कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

दान्तवर्गः · दचतुष्कम्

दचतुष्कम्

अभिष्यन्दोऽतिवृद्धौ स्यादास्रावेऽक्षिगदेऽपि च ॥ ४३ ॥
18.4.43 · p. 77
अष्टापदोऽस्त्री कनके शारीणां फलकेऽपि च ।अष्टापदी चन्द्रमल्ल्यां शरभे मर्कटे पुमान् ॥ ४४ ॥
18.4.44 · p. 77
अनुष्टुप्
अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि ।अभिमर्दस्तु पुंसि स्यादवमर्दे सम्पराये च ॥ ४५ ॥
18.4.45 · p. 77
अनुष्टुप्metre not read in every line
एकपदं तत्काले नपुंसकं वर्त्मनि स्त्री स्यात् ।कटुकन्दः पुमान् शिग्रौ शृङ्गवेररसोनयोः ॥ ४६ ॥
18.4.46 · p. 77
अनुष्टुप्metre not read in every line
कुरुविन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान् ।अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे ॥ ४७ ॥
18.4.47 · p. 77
अनुष्टुप्
चतुष्पदी तु पद्ये ना पशौ च करणान्तरे ।भवेज्जनपदो जानपदोऽपि जनदेशयोः ॥ ४८ ॥
18.4.48 · p. 78
अनुष्टुप्
तमोनुदग्नीन्द्वर्के ना प्रतिपत् स्त्री तिथौ मतौ ।परिवादोऽपवादे स्याद्वीणावादनवस्तुनि ॥ ४९ ॥
18.4.49 · p. 78
अनुष्टुप्
प्रियंवदः खेचरे ना प्रियवाचि तु वाच्यवत् ।पीठमर्दोऽतिधृष्टे स्यान्नायकस्य प्रियेऽपि च ॥ ५० ॥
18.4.50 · p. 78
अनुष्टुप्
पुटभेदो नदीवक्रपतनातोद्ययोरपि ।महानादः कुञ्जरे स्याद् वर्षुकाब्दे महास्वने ॥ ५१ ॥
18.4.51 · p. 78
अनुष्टुप्
मुचुकुन्दो वृक्षभेदे मान्धातृतनयेऽपि च ।मेघनादस्तु वरुणे तनये रावणस्य च ॥ ५२ ॥
18.4.52 · p. 78
अनुष्टुप्
विशारदः पण्डिते च धृष्टे विष्णुपदं तु खे ।क्षीरोदे च स्त्रियां गङ्गारविसङ्क्रान्तिभेदयोः ॥ ५३ ॥
18.4.53 · p. 78
अनुष्टुप्
शशबिन्दुः पुमान्वासुदेवे राजान्तरेऽपि च ।शतानन्दो मुनेर्भेदे देवकीनन्दनेऽपि च ॥ ५४ ॥
18.4.54 · p. 78
अनुष्टुप्
शतह्रदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता ।समर्यादः समीपे ना मर्यादासहिते त्रिषु ॥ ५५ ॥
18.4.55 · p. 78
अनुष्टुप्