All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
अव्ययानि · हद्विकम्
हद्विकम्
अह प्रशंसाक्षिपयोर्नियोगे च विनिग्रहे ।अहो धिगर्थे शाके च करुणार्थविषादयोः ॥ ८९ ॥
34.58.89 · p. 186
अनुष्टुप्
सम्बोधने प्रशंसायां विस्मये पदपूरणे ।असूयायां वितर्के स्यादाह क्षेपनियोगयोः ॥ ९० ॥
34.58.90 · p. 186
अनुष्टुप्
आहो प्रश्ने वितर्के च सह साकल्य इष्यते ।विद्यमाने च सादृश्ययौगपद्यसमृद्धिषु ॥ ९१ ॥
34.58.91 · p. 186
अनुष्टुप्
सम्बन्धे च तथा हीहीशब्दो विस्मयहास्ययोः ।हेहै सम्बोधने हूतौ होहौशब्दौ तथैतयोः ॥ ९२ ॥
34.58.92 · p. 186
अनुष्टुप्