कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

रान्तवर्गः · रद्विकम्

अरं शीघ्रे च चक्राङ्गे शीघ्रगे पुनरन्यवत् ।अग्रं पुरस्तादुपरि परिमाणे पलस्य च ॥ ३ ॥
27.2.3 · p. 123
अनुष्टुप्
आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् ।अधिके च प्रधाने च प्रथमे चाभिधेयवत् ॥ ४ ॥
27.2.4 · p. 123
अनुष्टुप्
अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते ।अस्त्रं प्रहरणे चापे करबाले नपुंसकम् ॥ ५ ॥
27.2.5 · p. 123
अनुष्टुप्
अभ्रं मेघे च गगने धातुभेदे च काञ्चने ।अद्रिः शैलद्रुमार्के नाथाङ्घ्रिर्ना पादमूलयोः ॥ ६ ॥
27.2.6 · p. 123
अनुष्टुप्
आरा चर्मप्रभेदिन्यां पुंसि भौमे शनैश्चरे ।आर्द्रा नक्षत्रभेदे स्यात् स्त्रियां क्लिन्नेऽभिधेयवत् ॥ ७ ॥
27.2.7 · p. 123
अनुष्टुप्
आरुः पुंसि तरोर्भेदे तथा कर्कटदंष्ट्रिणोः ।इन्द्रः शक्रादित्यभेदे योगभेदान्तरात्मनि ॥ ८ ॥
27.2.8 · p. 123
अनुष्टुप्
इन्द्रा फणिञ्झके स्त्री स्यादिरा भूवाक्सुराम्बुषु ।उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिषूत्कटे ॥ ९ ॥
27.2.9 · p. 123
अनुष्टुप्
स्त्री वचाक्षुद्रयोरुष्ट्री कर्कर्य्यां करभे पुमान् ।उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः ॥ १० ॥
27.2.10 · p. 123
अनुष्टुप्
ऐन्द्रिः काके जयन्ते नाऽथौड्राः पुंभूम्नि नीवृति ।ओड्रस्तु तरुभेदे स्यात् क्षरं नीरे क्षरोऽम्बुदे ॥ ११ ॥
27.2.11 · p. 123
अनुष्टुप्
करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः ।कद्रुस्त्रिषु स्वर्णपिङ्गे नागानां मातरि स्त्रियाम् ॥ १२ ॥
27.2.12 · p. 123
अनुष्टुप्
करो वधे निश्चये च वलौ यत्ने यतावपि ।तुषारशैलेऽपि पुमान् स्त्रियां दूत्यां प्रसेवके ॥ १३ ॥
27.2.13 · p. 123
अनुष्टुप्
सुवर्णकारिकायाञ्च बन्धनागारबन्धयोः ।क्षारो रसान्तरे धूर्त्ते लवणे काचभस्मनोः ॥ १४ ॥
27.2.14 · p. 123
अनुष्टुप्
कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि ।कारुर्विश्वकर्मणि ना त्रिषु कारकशिल्पिनोः ॥ १५ ॥
27.2.15 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्व (wrong syllable)
क्षीरं दुग्धे जले कीरः शुके पुंभूम्नि नीवृति ।कुरुर्नृपान्तरे भक्ते पुमान् पुंभूम्नि नीवृति ॥ १६ ॥
27.2.16 · p. 124
अनुष्टुप्
क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् ।क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च ॥ १७ ॥
27.2.17 · p. 124
अनुष्टुप्
चाङ्गेरीवेश्ययोर्हिंस्रामक्षिकामात्रयोरपि ।क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ॥ १८ ॥
27.2.18 · p. 124
अनुष्टुप्
क्रूरस्तु कठिने घोरे नृशंसेऽप्यभिधेयवत् ।कृच्छ्रमाख्यातमाभीले पापसान्तपनादिनोः ॥ १९ ॥
27.2.19 · p. 124
अनुष्टुप्
क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः ।क्रोष्ट्री शृगालिकाकृष्णविदारीलाङ्गलीषु च ॥ २० ॥
27.2.20 · p. 124
अनुष्टुप्
क्षौद्रं मधुनि पानीये खरः स्यात्तीक्ष्णधर्मयोः ।गर्दभे स्त्री देवताडे खरुर्दर्पे हरे हये ॥ २१ ॥
27.2.21 · p. 124
अनुष्टुप्
दन्ते पुंसि त्रिषु श्वेते खुरः कोलदले शफे ।गरी खरायां करणे क्लीबं नोपविषे विषे ॥ २२ ॥
27.2.22 · p. 124
अनुष्टुप्
गात्रं गजाग्रजङ्घादिभागेऽप्यङ्गे कलेवरे ।गीः स्त्री भाषासरस्वत्योर्गिरिर्ना नेत्ररुग्भिदि ॥ २३ ॥
27.2.23 · p. 124
अनुष्टुप्
अद्रौ गिरियके योषिद् गीर्णौ पूज्ये पुनस्त्रिषु ।गुन्द्रस्तेजनके स्त्री तु प्रियङ्गौ भद्रमुस्तके ॥ २४ ॥
27.2.24 · p. 124
अनुष्टुप्
गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि ।पुमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि ॥ २५ ॥
27.2.25 · p. 124
अनुष्टुप्
गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके ।गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः ॥ २६ ॥
27.2.26 · p. 124
अनुष्टुप्
सम्भावनीयबोधे च काननच्छत्रवर्त्मसु ।गौरः श्वेतेऽरुणे पीते विशुद्धे चाभिधेयवत् ॥ २७ ॥
27.2.27 · p. 124
अनुष्टुप्
ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेशरे ।गौरी त्वसञ्जातरजःकन्याशङ्करभार्य्ययोः ॥ २८ ॥
27.2.28 · p. 124
अनुष्टुप्
रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च ।आपगाया विशेषे च यादसांपतियोषिति ॥ २९ ॥
27.2.29 · p. 124
अनुष्टुप्
घस्रस्तु दिवसे हिंस्रे घोरो भीमे हरेऽपि च ।चरोऽक्षद्यूतभेदे च भौमे चारे त्रसे चले ॥ ३० ॥
27.2.30 · p. 125
अनुष्टुप्
चन्द्रः कर्पूरकाम्पिल्लसुधांशुस्वर्णवारिषु ।चक्रः कोके पुमान् क्लीबं वज्रं सैन्यरथाङ्गयोः ॥ ३१ ॥
27.2.31 · p. 125
अनुष्टुप्
राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः ।जलावर्त्तेऽप्यथ चरुः पुमान् हव्यान्नभाण्डयोः ॥ ३२ ॥
27.2.32 · p. 125
अनुष्टुप्
चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः ।चारुर्बृहस्पतौ पुंसि शोभने त्वभिधेयवत् ॥ ३३ ॥
27.2.33 · p. 125
अनुष्टुप्
चित्राखुपर्णीगोडुम्बासुभद्रादन्तिकासु च ।मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् ॥ ३४ ॥
27.2.34 · p. 125
अनुष्टुप्
तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि ।तद्युक्तयोस्त्वन्यलिङ्गं चीरी झिल्ल्यां नपुंसकम् ॥ ३५ ॥
27.2.35 · p. 125
अनुष्टुप्
गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः ।चुक्रं वृक्षाम्ले चाङ्गेर्य्यां स्त्री पुंस्यम्लेऽम्लवेतसे ॥ ३६ ॥
27.2.36 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्ले (wrong syllable)
चैत्रं मृतदेवकुले ना भूभृन्मासभेदयोः ।चौरः पाटच्चरेऽपि स्यात् चोरपुष्पौषधावपि ॥ ३७ ॥
27.2.37 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
क्षत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः ।नपुंसकञ्चातपत्रे छिद्रं दूषणरन्ध्रयोः ॥ ३८ ॥
27.2.38 · p. 125
अनुष्टुप्
जारी स्यादोषधीभेदे स्त्रियामुपपतौ पुमान् ।जीरस्तु जरणे खड्गे टारो लङ्गतुरङ्गयोः ॥ ३९ ॥
27.2.39 · p. 125
अनुष्टुप्
तरस्तु जरणे पुंसि कृशानौ पेटके तरी ।तन्त्रं कुटुम्बकृत्ये स्यात् सिद्धान्ते चौषधोत्तमे ॥ ४० ॥
27.2.40 · p. 125
अनुष्टुप्
प्रधाने तन्तुवाये च शास्त्रभेदे परिच्छदे ।श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके ॥ ४१ ॥
27.2.41 · p. 125
अनुष्टुप्
इतिकर्त्तव्यतायाञ्च तन्त्री वीणागुणे मता ।अमृतादेहशिरयोस्तन्द्री निद्राप्रमीलयोः ॥ ४२ ॥
27.2.42 · p. 125
अनुष्टुप्
तारो वानरभिन्मुक्ताविशुद्ध्योः शुद्धमौक्तिके ।ना नक्षत्रेऽक्षिमध्ये च न ना रूप्यं नपुंसकम् ॥ ४३ ॥
27.2.43 · p. 125
अनुष्टुप्
स्त्री बुद्धदेवताभेदे बालिगीष्पतिभार्य्ययोः ।त्रिलिङ्गोऽत्युच्चशब्दे च ताम्रं शूल्वेऽरुणेऽपि च ॥ ४४ ॥
27.2.44 · p. 126
अनुष्टुप्
तीव्रा तु कटुरोहिण्यां राजिकामण्डदूर्वयोः ।त्रिष्वत्युष्णे नितान्ते च कटौ तीरन्तु रोधसि ॥ ४५ ॥
27.2.45 · p. 126
अनुष्टुप्
पुंसि त्रपुणि तोत्रन्तु प्राजने वेणुकेऽपि च ।दरोऽस्त्री साध्वसे गर्त्ते कन्दरे तु दरी मता ॥ ४६ ॥
27.2.46 · p. 126
अनुष्टुप्
दराव्ययं मनागर्थे दस्रः खरेऽश्विनीसुते ।दारुः स्यात् पित्तले काष्ठे देवदारौ नपुंसकम् ॥ ४७ ॥
27.2.47 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
द्वारं निर्गमनेऽपि स्यादभ्युपाये धरो गिरौ ।कार्पासतूलके कूर्मराजे वस्वन्तरेऽपि च ॥ ४८ ॥
27.2.48 · p. 126
अनुष्टुप्
धरा विश्वम्भरायाञ्च स्त्री गर्भाशयमेदसोः ।धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ ४९ ॥
27.2.49 · p. 126
अनुष्टुप्
धारा सैन्याग्रिमस्कन्दे तुरङ्गगतिपञ्चके ।घटादिच्छिद्रसन्तत्योः प्रपाते स्याद्द्रवस्य च ॥ ५० ॥
27.2.50 · p. 126
अनुष्टुप्
खड्गादेर्निशितमुखे धारो ग्रावान्तरेऽप्यृणे ।धीरा धैर्य्यान्विते स्वैरे बुधे क्लीबन्तु कुङ्कुमे ॥ ५१ ॥
27.2.51 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्नि (wrong syllable)
स्त्रियां प्रवणतुल्यायां नरोऽजे मनुजेऽर्जुने ।क्लीबन्तु रामकर्पूरे नक्रं स्यादग्रदारुणि ॥ ५२ ॥
27.2.52 · p. 126
अनुष्टुप्
नासायां पुंसि कुम्भीरे नारस्तर्णकनीरयोः ।नीब्रं नेमौ वलीकेन्द्वोः रेवतीभेऽपि कानने ॥ ५३ ॥
27.2.53 · p. 126
अनुष्टुप्
नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च ।रथे चक्षुषि नद्याञ्च नेत्री नाड्याञ्च योषिति ॥ ५४ ॥
27.2.54 · p. 126
अनुष्टुप्
परः श्रेष्ठोरिदूरान्योत्तरे क्लीबन्तु केवले ।पत्रन्तु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः ॥ ५५ ॥
27.2.55 · p. 126
अनुष्टुप्
पारं परतटे प्रान्ते न स्त्री पारा नदीभिदि ।पारी पूरे च कर्कर्य्यां पादरज्जौ च दन्तिनः ॥ ५६ ॥
27.2.56 · p. 126
अनुष्टुप्
पात्रं स्रुवादौ पर्णे च भाजने राजमन्त्रिणि ।तीरद्वयान्तरे योग्ये पुरुः प्राज्येऽभिधेयवत् ॥ ५७ ॥
27.2.57 · p. 126
अनुष्टुप्
पुंसि स्याद्देवलोके च नृपभेदपरागयोः ।पुरं नपुंसकं गेहे देहपाटीलपुत्रयोः ॥ ५८ ॥
27.2.58 · p. 127
अनुष्टुप्
पुष्पादीनां दलावृत्तौ ना गुग्गुलौ न ना पुरि ।पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके ॥ ५९ ॥
27.2.59 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्गु (wrong syllable)
चित्रे कृमौ पुण्डरीके पुंभूम्नि नीवृदन्तरे ।पूरो जलसमूहे स्याद् व्रणसंशुद्धिखाद्ययोः ॥ ६० ॥
27.2.60 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्नि (wrong syllable)
पोत्रं वज्रे मुखाग्रे च शूकरस्य हलस्य च ।पौरं त्रिषु पुरोद्भूते कत्तृणे तु नपुंसकम् ॥ ६१ ॥
27.2.61 · p. 127
अनुष्टुप्
वरो जामातरि वृतौ देवतादेरभीप्सिते ।षिड्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् ॥ ६२ ॥
27.2.62 · p. 127
अनुष्टुप्
वरी प्रोक्ता शतावर्य्यां वरा च स्यात् फलत्रिके ।मनागिष्टे वरं क्लीबे केचिदाहुस्तदव्ययम् ॥ ६३ ॥
27.2.63 · p. 127
अनुष्टुप्
बभ्रुर्वैश्वानरे शूलपाणौ च गरुडध्वजे ।विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् ॥ ६४ ॥
27.2.64 · p. 127
अनुष्टुप्
वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् ।त्रिषु क्रूरे च कुटिले वारः सूर्य्यादिवासरे ॥ ६५ ॥
27.2.65 · p. 127
अनुष्टुप्
द्वारे हरे कुब्जवृक्षे वृन्दावसरयोः क्षणे ।वारी स्याद्गजबन्धन्यां कलस्यामपि योषिति ॥ ६६ ॥
27.2.66 · p. 127
अनुष्टुप्
वारिर्वाग्गजबन्धन्योः स्त्री क्लीबेऽम्बुनि बालके ।वीरो रसविशेषे पुंस्युत्तरे सुभटे त्रिषु ॥ ६७ ॥
27.2.67 · p. 127
अनुष्टुप्
स्त्री सुराक्षीरकाकोलीतामलक्येलवालुके ।पतिपुत्रवतीरम्भागम्भारीदुग्धिकासु च ॥ ६८ ॥
27.2.68 · p. 127
अनुष्टुप्
मलपूक्षीरविदार्य्योः क्लीबं शृङ्ग्यां नलेऽपि च ।भरुः स्वर्णे हरे पुंसि भरोऽतिशयभारयोः ॥ ६९ ॥
27.2.69 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
भद्रः शिवे खञ्जरीटे वृषभे च कदम्बके ।करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः ॥ ७० ॥
27.2.70 · p. 127
अनुष्टुप्
काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च ।तिथिभेदे प्रसारिण्यां कट्फलानन्तयोरपि ॥ ७१ ॥
27.2.71 · p. 127
अनुष्टुप्
त्रिषु श्रेष्ठे च साधौ स्यान्न पुंसि करणान्तरे ।भारः स्याद्वीवघे विष्णौ पलानां द्विसहस्रके ॥ ७२ ॥
27.2.72 · p. 128
अनुष्टुप्
भीरुरार्त्ते त्रिलिङ्गः स्याद् वरयोषिति योषिति ।भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि ॥ ७३ ॥
27.2.73 · p. 128
अनुष्टुप्
नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः ।मन्त्रो वेदविशेषे स्याद् देवादीनाञ्च साधने ॥ ७४ ॥
27.2.74 · p. 128
अनुष्टुप्
गुह्यवादेऽपि च पुमान् मरुर्ना गिरिधन्वनोः ।मात्रा कर्णविभूषायां वित्ते माने परिच्छदे ॥ ७५ ॥
27.2.75 · p. 128
अनुष्टुप्
अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे ।मारा मृत्यौ स्मरे विघ्ने मारी चण्ड्यां जनक्षये ॥ ७६ ॥
27.2.76 · p. 128
अनुष्टुप्
मारिः स्त्री मारणे वर्षे मित्रं सुहृदि न द्वयोः ।सूर्य्ये पुंसि मुरा गन्धद्रव्ये दैत्यान्तरे पुमान् ॥ ७७ ॥
27.2.77 · p. 128
अनुष्टुप्
यात्रा तु यापनेऽपि स्याद् गमनोत्सवयोः स्त्रियाम् ।रन्ध्रन्तु दूषणे छिद्रे राष्ट्रं स्यादुपवर्त्तने ॥ ७८ ॥
27.2.78 · p. 128
अनुष्टुप्
उपद्रवे क्लीबपुंसोः रुरुर्ना मृगदैत्ययोः ।रेत्रं रेतसि पीयूषे पटवासे च सूतके ॥ ७९ ॥
27.2.79 · p. 128
अनुष्टुप्
रोध्रो ना सावरे क्लीबमपराधे च किल्विषे ।रौद्रो धर्मे रसे चण्ड्यां स्त्री तीव्रे भीषणे त्रिषु ॥ ८० ॥
27.2.80 · p. 128
अनुष्टुप्
वज्रं स्याद्बालके धात्र्यां क्लीबं योगान्तरे पुमान् ।वज्रा स्नुह्यां गुडूच्याञ्च वज्री स्नुह्यन्तरे स्मृता ॥ ८१ ॥
27.2.81 · p. 128
अनुष्टुप्
दम्भोलौ हरिकेऽप्यस्त्री बध्रं त्रपुवरत्रयोः ।वप्रस्ताते पुमानस्त्री रेणौ क्षेत्रे चये तटे ॥ ८२ ॥
27.2.82 · p. 128
अनुष्टुप्
वक्त्रं मुखे वृत्तभेदे व्यग्रो व्यासक्त आकुले ।वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे ॥ ८३ ॥
27.2.83 · p. 128
अनुष्टुप्
व्याघ्रः स्यात् पुंसि शार्दूले रक्तैरण्डकरञ्जयोः ।श्रेष्ठे नराद्युत्तरस्थः कण्टकार्य्यान्तु योषिति ॥ ८४ ॥
27.2.84 · p. 128
अनुष्टुप्
वृत्रो रिपौ धने ध्वान्ते तैलभेदे च दानवे ।वेरं कलेवरे क्लीबं वार्ताकौ कुङ्कुमेऽपि च ॥ ८५ ॥
27.2.85 · p. 128
अनुष्टुप्
वोड्री स्त्री पणपादे ना गोनसाहौ झषान्तरे ।शरस्तेजनके बाणे दध्यग्रे ना शरं जले ॥ ८६ ॥
27.2.86 · p. 129
अनुष्टुप्
शस्त्रं लौहास्त्रयोः क्लीबं छुरिकायान्तु योषिति ।शक्रः पुमान् देवराजे कुटजार्जुनभूरुहोः ॥ ८७ ॥
27.2.87 · p. 129
अनुष्टुप्
शद्रिर्नाऽम्भोधरे जिष्णौ शरुर्ना कोषवज्रयोः ।शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे ॥ ८८ ॥
27.2.88 · p. 129
अनुष्टुप्
युद्धार्थगजपर्य्याणे व्यवहारान्तरेऽपि च ।शारः स्यात् शबले वाच्यलिङ्गः पुंसि समीरणे ॥ ८९ ॥
27.2.89 · p. 129
अनुष्टुप्
अक्षोपकरणे शास्त्रं न द्वयोरागमाज्ञयोः ।शिग्रुर्ना शाकमात्रे च शेाभाञ्जनमहीरुहे ॥ ९० ॥
27.2.90 · p. 129
अनुष्टुप्metre not read in every lineimpossible sign sequence: मात्रे च शेाभाञ्जनnearly अनुष्टुप्: pāda 2, syllable 4 ञ्जन (syllable split)
शिरो ना पिप्पलीमूले स्याद्धमन्याञ्च योषिति ।शीघ्रं नलदे चक्राङ्गे क्लीबं द्रुतगतौ त्रिषु ॥ ९१ ॥
27.2.91 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोस्त्रिषु ।शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् ॥ ९२ ॥
27.2.92 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्त (wrong syllable)
रेतोऽक्षिरुग्भिदोः क्लीबं शूरः स्याद्यादवे भटे ।स्वरुः पुंसि यूपखण्डे भिदुरेऽप्यधरे शरे ॥ ९३ ॥
27.2.93 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सि (wrong syllable)
सत्रं यज्ञे सदादानाच्छादनारण्यकेतवे ।सरो दध्यग्रगत्योर्ना स्वरो नासासमीरणे ॥ ९४ ॥
27.2.94 · p. 129
अनुष्टुप्
उदात्तादावकारादौ षड्रजादौ च ध्वनौ पुमान् ।सारो बले स्थिरांशे च मज्ज्नि पुंसि जले धने ॥ ९५ ॥
27.2.95 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
न्याय्ये क्लीबं त्रिषु वरे सान्द्रं वने घने मृदौ ।स्फारः स्यात् पुंसि विकटे कनकादेश्च बुद्बुदे ॥ ९६ ॥
27.2.96 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
सिप्रो निदाघसलिले सिप्रा तु सरिदन्तरे ।स्थिरा भूशालपर्ण्योर्ना शनौ मोक्षेऽचले त्रिषु ॥ ९७ ॥
27.2.97 · p. 129
अनुष्टुप्
सीरोऽर्कहलयोः पुंसि सुरा चषकमद्ययोः ।पुंलिङ्गस्त्रिदिवेशे स्यात् सूत्रं तन्तुव्यवस्थयोः ॥ ९८ ॥
27.2.98 · p. 129
अनुष्टुप्
शास्त्रादिसूत्रणाग्रन्थे स्वैरः स्वच्छन्दमन्दयोः ।हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु ॥ ९९ ॥
27.2.99 · p. 129
अनुष्टुप्
कपौ सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमान् ।वाच्यवत् पिङ्गहरितोर्हारो मुक्तावलौ युधि ॥ १०० ॥
27.2.100 · p. 130
अनुष्टुप्
हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम् ।हिंस्रा त्वेलावलीमांस्योः स्त्रियां स्याद्घातुकेऽन्यवत् ॥ १०१ ॥
27.2.101 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
हीरा तैलाम्बुकालक्ष्म्योः पुंसि शङ्करवज्रयोः ।होरा लग्नेऽपि राश्यर्द्धे रेखाशास्त्रभिदोरपि ॥ १०२ ॥
27.2.102 · p. 130
अनुष्टुप्