कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

भान्तवर्गः · भद्विकम्

भद्विकम्

कुम्भो राश्यन्तरे हस्तिमूर्द्धांशे राक्षसान्तरे ।कामुके वारनार्य्याञ्च घटे क्लीबन्तु गुग्गुलौ ॥ २ ॥
24.2.2 · p. 106
अनुष्टुप्
स्त्रियामुखाकट्फलयोः पृश्निकायाञ्च पाटलौ ।गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥ ३ ॥
24.2.3 · p. 106
अनुष्टुप्
जम्भो दैत्यविशेषे ना दन्ते जम्बीरभक्ष्ययोः ।जृम्भा विकाशजृम्भणयोस्त्रिषु डिम्भोऽपि बालिशे बाले ॥ ४ ॥
24.2.4 · p. 106
अनुष्टुप्metre not read in every line
दम्भस्तु कैतके कल्के दृन्भूः स्त्री सर्पचक्रयोः ।नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् ॥ ५ ॥
24.2.5 · p. 106
अनुष्टुप्
द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामदे ।निभस्तु कथितो व्याजे पुंलिङ्गः सदृशे त्रिषु ॥ ६ ॥
24.2.6 · p. 106
अनुष्टुप्
रम्भा कदल्यप्सरसोर्ना वेणौ बानरान्तरे ।विभुः प्रभौ सर्वगते शङ्करब्रह्मणोस्तु ना ॥ ७ ॥
24.2.7 · p. 106
अनुष्टुप्
शम्भुः पुंसि महादेवे परमेष्ठिनि चाऽर्हति ।शुभो योगे शुभं क्षेमे वाच्यवत् क्षेमशालिनि ॥ ८ ॥
24.2.8 · p. 106
अनुष्टुप्
खसञ्चारिपुरे स्त्री तु शोभा कान्तीच्छयोर्मता ।सभा सामाजिके गोष्ठ्यां द्यूतमन्दिरयोरपि ॥ ९ ॥
24.2.9 · p. 106
अनुष्टुप्
स्वभूर्ना ब्रह्मणि हरौ स्तम्भः स्थूणाजडत्वयोः ।
24.2.9 · p. 106