तु नासीरे शीकरेऽपि घनोपले ॥ २६९ ॥
27.4.269 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
धार्त्तराष्ट्रोऽसितास्याङ्घ्रिहंसे कौरवसर्पयोः ।धुन्धुमारः शक्रगोपे गृहधूमे पदालिके ॥ २७० ॥
27.4.270 · p. 142
अनुष्टुप्
धुरन्धरो धवद्रौ ना वाच्यलिङ्गस्तु धूर्वहे ।धृतराष्ट्रः सुराज्ञि स्यान्नागक्षत्रियभेदयोः ॥ २७१ ॥
27.4.271 · p. 142
अनुष्टुप्
धृतराष्ट्री हंसपत्न्यां नभश्चरो विहङ्गमे ।विद्याधरो घने वाते निशाचरस्तु रक्षसि ॥ २७२ ॥
27.4.272 · p. 142
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
फेरुपेचकसर्पेषु पांशुलायां निशाचरी ।निषद्वरस्तु जम्बाले निशायान्तु निषद्वरी ॥ २७३ ॥
27.4.273 · p. 142
अनुष्टुप्
नीलाम्बरः प्रलम्बघ्ने कौणपे च शनैश्चरे ।भवेत् परिकरः सङ्घे पर्य्यङ्कपरिवारयोः ॥ २७४ ॥
27.4.274 · p. 142
अनुष्टुप्
प्रगाढगात्रिकाबन्धे समारम्भविवेकयोः ।अथ पक्षचरश्चन्द्रे पृथक्चारिगजेऽपि च ॥ २७५ ॥
27.4.275 · p. 142
अनुष्टुप्
भवेत् प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे ।व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डने ॥ २७६ ॥
27.4.276 · p. 142
अनुष्टुप्
आरक्षे करसूत्रे च नियेाज्ये त्वन्यलिङ्गकः ।भवेत् परिसरो मृत्यौ विधावपि च पुंस्ययम् ॥ २७७ ॥
27.4.277 · p. 142
अनुष्टुप्metre not read in every lineimpossible sign sequence: त्रे च नियेाज्ये तnearly अनुष्टुप्
परम्परो मृगभेदे प्रपौत्रे तनयस्य च ।परम्परा परिपाट्यां हिंसासन्तानयोरपि ॥ २७८ ॥
27.4.278 · p. 142
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable); pāda 3, syllable 6 रि (wrong syllable)
पयोधरः कोषिकारे नारिकेले स्तनेऽपि च ।कशेरुमेघयोः पुंसि प्रभाकराऽग्निसूर्य्ययोः ॥ २७९ ॥
27.4.279 · p. 142
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायान्तु योषिति ।परिवारः परिजने खड्गकोषे परिच्छदे ॥ २८० ॥
27.4.280 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
पारावारः समुद्रे ना तटद्वये नपुंसकम् ।पात्रटीरस्तु पुंलिङ्गो युक्तव्यापारमन्त्रिणि ॥ २८१ ॥
27.4.281 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्व (wrong syllable)
लोहकांस्यरजतपात्रे सिंहाणे पावकेऽपि च ।पारिभद्रस्तु मन्दारे निम्बद्रौ देवदारुणि ॥ २८२ ॥
27.4.282 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 जत (syllable split)
पूर्णपात्रं वस्तुपूर्णपात्रे वर्द्धापकेऽपि च ।बलभद्रा त्रायमाणाकुमार्य्योः पुंसि सीरिणि ॥ २८४ ॥
27.4.284 · p. 143
अनुष्टुप्
ब्रह्मपुत्रः क्षेत्रभेदे नदभेदे च पुंस्ययम् ।वक्रनक्रस्तु पिशुने तथैव शुकपक्षिणि ॥ २८५ ॥
27.4.285 · p. 143
अनुष्टुप्
वार्वटीरो रङ्ग आम्रास्थ्न्यङ्कुरे गणिकासुते ।वारकीरस्तु पुंसि स्याद् भारग्राहिणि वाडवे ॥ २८६ ॥
27.4.286 · p. 143
अनुष्टुप्
यूकायां वेणिवेधन्यां नीराजितहयेऽपि च ।बिन्दुतन्त्रः पुमान् शारिफलके च तुरङ्गके ॥ २८७ ॥
27.4.287 · p. 143
अनुष्टुप्
वीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे च वीरणे ।स्याद्वीरतरं वीरणे वीरश्रेष्ठे शरे च ना ॥ २८८ ॥
27.4.288 · p. 143
अनुष्टुप्metre not read in every line
महावीरस्तु गरुडे शूरे सिंहे मखानले ।वज्रे श्वेततुरङ्गे च सञ्चानविहगेऽपि च ॥ २८९ ॥
27.4.289 · p. 143
अनुष्टुप्
महामात्रः समृद्धे चामात्ये हस्तिपकाधिपे ।मणिच्छिद्रा तु मेदायामृषभाख्यौषधेऽपि च ॥ २९० ॥
27.4.290 · p. 143
अनुष्टुप्
महेश्वरो महादेवे कथितोऽधीश्वरेऽपि च ।मृगनेत्रा रात्रिभेदे विशेषे योषितस्तथा ॥ २९१ ॥
27.4.291 · p. 143
अनुष्टुप्
रथकारस्तु माहिष्यात् करणीजे च तक्षणि ।रागसूत्रं तुलासूत्रे पट्टसूत्रे नपुंसकम् ॥ २९२ ॥
27.4.292 · p. 143
अनुष्टुप्
लम्बोदरः स्यादुद्धाने गणानामधिपेऽपि च ।लक्ष्मीपुत्रस्तु पुंलिङ्गः कामदेवे तुरङ्गमे ॥ २९३ ॥
27.4.293 · p. 143
अनुष्टुप्
व्यवहारो द्रुभेदे स्यान्न्यायेऽपि च पणे स्थितौ ।अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः ॥ २९४ ॥
27.4.294 · p. 143
अनुष्टुप्
वातपुत्रो महाधूर्त्ते भीमसेने हनूमति ।विश्वम्भरोऽच्युते शक्रे पुंसि विश्वम्भरा भुवि ॥ २९५ ॥
27.4.295 · p. 144
अनुष्टुप्
विश्वकद्रस्त्रिषु खले ध्वानाखेटशुनोः पुमान् ।विभावरी निशारात्र्योः कुट्टन्यां वक्रयोषिति ॥ २९६ ॥
27.4.296 · p. 144
अनुष्टुप्
विवादवस्त्रगुण्ठ्याञ्च विभाकरोऽग्निसूर्य्ययोः ।वीतिहोत्रोऽनलेऽर्के च शतपत्रः शिखण्डिनि ॥ २९७ ॥
27.4.297 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
दार्वाघाटे सारसे च कमले तु नपुंसकम् ।शतावरी तु शुण्ट्यां स्यादिन्दीवर्य्यामपि स्त्रियाम् ॥ २९८ ॥
27.4.298 · p. 144
अनुष्टुप्
शिशुमारोऽम्बुसम्भूतजन्तौ तारात्मकाच्युते ।भवेत्सहचरो झिण्ट्यां द्वयोरनुचरे त्रिषु ॥ २९९ ॥
27.4.299 · p. 144
अनुष्टुप्
समुद्रारुः पुमान् ग्राहे सेतुबन्धे तिमिङ्गिले ।सम्प्रहारो गतौ युद्धे खिरदंष्ट्रो भुजङ्गमे ॥ ३०० ॥
27.4.300 · p. 144
अनुष्टुप्
वराहाकृतिविष्णौ च सुकुमारो मृदौ त्रिषु ।पुंसि पुण्ड्राभिधानेक्षौ सूत्रधारः शचीपतौ ॥ ३०१ ॥
27.4.301 · p. 144
अनुष्टुप्
नान्द्यनन्तरसञ्चारिपात्रशिल्पिप्रभेदयोः ।
27.4.63 · p. 144