All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
मान्तवर्गः · मद्विकम्
मद्विकम्
आमो रुक्तद्भिदोः पुंसि स्यादपक्वेऽन्यलिङ्गकः ।उमाऽतसीहैमवतीहरिद्राकीर्त्तिकान्तिषु ॥ २ ॥
25.2.2 · p. 108
अनुष्टुप्
ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः ।वस्त्रसङ्कोचरेखायां वेदनापीडयोरपि ॥ ३ ॥
25.2.3 · p. 108
अनुष्टुप्
क्रमश्चानुक्रमे शक्तौ कल्पे चाक्रमणेऽपि च ।क्षमा भूमौ तितिक्षायां स्त्रियां युक्ते नपुंसकम् ॥ ४ ॥
25.2.4 · p. 108
अनुष्टुप्
वाच्यवत् शक्तहितयोः कामः स्मरेच्छयोः पुमान् ।रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम् ॥ ५ ॥
25.2.5 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्म (wrong syllable)
कामिर्ना कामुके रत्यां स्त्री किम् क्षेपवितर्कयोः ।निन्दायाञ्च परिप्रश्ने वाच्यलिङ्गमुदाहृतम् ॥ ६ ॥
25.2.6 · p. 108
अनुष्टुप्
कृमिर्ना कृमिवत्कीटे लाक्षायां कृमिले खरे ।किर्मी पलाशे शालायां हेमपुत्र्याञ्च योषिति ॥ ७ ॥
25.2.7 · p. 108
अनुष्टुप्
क्षुमाऽतसीनीलिकयोः क्षेमं स्याल्लब्धरक्षणे ।चण्डायां ना शुभे न स्त्री कात्यायन्याञ्च योषिति ॥ ८ ॥
25.2.8 · p. 108
अनुष्टुप्
क्षौममट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके ।शणजेऽतसीजे खर्मं पौरुषे कोषजांशुके ॥ ९ ॥
25.2.9 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सी (wrong syllable)
गमो नाऽक्षविवर्त्ते स्यादपर्य्यालोचनेऽध्वनि ।ग्रामः स्वरे संवसथे ग्रीष्म ऊष्मर्त्तभेदयोः ॥ १० ॥
25.2.10 · p. 108
अनुष्टुप्
गुल्मः सेनाघट्टभिदोः सैन्यरक्षणरुग्भिदोः ।स्तम्बे स्त्रियामामलक्येलावनीवस्त्रवेश्मसु ॥ ११ ॥
25.2.11 · p. 109
अनुष्टुप्
घर्मः स्यादातपे ग्रीष्मेऽप्यूष्मस्वेदाम्भसोरपि ।चमूः सेनाविशेषे च सेनामात्रे च योषिति ॥ १२ ॥
25.2.12 · p. 109
अनुष्टुप्
जाल्मः स्यात् पामरे क्रूरेऽसमीक्ष्यकारिणि त्रिषु ।जिह्मस्तु कुटिले मन्दे क्लीबं तगरपादपे ॥ १३ ॥
25.2.13 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष्य (wrong syllable)
तोक्मं कर्णमले पुंसि हरिते च हरिद्यवे ।दमस्तु दमथे दण्डे कर्दमे दमने पुमान् ॥ १४ ॥
25.2.14 · p. 109
अनुष्टुप्
दस्मस्तु यजमाने स्यादपि चौरे हुताशने ।द्रुमो महीरुहे पारिजाते किम्पुरुषेश्वरे ॥ १५ ॥
25.2.15 · p. 109
अनुष्टुप्
धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः क्रतौ ।अहिंसोपनिषन्न्याये ना धनुर्यमसोमपे ॥ १६ ॥
25.2.16 · p. 109
अनुष्टुप्
ध्यामं दमनके गन्धतृष्णेऽथ श्यामले त्रिषु ।नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम् ॥ १७ ॥
25.2.17 · p. 109
अनुष्टुप्
नेमः कीलेऽवधौ गर्त्ते प्राकारे कैतवेऽपि च ।पद्मोऽस्त्री पद्मके व्यूहनिधिसङ्ख्यान्तरेऽम्बुजे ॥ १८ ॥
25.2.18 · p. 109
अनुष्टुप्
ना नागे स्त्री फञ्जिकाश्रीचारटीपन्नगेषु च ।ब्रह्मी तु फञ्जिकायां स्यात् शाकमत्स्यप्रभेदयोः ॥ १९ ॥
25.2.19 · p. 109
अनुष्टुप्
ब्राह्मी तु भारतीसोमवल्लरीब्रह्मशक्तिषु ।भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि ॥ २० ॥
25.2.20 · p. 109
अनुष्टुप्
भामः क्रोधे रवौ दीप्तौ भीष्मो गाङ्गेयघोरयोः ।भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे ॥ २१ ॥
25.2.21 · p. 109
अनुष्टुप्
भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम् ।भौमः कुजे च नरके पुंसि भूमिभवे त्रिषु ॥ २२ ॥
25.2.22 · p. 109
अनुष्टुप्
यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ ।शरीरसाधनापेक्षनित्यकर्मणि संयमे ॥ २३ ॥
25.2.23 · p. 109
अनुष्टुप्
यामस्तु पुंसि प्रहरे संयमे च प्रकीर्त्तितः ।यामिः कुलस्त्रीस्वस्रोः स्त्री युध्मो धनुषि संयुगे ॥ २४ ॥
25.2.24 · p. 109
अनुष्टुप्
रश्मिः पुमान् दीधितौ स्यात् पक्ष्मप्रग्रहयोरपि ।रमा लक्ष्म्यां रमः कान्ते रक्ताशोकद्रुमे स्मरे ॥ २५ ॥
25.2.25 · p. 110
अनुष्टुप्
रामा योषाहिङ्गुनद्योः क्लीबं वास्तूककुष्ठयोः ।ना राघवे च वरुणे रैणुकेये हलायुधे ॥ २६ ॥
25.2.26 · p. 110
अनुष्टुप्
हये च पशुभेदे च त्रिषु चारौ सितेऽसिते ।रुमा सुग्रीवदारेषु विशिष्टलवणाकरे ॥ २७ ॥
25.2.27 · p. 110
अनुष्टुप्
रुक्मञ्च काञ्चने लोहे लक्ष्मीः सम्पत्तिशोभयोः ।ऋद्धौषधे च पद्मायां वृद्धिनामौषधेऽपि च ॥ २८ ॥
25.2.28 · p. 110
अनुष्टुप्
फलिन्यां स्त्री वमिर्वान्तौ स्त्रियां पुंसि हुताशने ।वामं धने पंसि हरे कामदेवे पयोधरे ॥ २९ ॥
25.2.29 · p. 110
अनुष्टुप्
वल्गुप्रतीपसव्येषु त्रिषु नार्य्यां स्त्रियामथ ।वामी शृगालीवडवारासभीकरभीषु च ॥ ३० ॥
25.2.30 · p. 110
अनुष्टुप्
शमी शक्तुफलायाञ्च शिम्बिकायाञ्च वाग्गुलौ ।श्यामो वटे प्रयागस्य वारिदे वृद्धदारके ॥ ३१ ॥
25.2.31 · p. 110
अनुष्टुप्
पिके च कृष्णहरितोः पुंसि स्यात् तद्वति त्रिषु ।मरीचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ ॥ ३२ ॥
25.2.32 · p. 110
अनुष्टुप्
अप्रसूताङ्गनायाञ्च प्रियङ्गावपि बागुजौ ।यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ ॥ ३३ ॥
25.2.33 · p. 110
अनुष्टुप्
नीलिकायामथ श्रामी मासे मण्डपकालयोः ।शुष्मं तेजसि सूर्य्ये ना समा संवत्सरे स्त्रियाम् ॥ ३४ ॥
25.2.34 · p. 110
अनुष्टुप्
सर्वसाधुसमानेषु समं स्यादभिधेयवत् ।सीमाऽऽघाटस्थितिक्षेत्रेऽष्वण्डकोषेऽपि च स्त्रियाम् ॥ ३५ ॥
25.2.35 · p. 110
अनुष्टुप्
सूक्ष्मं स्यात् कैतवेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके ।सूमं क्षीरे च नभसि सोमस्तु हिमदीधितौ ॥ ३६ ॥
25.2.36 · p. 110
अनुष्टुप्
वानरे च कुबेरे च पितृदेवे समीरणे ।वसुप्रभेदे कर्पूरे नीरे सोमलतौषधौ ॥ ३७ ॥
25.2.37 · p. 110
अनुष्टुप्
हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् ।शीतले वाच्यलिङ्गोऽथ होमिर्ना पावके घृते ॥ ३८ ॥
25.2.38 · p. 110
अनुष्टुप्