कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

नान्तवर्गः · नषट्कम्

नषट्कम्

अन्तावसायी श्वपचे मुनिभेदे च नापिते ।कलानुनादी रोलम्बे कलविङ्के कपिञ्जले ॥ १५२ ॥
20.6.152 · p. 101
अनुष्टुप्
जायानुजीवी पुंसि स्यान्नटे च बकपक्षिणि ।सहस्रवेधि क्लीबं स्याद् रामठे नाम्बुवेतसे ॥ १५३ ॥
20.6.153 · p. 101
अनुष्टुप्