All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
बान्तवर्गः · बद्विकम्
बद्विकम्
कम्बुः शङ्खेऽस्त्रियां पुंसि शम्बूके बलये गजे ।कम्बिरंशे च वंशस्य खजाकायामपि स्त्रियाम् ॥ २ ॥
23.2.2 · p. 104
अनुष्टुप्
क्लीबं स्यात् पण्डके न स्त्री वाच्यलिङ्गस्त्वविक्रमे ।खर्बं सङ्ख्यन्तरे क्लीबं नाचे वामनके त्रिषु ॥ ३ ॥
23.2.3 · p. 104
अनुष्टुप्
गर्वोऽभिमानेऽवलेपे जम्बुः स्यात् पादपान्तरे ।तथा सुमेरुसरिति द्वीपभेदेऽपि च स्त्रियाम् ॥ ४ ॥
23.2.4 · p. 105
अनुष्टुप्
डिम्बो भयध्वनावण्डे फुप्फुसप्लीहविप्लवे ।दर्बिः स्त्रियां खजाकायां फणायामुरगस्य च ॥ ५ ॥
23.2.5 · p. 105
अनुष्टुप्
पूर्वे तु पूर्वजेषु स्युः पूर्वः प्रागाद्ययोस्त्रिषु ।लम्बा पद्मालयागौर्य्योस्तिक्ततुम्ब्यामपि स्त्रियाम् ॥ ६ ॥
23.2.6 · p. 105
अनुष्टुप्
बिम्बस्तु प्रतिबिम्बे स्यन्मण्डले पुन्नपुंसकम् ।विम्बिकायाः फले क्लीबं कृकलासे पुनः पुमान् ॥ ७ ॥
23.2.7 · p. 105
अनुष्टुप्
शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पवौ ।शुभान्विते त्रिषु स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः ॥ ८ ॥
23.2.8 · p. 105
अनुष्टुप्